View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

3.68 अरण्यकांड - अष्टषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ अष्टषष्टितमस्सर्गः ।

रामस्संप्रेक्ष्य तं गृध्रं भुवि रौद्रेण पातितम् ।
सौमित्रिं मित्रसंपन्नमिदं वचनमब्रवीत् ॥ 1 ॥

ममायं नूनमर्थेषु यतमानो विहंगमः ।
राक्षसेन हतस्संख्ये प्राणांस्त्यक्ष्यति दुस्त्यजान् ॥ 2 ॥

अयमस्य शरीरेऽस्मिन्प्राणो लक्ष्मण विद्यते ।
तथा हि स्वरहीनोऽयं विक्लबस्समुदीक्ष्यते ॥ 3 ॥

जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः ।
सीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः ॥ 4 ॥

किं निमित्तोऽहरत्सीतां रावणस्तस्य किं मया ।
अपराद्धं तु यं दृष्ट्वा रावणेन हृता प्रिया ॥ 5 ॥

कथं तच्चंद्रसंकाशं मुखमासीन्मनोहरम् ।
सीतया कानि चोक्तानि तस्मिन्काले द्विजोत्तम ॥ 6 ॥

कथं वीर्यः कथं रूपः किं कर्मा स च राक्षसः ।
क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः ॥ 7 ॥

तमुद्वीक्ष्याथ दीनात्मा विलपंतमनंतरम् ।
वाचातिसन्नया रामं जटायुरिदमब्रवीत् ॥ 8 ॥

हृता सा राक्षसेंद्रेण रावणेन विहायसा ।
मायामास्थाय विपुलां वातदुर्दिनसंकुलाम् ॥ 9 ॥

परिश्रांतस्य मे तात पक्षौ छित्वा स राक्षसः ।
सीतामादाय वैदेहीं प्रयातो दक्षिणां दिशम् ॥ 10 ॥

उपरुध्यंति मे प्राणा दृष्टिर्भ्रमति राघव ।
पश्यामि वृक्षान्सौवर्णानुशीरकृतमूर्धजान् ॥ 11 ॥

येन याति मुहूर्तेन सीतामादाय रावणः ।
विप्रणष्टं धनं क्षिप्रं तत्स्वामी प्रतिपद्यते ॥ 12 ॥

विंदो नाम मुहूर्तोऽयं स च काकुत्स्थ नाबुधत् ।
त्वत्प्रियां जानकीं हृत्वा रावणो राक्षसेश्वरः ॥ 13 ॥

झषवद्बडिशं गृह्य क्षिप्रमेव विनश्यति ।
न च त्वया व्यथा कार्या जनकस्य सुतां प्रति ॥ 14 ॥

वैदेह्या रंस्यसे क्षिप्रं हत्वा तं राक्षसं रणे ।
असम्मूढस्य गृध्रस्य रामं प्रत्यनुभाषतः ॥ 15 ॥

आस्यात्सुस्राव रुधिरं म्रियमाणस्य सामिषम् ।
पुत्रो विश्रवसस्साक्षाद्भ्राता वैश्रवणस्य च ॥ 16 ॥

इत्युक्त्वा दुर्लभान्प्राणान्मुमोच पतगेश्वरः ।
ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृतांजलेः ॥ 17 ॥

त्वक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसम् ।
स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा ॥ 18 ॥

विक्षिप्य च शरीरं स्वं पपात धरणीतले ।
तं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम् ॥ 19 ॥

रामस्सुबहुभिर्दुःखैर्दीनस्सौमित्रिमब्रवीत् ।
बहूनि रक्षसां वासे वर्षाणि वसता सुखम् ॥ 20 ॥

अनेन दंडकारण्ये विशीर्णमिह पक्षिणा ।
अनेकवार्षिको यस्तु चिरकालसमुत्थितः ॥ 21 ॥

सोऽयमद्य हतश्शेते कालो हि दुरतिक्रमः ।
पश्य लक्ष्मण गृध्रोऽयमुपकारी हतश्च मे ॥ 22 ॥

सीतामभ्यवपन्नो वै रावणेन बलीयसा ।
गृध्रराज्यं परित्यज्य पितृपैतामहं महत् ॥ 23 ॥

मम हेतोरयं प्राणान्मुमोच पतगेश्वरः ।
सर्वत्र खलु दृश्यंते साधवो धर्मचारिणः ॥ 24 ॥

शूराश्शरण्यास्सौमित्रे तिर्यग्योनिगतेष्वपि ।
सीताहरणजं दुःखं न मे सौम्य तथाविधम् ॥ 25 ॥

यथा विनाशे गृध्रस्य मत्कृते च परंतप ।
राजा दशरथश्श्रीमान्यथा मम महायशाः ॥ 26 ॥

पूजनीयश्च मान्यश्च तथाऽयं पतगेश्वरः ।
सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् ॥ 27 ॥

गृध्रराजं दिधक्षामि मत्कृते निधनं गतम् ।
नाथं पतगलोकस्य चितामारोप्य राघव ॥ 28 ॥

इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा ।
या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः ॥ 29 ॥

अपरावर्तिनां या च या च भूमिप्रदायिनाम् ।
मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान् ॥ 30 ॥

गृध्रराज महासत्त्व संस्कृतश्च मया व्रज ।
एवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम् ॥ 31 ॥

ददाह रामो धर्मात्मा स्वबंधुमिव दुःखितः ।
रामोऽथ सहसौमित्रिर्वनं गत्वा स वीर्यवान् ॥ 32 ॥

स्थूलान्हत्वा महारोहीननुतस्तार तं द्विजम् ।
रोहिमांसानि चोत्कृत्य पेशीकृत्य महायशाः ॥ 33 ॥

शकुनाय ददौ रामो रम्ये हरितशाद्वले ।
यत्तत्प्रेतस्य मर्त्यस्य कथयंति द्विजातयः ॥ 34 ॥

तत्स्वर्गगमनं तस्य पित्र्यं रामो जजाप ह ।
ततो गोदावरीं गत्वा नदीं नरवरात्मजौ ॥ 35 ॥

उदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ ।
शास्त्रदृष्टेन विधिना जले गृध्राय राघवौ ॥ 36 ॥

स्नात्वा तौ गृध्रराजाय उदकं चक्रतुस्तदा ।
स गृध्रराजः कृतवान्यशस्करं सुदुष्करं कर्म रणे निपातितः ।
महर्षिकल्पेन च संस्कृतस्तदा जगाम पुण्यां गतिमात्मनश्शुभाम् ॥ 37 ॥

कृतोदकौ तावपि पक्षिसत्तमे स्थिरां च बुद्धिं प्रणिधाय जग्मतुः ।
प्रवेश्य सीताधिगमे ततो मनो वनं सुरेंद्रविव विष्णुवासवौ ॥ 38 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे अष्टषष्टितमस्सर्गः ॥




Browse Related Categories: