View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

2.96 अयोध्याकांड - षण्णवतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ षण्णवतितमस्सर्गः ।

तां तथा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम् ।
निषसाद गिरिप्रस्थे सीतां मांसेन छंदयन् ॥ 1 ॥

इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना ।
एवमास्ते स धर्मात्मा सीतया सह राघवः ॥ 2 ॥

तथा तत्राऽसतस्तस्य भरतस्यौपयायिनः ।
सैन्यरेणुश्च शब्दश्च प्रादुरास्तां नभस्पृशौ ॥ 3 ॥

एतस्मिन्नंतरे त्रस्ता श्शब्देन महता ततः ।
अर्दिता यूथपा मत्ता स्सयूथा दुद्रुवुर्दिशः ॥ 4 ॥

स तं सैन्यसमुद्धूतं शब्दं शुश्राव राघवः ।
तां श्च विप्रद्रुतान्सर्वान्यूथपानन्ववैक्षत ॥ 5 ॥

तांश्च विद्रुवतो दृष्ट्वा तं च श्रुत्वा च निस्वनम् ।
उवाच राम स्सौमित्रिं लक्ष्मणं दीप्ततेजसम् ॥ 6 ॥

हंत लक्ष्मण पश्येह सुमित्रासुप्रजास्त्वया ।
भीमस्तनितगंभीरस्तुमुलः श्रूयते स्वनः ॥ 7 ॥

गजयूथानि वाऽरण्ये महिषा वा महावने ।
वित्रासिता मृगा स्सिंहै स्सहसा प्रद्रुता दिशः ॥ 8 ॥

राजा वा राजपुत्रो वा मृगयामटते वने ।
अन्यद्वा श्वापदं किंचित्सौमित्रे ज्ञातुमर्हसि ॥ 9 ॥

सुदुश्चरो गिरिश्चायं पक्षिणामपि लक्ष्मण ।
सर्वमेतद्यथातत्त्वमचिरात् ज्ञातुमर्हसि ॥ 10 ॥

स लक्ष्मण स्संत्वरित स्सालमारुह्य पुष्पितम् ।
प्रेक्षमाणो दिश स्सर्वाः पूर्वां दिशमुदैक्षत ॥ 11 ॥

उदङ्मुखः प्रेक्षमाणो ददर्श महतीं चमूम् ।
रथाश्वगजसंबाधां यत्तैर्युक्तां पदातिभिः ॥ 12 ॥

तामश्वगजसंपूर्णां रथध्वजविभूषिताम् ।
शशंस सेनां रामाय वचनं चेदमब्रवीत् ॥ 13 ॥

अग्निं संशमयत्वार्य स्सीता च भजतां गुहाम् ।
सज्यं कुरुष्व चापं च शरांश्च कवचं तथा ॥ 14 ॥

तं रामः पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह ।
अंगावेक्षस्व सौमित्रे कस्येमां मन्यसे चमूम् ॥ 15 ॥

एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् ।
दिधक्षन्निव तां सेनां रुषितः पावको यथा ॥ 16 ॥

संपन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम् ।
आवां हंतुं समभ्येति कैकेय्या भरतस्सुतः ॥ 17 ॥

एष वै सुमहांछ्रीमान्विटपी संप्रकाशते ।
विराजत्युद्गतस्कंधं कोविदारध्वजो रथे ॥ 18 ॥

असौ हि सुमहास्कंधो विटपी च महाद्रुमः ।
विराजते महासैन्ये कोविदारध्वजो रथे ॥ 19 ॥

भजंत्येते यथाकाममश्वानारुह्य शीघ्रगान् ।
एते भ्राजंति संहृष्टा गजानारुह्य सादिनः ॥ 20 ॥

गृहीतधनुषौ चावां गिरिं वीर श्रयावहै ।
अथवेहैव तिष्ठाव स्सन्नद्धावुद्यतायुधौ ॥ 21 ॥

अपि नौ वशमागच्छेत्कोविदारध्वजो रणे ।
अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् ॥ 22 ॥

त्वया राघव संप्राप्तं सीतया च मया तथा ।
यन्निमित्तं भवान्राज्याच्छ्युतो राघव शाश्वतात् ॥ 23 ॥

संप्राप्तोऽयमरिर्वीर भरतो वध्य एव मे ।
भरतस्य वधे दोषं नाहं पश्यामि राघव ।
पूर्वापकारिणं हत्वा न ह्यधर्मेण युज्यते ॥ 24 ॥

पूर्वापकारी भरतस्त्यक्तधर्मश्च राघव ।
एतस्मिन्निहते कृत्स्नामनुशाधि वसुंधराम् ॥ 25 ॥

अद्य पुत्रं हतं संख्ये कैकेयी राज्यकामुका ।
मया पश्येत्सुदुःखार्ता हस्तिभग्नमिव द्रुमम् ॥ 26 ॥

कैकेयीं च वधिष्यामि सानुबंधां सबांधवाम् ।
कलुषेणाद्य महता मेदिनी परिमुच्यताम् ॥ 27 ॥

अद्येमं संयतं क्रोधमसत्कारं च मानद ।
मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम् ॥ 28 ॥

अद्यैतच्छित्रकूटस्य काननं निशितै श्शरैः ।
छिंदंचत्रुशरीराणि करिष्ये शोणितोक्षितम् ॥ 29 ॥

शरैर्निर्भिन्नहृदयान्कुंजरांस्तुरगांस्तथा ।
श्वापदाः परिकर्षंतु नरांश्च निहतान्मया ॥ 30 ॥

शराणां धनुषश्चाहमनृणोऽस्मिन्महावने ।
ससैन्यं भरतं हत्वा भविष्यामि न संशयः ॥ 31 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे षण्णवतितमस्सर्गः ॥




Browse Related Categories: