श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ अष्टादशाधिकशततमस्सर्गः ।
तान्तुपाश्वस्थिताम्प्रह्वांरामस्सम्प्रेक्ष्यमैथिलीम् ।
हृदयान्तर्गतङ्क्रोधव्याहर्तुमुपचक्रमे ॥ 1 ॥
एषासिनिर्जिताभद्रेशत्रुञ्जित्वारणाजिरे ।
पौरुषाद्यदनुष्ठेयम्मयैतदुपपादितम् ॥ 2 ॥
गतोऽस्म्यन्तममर्षस्यधर्षणासम्प्रमार्जिता ।
अवमानश्चशत्रुश्चयुगपन्निहतौमया ॥ 3 ॥
अद्यमेपौरुषन्दृष्टमद्यमेसफल्श्रमः ।
अद्यतीर्णप्रतिज्ञोऽत्वाप्रभवाम्यद्यचात्मनः ॥ 4 ॥
यात्वंविरहितानीताचलचित्तेनरक्षसा ।
दैवसम्पादितोदोषोमानुषेणमयाजितः ॥ 5 ॥
सम्प्राप्तमवमानंयस्तेजसा न प्रमार्जति ।
कस्तस्यपुरुषार्थोमहताप्यल्पचेतसः ॥ 6 ॥
लङ्घनं च समुद्रस्यलङ्कायाश्चापिमर्धनम् ।
सफलन्तस्य च श्लाघ्यमद्यकर्महनूमतः ॥ 7 ॥
युद्धेविक्रमतश्चैवहितम्मन्त्रयतस्तथा ।
सुग्रीवस्यससैन्यस्यसफलोऽद्यपरिश्रमः ॥ 8 ॥
विभीषणस्य च तथासफलोऽद्यपरिश्रमः ।
विगुणम्भ्रातरन्त्यक्त्वायोमांस्वयमुपस्थितः ॥ 9 ॥
इत्येवंवदत्श्रुत्वासीतारामस्यतद्वचः ।
मृगीवोत्फुल्लनयनाबभूवाश्रुपरिप्लुता ॥ 10 ॥
पश्यतस्तान्तुरामस्यसमीपेहृदयप्रियाम् ।
जनवादभयाद्राज्ञोबभूवहृदयन्द्विधा ॥ 11 ॥
सीतामुत्पलपत्राक्षीन्नीलकुञ्चितमूर्थजाम् ।
अवदद्वैवरारोहम्मध्येवानररक्षसाम् ॥ 12 ॥
यत्कर्तव्यम्मनुष्येणधर्षणाम्प्रतिमार्जता ।
तत्कृतंरावणंहत्वामयेदम्मानकाङ्क्षिणा ॥ 13 ॥
निर्जिताजीवलोकस्यतपसाभावितात्मना ।
अगस्त्येनदुराधर्षामुनिनादक्षिणेवधिक् ॥ 14 ॥
विदितश्चास्तुभत्रन्तेयोऽयंरणपरिश्रमः ।
सुतीर्णःसुहृदांवीर्यान्नत्वदर्थम्मयाकृतः ॥ 15 ॥
रक्षतातुमयावृत्तपमवादं च सर्वतः ।
प्रख्यातस्यात्मवंशस्यव्यङ्ग्यं च परिमार्जता ॥ 16 ॥
प्राप्तचारित्रसन्देहाममप्रतिमुखेस्थिता ।
दीपोनेत्रातुरस्येवप्रतिकूलासिमेदृढम् ॥ 17 ॥
तद्गच्छत्वानुजानेऽद्ययथेष्टञ्जनकात्मजे ।
एतादशदिशोभद्रेकार्यमस्ति न मेत्वया ॥ 18 ॥
कःपुमांस्तुकुलेजातस्स्त्रयम्परगृहाषिताम् ।
तेजस्वीपुनरादद्यात्सुहृल्लेख्येनचेतसा ॥ 19 ॥
रावणाङ्कपरिक्लिष्टान्दृष्टान्दुष्टेनचक्षुषा ।
कथन्त्वापुनरादद्याङ्कुलंव्यपदिशन् महत् ॥ 20 ॥
तदर्थन्निर्जितामेत्वंयशःप्रत्याहृतम्मया ।
नास्तिमेत्यय्यभिष्वङ्गोयथेष्टङ्गम्यतामितः ॥ 21 ॥
तदद्यव्याहृतम्भद्रेमयैतत् कृतबुधदिना ।
लक्ष्मणेनाथभरतेकुरुबुधदिंयथासुखम् ॥ 22 ॥
शत्रुघ्नेवाथसुग्रीवेराक्षसेवाविभीषणे ।
निवेशयमनस्सीतेयथावासुखमात्मनः ॥ 23 ॥
न हित्वांरावणोदृष्टवादिव्यरूपाम्मनोरमाम् ।
मर्षयेतचिरंसीतेस्वगृहेपर्यवस्थिताम् ॥ 24 ॥
ततःप्रियार्हश्रवणातदप्रियम्प्रियादुपश्रुत्यचिरस्यमैथिली ।
मुमोचबाष्पंसुभृशम्प्रवेपितागजेन्द्रहस्ताभिहतेवसल्लकी ॥ 25 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे अष्टादशाधिकशततमस्सर्गः ॥