View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

5.10 सुंदरकांड - दशम सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ दशमस्सर्गः ।

तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम् ।
अवेक्षमाणो हनुमान् ददर्श शयनासनम् ॥ 1 ॥

दांतकांचनचित्रांगैर्वैडूर्यैश्च वरासनैः ।
महार्हास्तरणोपेतैरुपपन्नं महाधनैः ॥ 2 ॥

तस्य चैकतमे देशे सोऽग्य्रमालाविभूषितम् ।
ददर्श पांडुरं छत्रं ताराधिपतिसन्निभम् ॥ 3 ॥

जातरूपपरिक्षिप्तं चित्रभानुसमप्रभम् ।
अशोकमालाविततं ददर्श परमासनम् ॥ 4 ॥

वालव्यजनहस्ताभिर्वीज्यमानं समंततः ।
गंधैश्च विविधैर्जुष्टं वरधूपेन धूपितम् ॥ 5 ॥

परमास्तरणास्तीर्णमाविकाजिनसंवृतम् ।
दामभिर्वरमाल्यानां समंतादुपशोभितम् ॥ 6 ॥

तस्मिन् जीमूतसंकाशं प्रदीप्तोत्तमकुंडलम् ।
लोहिताक्षं महाबाहुं महारजतवाससम् ॥ 7 ॥

लोहितेनानुलिप्तांगं चंदनेन सुगंधिना ।
संध्यारक्तमिवाकाशे तोयदं सतटिद्गणम् ॥ 8 ॥

वृतमाभरणैर्दिव्यैः सुरूपं कामरूपिणम् ।
सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मंदरम् ॥ 9 ॥

क्रीडित्वोपरतं रात्रौ वराभरणभूषितम् ।
प्रियं राक्षसकन्यानां राक्षसानां सुखावहम् ॥ 10 ॥

पीत्वाऽप्युपरतं चापि ददर्श स महाकपिः ।
भास्वरे शयने वीरं प्रसुप्तं राक्षसाधिपम् ॥ 11 ॥

निःश्वसंतं यथा नागं रावणं वानरर्षभः ।
आसाद्य परमोद्विग्नस्सोपासर्पत्सुभीतवत् ॥ 12 ॥

अथाऽऽरोहणमासाद्य वेदिकाऽंतरमाश्रितः ।
सुप्तं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः ॥ 13 ॥

शुशुभे राक्षसेंद्रस्य स्वपतः शयनोत्तमम् ।
गंधहस्तिनि संविष्टे यथा प्रस्रवणं महत् ॥ 14 ॥

कांचनांगदसन्नध्दै च ददर्श स महात्मनः ।
विक्षिप्तौ राक्षसेंद्रस्य भुजाविंद्रध्वजोपमौ ॥ 15 ॥

ऐरावतविषाणाग्रैरापीडनकृतव्रणौ ।
वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षतौ ॥ 16 ॥

पीनौ समसुजातांसौ संगतौ बलसंयुतौ ।
सुलक्षणनखांगुष्ठा स्वंगुलीतललक्षितौ ॥ 17 ॥

संहतौ परिघाकारौ वृत्तौ करिकरोपमौ ।
विक्षिप्तौ शयने शुभ्रे पंचशीर्षाविवोरगौ ॥ 18 ॥

शशक्षतजकल्पेन सुशीतेन सुगंधिना ।
चंदनेन परार्ध्येन स्वनुलिप्तौ स्वलंकृतौ ॥ 19 ॥

उत्तमस्त्रीविमृदितौ गंधोत्तमनिषेवितौ ।
यक्षपन्नगगंधर्वदेवदानवराविणौ ॥ 20 ॥

ददर्श स कपिस्तत्र बाहू शयनसंस्थितौ ।
मंदरस्यांतरे सुप्तौ महाही रुषिताविव ॥ 21 ॥

ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः ।
शुशुभेऽचलसंकाशः शृंगाभ्यामिव मंदरः ॥ 22 ॥

चूतपुन्नागसुरभिर्वकुलोत्तमसंयुतः ।
मृष्टान्नरससंयुक्तः पानगंधपुरस्कृतः ॥ 23 ॥

तस्य राक्षससिंहस्य निश्चक्राम महामुखात् ।
शयानस्य विनिःश्वासः पूरयन्निव तद् गृहम् ॥ 24 ॥

मुक्तामणिविचित्रेण कांचनेन विराजितम् ।
मकुटेनापवृत्तेन कुंडलोज्वलिताननम् ॥ 25 ॥

रक्तचंदनदिग्धेन तथा हारेण शोभिना ।
पीनायतविशालेन वक्षसाऽभिविराजितम् ॥ 26 ॥

पांडरेणापविद्धेन क्षौमेण क्षतजेक्षणम् ।
महार्हेण सुसंवीतं पीतेनोत्तमवाससा ॥ 27 ॥

माषराशिप्रतीकाशं निश्श्वसंतं भुजंगवत् ।
गांगे महति तोयांते प्रसुप्तमिव कुंजरम् ॥ 28 ॥

चतुर्भिः कांचनैर्दीपैद्धीप्यमानचतुर्दिशम् ।
प्रकाशीकृतसर्वांगं मेघं विद्युद्गणैरिव ॥ 29 ॥

पादमूलगताश्चापि ददर्श सुमहात्मनः ।
पत्नीः स प्रियभार्यस्य तस्य रक्षःपतेर्गृहे ॥ 30 ॥

शशिप्रकाशवदनाश्चारुकुंडलभूषिताः ।
अम्लानमाल्याभरणा ददर्श हरियूथपः ॥ 31 ॥

नृत्तवादित्रकुशला राक्षसेंद्रभुजांकगाः ।
वराभरणधारिण्यो निषण्णा ददृशे हरिः ॥ 32 ॥

वज्रवैडूर्यगर्भाणि श्रवणांतेषु योषिताम् ।
ददर्श तापनीयानि कुंडलान्यंगदानि च ॥ 33 ॥

तासां चंद्रोपमैर्वक्त्रैश्शुभैर्ललितकुंडलैः ।
विरराज विमानं तन्नभस्तारागणैरिव ॥ 34 ॥

मदव्यायामखिन्नास्ता राक्षसेंद्रस्य योषितः ।
तेषु तेष्ववकाशेषु प्रसुप्तास्तनुमध्यमाः ॥ 35 ॥

अंगहारैस्तथैवान्या कोमलैर्नृत्तशालिनी ।
विन्यस्तशुभसर्वांगी प्रसुप्ता वरवर्णिनी ॥ 36 ॥

काचिद्वीणां परिष्वज्य प्रसुप्ता संप्रकाशते ।
महानदीप्रकीर्णेव नलिनी पोतमाश्रिता ॥ 37 ॥

अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा ।
प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला ॥ 38 ॥

पटहं चारुसर्वांगी पीड्य शेते शुभस्तनी ।
चिरस्य रमणं लब्ध्वा परिष्वज्येव भामिनी ॥ 39 ॥

काचिद्वंशं परिष्वज्य सुप्ता कमललोचना ।
रहः प्रियतमं गृह्य सकामेव च कामिनी ॥ 40 ॥

विपंचीं परिगृह्यान्या नियता नृत्तशालिनी ।
निद्रावशमनुप्राप्ता सह कांतेव भामिनी ॥ 41 ॥

अन्या कनकसंकाशैर्मृदुपीनैर्मनोरमैः ।
मृदंगं परिपीड्यांगैः प्रसुप्ता मत्तलोचना ॥ 42 ॥

भुजपार्श्वांतरस्थेन कक्षगेन कृशोदरी ।
पणवेव सहानिंद्या सुप्ता मदकृतश्रमा ॥ 43 ॥

डिंडिमं परिगृह्यान्या तथैवासक्तडिंडिमा ।
प्रसुप्ता तरुणं वत्समुपगूह्येव भामिनी ॥ 44 ॥

काचिदाडंबरं नारी भुजसंयोगपीडितम् ।
कृत्वा कमलपत्राक्षी प्रसुप्ता मदमोहिता ॥ 45 ॥

कलशीमपविध्यान्या प्रसुप्ता भाति भामिनी ।
वसंते पुष्पशबला मालेव परिमार्जिता ॥ 46 ॥

पाणिभ्यां च कुचौ काचित्सुवर्णकलशोपमौ ।
उपगूह्याबला सुप्ता निद्राबलपराजिता ॥ 47 ॥

अन्या कमलपत्राक्षी पूर्णेंदुसदृशानना ।
अन्यामालिंग्य सुश्रोणीं प्रसुप्ता मदविह्वला ॥ 48 ॥

आतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियः ।
निपीड्य च कुचैस्सुप्ता कामिन्यः कामुकानिव ॥ 49 ॥

तासामेकांतविन्यस्ते शयानां शयने शुभे ।
ददर्श रूपसंपन्नामपरां स कपिः स्त्रियम् ॥ 50 ॥

मुक्तामणिसमायुक्तैर्भूषणैः सुविभूषिताम् ।
विभूषयंतीमिव तत्स्वश्रिया भवनोत्तमम् ॥ 51 ॥

गौरीं कनकवर्णाभामिष्टामंतः पुरेश्वरीम् ।
कपिर्मंदोदरीं तत्र शयानां चारुरूपिणीम् ॥ 52 ॥

स तां दृष्ट्वा महाबाहुर्भूषितां मारुतात्मजः ।
तर्कयामास सीतेति रूपयौवनसंपदा ॥ 53 ॥

हर्षेण महता युक्तो ननंद हरियूथपः ।
आस्फोटयामास चुचुंब पुच्छं ननंद चिक्रीड जगौ जगाम ।
स्तंभानरोहन्निपपात भूमौ निदर्शयन् स्वां प्रकृतिं कपीनाम् ॥ 54 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे दशमस्सर्गः ॥




Browse Related Categories: