View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

1.25 बालकांड - पंचविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ पंचविंशस्सर्गः ।

अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम् ।
श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम् ॥ 1 ॥

अल्पवीर्या यदा यक्षा श्श्रूयंते मुनिपुंगव ।
कथन्नागसहस्रस्य धारयत्यबला बलम् ॥ 2 ॥

विश्वामित्रोऽब्रवीद्वाक्यं शृण येन बलोत्तरा ।
वरदानकृतं वीर्यं धारयत्यबला बलम् ॥ 3 ॥

पूर्वमासीन्महायक्षस्सुकेतुर्नाम वीर्यवान् ।
अनपत्यश्शुभाचारस्स च तेपे महत्तपः ॥ 4 ॥

पितामहस्तु सुप्रीतस्तस्य यक्षपते स्तदा ।
कन्यारत्नं ददौ राम ताटकां नाम नामतः ॥ 5 ॥

ददौ नागसहस्रस्य बलं चास्याः पितामहः ।
नत्वेव पुत्रं यक्षाय ददौ ब्रह्मा महायशाः ॥ 6 ॥

तां तु जातां विवर्धंतीं रूपयौवनशालिनीम् ।
झर्झपुत्राय सुंदाय ददौ भार्यां यशस्विनीम् ॥ 7 ॥

कस्यचित्त्वथ कालस्य यक्षी पुत्रमजायत ।
मारीचं नाम दुर्धर्षं यश्शापाद्राक्षसोऽभवत् ॥ 8 ॥

सुंदे तु निहते राम सागस्त्यमृषिसत्तमम् ।
ताटका सह पुत्रेण प्रधर्षयितुमिच्छति ॥ 9 ॥

भक्षार्थं जातसंरंभा गर्जंती साभ्यधावत ।
0 आपतंतीं तु तां दृष्ट्वा अगस्त्यो भगवानृषिः ॥ 10 ॥

राक्षसत्वं भजस्वेति मारीचं व्याजहार सः ।
1 अगस्त्यः परमक्रुद्धस्ताटकामपि शप्तवान् ॥ 11 ॥

पुरुषादी महायक्षी विरूपा विकृतानना ।
इदं रूपं विहायाथ दारुणं रूपमस्तु ते ॥ 12 ॥

सैषा शापकृतामर्षा ताटका क्रोधमूर्छिता ।
देशमुत्सादयत्येनमगस्त्यचरितं शुभम् ॥ 13 ॥

एनां राघव दुर्वृत्तां यक्षीं परमदारुणाम् ।
गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम् ॥ 14 ॥

न ह्येनां शापसम्स्पृष्टां कश्चिदुत्सहते पुमान् ।
निहंतुं त्रिषु लोकेषु त्वामृते रघुनंदन ॥ 15 ॥

न हि ते स्त्रीवधकृते घृणा कार्या नरोत्तम ।
चातुर्वण्यहितार्थाय कर्तव्यं राजसूनुना ॥ 16 ॥

नृशंसमनृशंसं वा प्रजारक्षणकारणात् ।
पातकं वा सदोषं वा कर्तव्यं रक्षता सता ॥ 17 ॥

राज्यभारनियुक्तानामेष धर्मस्सनातनः ।
अधर्म्यां जहि काकुत्स्थ धर्मोह्यस्या न विद्यते ॥ 18 ॥

श्रूयते हि पुरा शक्रो विरोचनसुतां नृप ।
पृथिवीं हंतुमिच्छंतीं मंथरामभ्यसूदयत् ॥ 19 ॥

विष्णुनापि पुरा राम भृगुपत्नी दृढव्रता ।
अनिंद्रं लोकमिच्छंती काव्यमाता निषूदिता ॥ 20 ॥

एतैश्चान्यैश्च बहुभी राजपुत्र महात्मभिः ।
अधर्मसहिता नार्यो हताः पुरुषसत्तमैः ॥ 21 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे पंचविंशस्सर्गः ॥




Browse Related Categories: