View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

1.75 बालकांड - पंचसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ पंचसप्ततितमस्सर्गः ।

राम दाशरथे राम वीर्यं ते श्रूयतेऽद्भुतम् ।
धनुषो भेदनं चैव निखिलेन मया श्रुतम् ॥ 1 ॥

तदद्भुतमचिंत्यं च भेदनं धनुषस्त्वया ।
तच्छ्रुत्वाऽहमनुप्राप्तो धनुर्गृह्यापरं शुभम् ॥ 2 ॥

तदिदं घोरसंकाशं जामदग्न्यं महद्धनुः ।
पूरयस्व शरेणैव स्वबलं दर्शयस्व च ॥ 3 ॥

तदहं ते बलं दृष्ट्वा धनुषोऽस्य प्रपूरणे ।
द्वंद्वयुद्धं प्रदास्यामि वीर्यश्लाघ्यस्य राघव ॥ 4 ॥

तस्य तद्वचनं श्रुत्वा राजा दशरथस्तदा ।
विषण्णवदनो दीनः प्रांजलिर्वाक्यमब्रवीत् ॥ 5 ॥

क्षत्ररोषात्प्रशांतस्त्वं ब्राह्मणश्च महायशाः ।
बालानां मम पुत्राणामभयं दातुमर्हसि ॥ 6 ॥

भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम् ।
सहास्राक्षे प्रतिज्ञाय शस्त्रं निक्षिप्तवानसि ॥ 7 ॥

स त्वं धर्मपरो भूत्वा काश्यपाय वसुंधराम् ।
दत्त्वा वनमुपागम्य महेंद्रकृतकेतनः ॥ 8 ॥

मम सर्वविनाशाय संप्राप्तस्त्वं महामुने ।
न चैकस्मिन् हते रामे सर्वे जीवामहे वयम् ॥ 9 ॥

ब्रुवत्येवं दशरथे जामदग्न्यः प्रतापवान् ।
अनादृत्यैव तद्वाक्यं राममेवाभ्यभाषत ॥ 10 ॥

इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिविश्रुते ।
दृढे बलवती मुख्ये सुकृते विश्वकर्मणा ॥ 11 ॥

अतिसृष्टं सुरैरेकं त्र्यंबकाय युयुत्सवे ।
त्रिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्स्थ यत्त्वया ॥ 12 ॥

इदं द्वितीयं दुर्धर्षं विष्णोर्दत्तं सुरोत्तमैः ।
तदिदं वैष्णवं राम धनुः परमभास्वरम् ।
समानसारं काकुत्स्थ रौद्रेण धनुषा त्विदम् ॥ 13 ॥

तदा तु देवतास्सर्वाः पृच्छंति स्म पितामहम् ।
शितिकंठस्य विष्णोश्च बलाबलनिरीक्षया ॥ 14 ॥

अभिप्रायं तु विज्ञाय देवतानां पितामहः ।
विरोधं जनयामास तयो स्सत्यवतां वरः ॥ 15 ॥

विरोधे च महद्युद्धमभवद्रोमहर्षणम् ।
शितिकंठस्य विष्णोश्च परस्परजिगीषुणोः ॥ 16 ॥

तदा तु जृंभितं शैवं धनुर्भीमपराक्रमम् ।
हुंकारेण महादेव स्तंभितोऽथ त्रिलोचनः ॥ 17 ॥

देवैस्तदा समागम्य सर्षिसघै स्सचारणैः ।
याचितौ प्रशमं तत्र जग्मतुस्तौ सुरोत्तमौ ॥ 18 ॥

जृंभितं तद्धनुर्द्रृष्ट्वा शैवं विष्णुपराक्रमैः ।
अधिकं मेनिरे विष्णुं देवा स्सर्षिगणास्तदा ॥ 19 ॥

धनू रुद्रस्तु संकृद्धो विदेहेषु महायशाः ।
देवरातस्य राजर्षेर्ददौ हस्ते ससायकम् ॥ 20 ॥

इदं च वैष्णवं राम धनुः परपुरंजयम् ।
ऋचीके भार्गवे प्रादाद्विष्णुः स न्यासमुत्तमम् ॥ 21 ॥

ऋचीकस्तु महातेजाः पुत्रस्याप्रतिकर्मणः ।
पितुर्मम ददौ दिव्यं जमदग्नेर्महात्मनः ॥ 22 ॥

न्यस्तशस्त्रे पितरि मे तपोबलसमन्विते ।
अर्जुनो विदधे मृत्युं प्राकृतां बुद्धिमास्थितः ॥ 23 ॥

वधमप्रतिरूपं तु पितु श्शृत्वा सुदारुणम् ।
क्षत्रमुत्सादयन्रोषाज्जातं जातमनेकशः ॥ 24 ॥

पृथिवीं चाखिलां प्राप्य काश्यपाय महात्मने ।
यज्ञस्यांते तदा राम दक्षिणां पुण्यकर्मणे ।
दत्त्वा महेंद्रनिलयस्तपोबलसमन्वितः ॥ 25 ॥

अद्यतूत्तमवीर्येण त्वया राम महाबल ।
श्रुतवान् धनुषो भेदं ततोऽहं द्रुतमागतः ॥ 26 ॥

तदिदं वैष्णवं राम पितृपैतामहं महत् ।
क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम् ॥ 27 ॥

योजयस्व धनुश्श्रेष्ठे शरं परपुरंजयम् ।
यदि शक्नोषि काकुत्स्थ द्वंद्वं दास्यामि ते ततः ॥ 28 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे पंचसप्ततितमस्सर्गः ॥




Browse Related Categories: