View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

1.42 बालकांड - द्विचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ द्विचत्वारिंशस्सर्गः ।

कालधर्मं गते राम सगरे प्रकृतीजनाः ।
राजानं रोचयामासुरंशुमंतं सुधार्मिकम् ॥ 1 ॥

स राजा सुमहानासीदंशुमान् रघुनंदन ।
तस्य पुत्रो महानासीद्दिलीप इति विश्रुतः ॥ 2 ॥

तस्मिन् राज्यं समावेश्य दिलीपे रघुनंदन ।
हिमवच्छिखरे पुण्ये तपस्तेपे सुदारुणम् ॥ 3 ॥

द्वात्रिंशच्च सहस्राणि वर्षाणि सुमहायशाः ।
तपोवनं गतो राम स्वर्गं लेभे तपोधनः ॥ 4 ॥

दिलीपस्तु महातेजाश्श्रुत्वा पैतामहं वधम् ।
दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत ॥ 5 ॥

कथं गंगावतरणं कथं तेषां जलक्रिया ।
तारयेयं कथं चैतानिति चिंतापरोऽभवत् ॥ 6 ॥

तस्य चिंतयतो नित्यं धर्मेण विदितात्मनः ।
पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः ॥ 7 ॥

दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान् ।
त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत् ॥ 8 ॥

अगत्वा निश्चयं राजा तेषामुद्धरणं प्रति ।
व्याधिना नरशार्दूल कालधर्ममुपेयिवान् ॥ 9 ॥

इंद्रलोकं गतो राजा स्वार्जितेनैव कर्मणा ।
राज्ये भगीरथं पुत्रमभिषिच्य नरर्षभः ॥ 10 ॥

भगीरथस्तु राजर्षिर्धार्मिको रघुनंदन ।
अनपत्यो महातेजाः प्रजाकामस्स चाप्रजः ॥ 11 ॥

मंत्रिष्वाधाय तद्राज्यं गंगावतरणे रतः ।
स तपो दीर्घमातिष्ठद्गोकर्णे रघुनंदन ॥ 12 ॥

ऊर्ध्वबाहुः पंचतपा मासाहारो जितेंद्रियः ।
तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः ॥ 13 ॥

अतीतानि महाबाहो तस्य राज्ञो महात्मनः ।
सुप्रीतो भगवान् ब्रह्मा प्रजानां पतिरीश्वरः ॥ 14 ॥

ततस्सुरगणैस्सार्धमुपागम्य पितामहः ।
भगीरथं महात्मानं तप्यमानमथाब्रवीत् ॥ 15 ॥

भगीरथ महाभाग प्रीतस्तेऽहं जनेश्वर ।
तपसा च सुतप्तेन वरं वरय सुव्रत ॥ 16 ॥

तमुवाच महातेजाः सर्वलोकपितामहम् ।
भगीरथो महाभागः कृतांजलिरुपस्थितः ॥ 17 ॥

यदि मे भगवन् प्रीतो यद्यस्ति तपसः फलम् ।
सगरस्यात्मजास्सर्वे मत्तस्सलिलमाप्नुयुः ॥ 18 ॥

गंगायास्सलिलक्लिन्ने भस्मन्येषां महात्मनाम् ।
स्वर्गं गच्छेयुरत्यंतं सर्वे मे प्रपितामहाः ॥ 19 ॥

देया च संततिर्देव नावसीदेत्कुलं च नः ।
इक्ष्वाकूणां कुले देव एष मेऽस्तु वरःपरः ॥ 20 ॥

उक्तवाक्यं तु राजानं सर्वलोकपितामहः ।
प्रत्युवाच शुभां वाणीं मधुरां मधुराक्षराम् ॥ 21 ॥

मनोरथो महानेष भगीरथ महारथ ।
एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्धन ॥ 22 ॥

इयं हैमवती गंगा ज्येष्ठा हिमवतस्सुता ।
तां वै धारयितुं शक्तो हरस्तत्र नियुज्यताम् ॥ 23 ॥

गंगायाः पतनं राजन् पृथिवी न सहिष्यति ।
तां वै धारयितुं वीर नान्यं पश्यामि शूलिनः ॥ 24 ॥

तमेवमुक्त्वा राजानं गंगां चाभाष्य लोककृत् ।
जगाम त्रिदिवं देवस्सहदेवैर्मरुद्गणैः ॥ 25 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे द्विचत्वारिंशस्सर्गः ॥




Browse Related Categories: