View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.22 युद्धकाण्ड - द्वाविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ द्वाविंशस्सर्गः ।

अथोवाच रघुश्रेष्ठः सागरं दारुणं वचः ।
अद्य त्वां शोषयिष्यामि सपातालं महार्णव ॥ 1 ॥

शरनिर्दग्धतोयस्यपरिशुष्कस्यसागरः ।
मयाशोषितसत्त्वस्यपांसुरुत्पद्यतेमहान् ॥ 2 ॥

मत्कार्मुकविसृष्टेवशरवर्षेणसागर ।
पारन्तेऽद्यगमिष्यन्तिपदभिरेवप्लवङ्गमाः ॥ 3 ॥

विचिन्वन्नाभिजानासिपौरुषन्नापिविक्रमम् ।
दानवालयसन्तापम्मत्तोनाधिगमिष्यसि ॥ 4 ॥

ब्राह्मेणास्त्रेणसंयोज्यब्रह्मदण्डनिभं शरम् ।
संयोज्यधनुषिश्रेष्ठविचकर्षमहाबलः ॥ 5 ॥

तस्मिन्विविकृष्टेसहसाराघवेणशरासने ।
रोदसीसम्पफालेवपर्वताश्चचकम्पिरे ॥ 6 ॥

तमश्चलोकमाव्रतेदिशश्चवचकाशिरे ।
प्रतिचुक्षुभिरेचाशुसरांसिसरितस्तथा ॥ 7 ॥

तिर्यक्चसहानेक्षत्रैस्सङ्गतौचन्द्रभास्करौ ।
भास्करांशुभिरादीप्तन्तमसाचसमावृतम् ॥ 8 ॥

चकाशेतदाकाशमुल्काशतविदीपितम् ।
अन्तरिक्षाच्चनिर्घातानिर्जग्मुरतुलस्वनाः ॥ 9 ॥

वपुस्फुरुश्चघनादिव्यादिविमारुतपङ् ख्कयः ।
बभञ्जचतदावृक्षान्जलदानुद्वहन्नपिः ॥ 10 ॥

अरुजंश्चैनशैलाग्राशनिखराणिबभञ्जनः ।
दिविस्पृशोमहमेघास्सङ्गतास्समहास्वनाः ॥ 11 ॥

मुमुचुर्वैद्युताननगींस्तेमहाशनयस्तदा ।
यानिभूतानिदृश्यानिचुक्रुशुश्चाशनेसमम् ॥ 12 ॥

अदृश्यानिचभूतानिमुमुचुर्भैरवस्वनम् ।
शिशियरेचाभिभूतानिसन्त्रस्ताम्यद्विजन्तिच ॥ 13 ॥

सम्प्रविव्यथिरेचापिवचपस्पन्दिरेभयात् ।
सहाभूतैस्सतोयोर्मिस्सनागस्सहराक्षसः ॥ 14 ॥

सहसाऽभूत्ततोवेगाबदीमवेगोमहोदधिः ।
योजनंव्यतिचक्रामवेलामन्यत्रसम्ल्पवात् ॥ 15 ॥

तन्तदासमतिक्रान्तन्नातिचक्रामराघवः ।
समुद्धतममित्रघ्नोरामोनदनदीपतिम् ॥ 16 ॥

ततोमथ्यात्समुद्रस्यसागरस्स्वयमुत्थितः ।
उदयन् हिमहाशैलान्मेरोरिवदिवाकरः ॥ 17 ॥

पन्नगैस्सहदीप्तास्यैस्समुद्रःप्रत्यदृश्यत ।
स्निग्धवैढूर्यसङ्काशोजाम्बूनदविभूषणः ॥ 18 ॥

रक्तमाल्याम्बरधरःपद्मपत्रनिभेक्षणः ।
सर्वपुष्पमयीन्दिव्यांशिरसाधारयन् स्रजम् ॥ 19 ॥

जातरूपमयैश्चैवतपनीयविभूषितैः ।
आत्मजानाञ्चरत्नानाम्भूषितोभूषणोत्तमैः ॥ 20 ॥

धातुभिर्मण्डितश्शैलोविविधैर्हिमवानिव ।
एकावलीमध्यगतन्तरलम्पाटलप्रभम् ॥ 21 ॥

विपुलेनोरसा बिभ्रत्कौस्तुभस्य सहोदरम् ।
अघूर्णिततरङ्गौघःकालिकानिलसङ्गुलः ॥ 22 ॥

गङ्गासिन्दुप्रधाननाभिरापगाभिस्समावृतः ।
देवतानांसरूपाभिर्नानारूपाभिरीश्वरः ॥ 23 ॥

सागरस्समुपक्रम्यपूर्वमाम्नत्यरवीर्यवान् ।
अब्रवीत्प्राञ्जलिर्वाक्यंराघवंशरपाणिनम् ॥ 24 ॥

पृथिवीवायुराकाशमापोज्योतिश्चराघवः ।
स्वभावेसौम्य तिष्ठन्तिशाश्वतम्मार्गमाश्रिताः ॥ 25 ॥

तत्स्वभावोममाप्येषयदगाधोऽहमप्लवः ।
विकारस्तुभवेद्गाधएतत्तेप्रवदाम्यहम् ॥ 26 ॥

नकामान्नचलोभाद्वानभयातत्सापार्थिवात्मजः ।
ग्राहनकाकुलजलंस्तम्बयेयङ्कथञ्जन ॥ 27 ॥

विधास्येरामः येनापिविषहिष्येह्यहन्तथा ।
नग्राहाप्रहरिष्यन्तियावत्सेनातरिष्यति ॥ 28 ॥

हरीणान्तरणेरामकरिष्यामियथास्थलम् ।
तमब्रवीत्तदारामःउद्यतोहिनदीपते ।
अमोघोऽयम्महाबाणःकस्मिन् देशेनिपात्यताम् ॥ 29 ॥

रामस्यवचनंश्रुत्वातञ्चदृष्टवामहाशरम् ।
महोदधिर्महातेजाराघवंवाक्यमब्रवीत् ॥ 30 ॥

महोदधिर्महातेजा राघवं वाक्यमब्रवीत् ।
उत्तरेणावकाशोऽस्ति कश्चित्पुण्यतरो मम ॥ 31 ॥

उग्रदर्शनकर्माणोबहवस्तत्रदस्यवः ।
आभीरप्रमुखाःपापाःपिबन्तिसलिलम्मम ॥ 32 ॥

तैस्तुसंस्पर्शनम्पापैर्नसहेपापकर्मभिः ।
अमोघःक्रियतांरामः तत्रतेषुशरोत्तमः ॥ 33 ॥

तस्यतद्वचनंश्रुत्वासागरस्यराघवः ।
मुमोचतंशरन्दीप्तंवीरस्सागरदर्शनात् ॥ 34 ॥

तेनतन्मरुकान्तारम्पृथिव्याखलुविश्रुतम् ।
निपातितश्शरोयत्रवज्राशनिसमप्रभः ॥ 35 ॥

ननादचतदातत्रवसुधाशल्यपीडिता ।
तस्माद्ब्राणमुखात्तोयमुत्पपातरसातलात् ॥ 36 ॥

तस्माद्बाणमुखात्तोयमुत्पपात रसातलात् ।
स बभूव तदा कूपो व्रण इत्येव विश्रुतः ॥ 37 ॥

अवधारणशब्दश्चदारुणस्समपद्यत ।
तस्मात्तद्बाणनिपातेनत्वपःकुक्षिष्वशोषयत् ॥ 38 ॥

विख्यातन्त्रिषुलोकेषुमधुकान्तारमेवतत् ॥ 39 ॥

मोक्षयित्वाततःकुक्षिंरामोदशरथात्मजः ।
वरन्तस्मैददौविद्वान्मरवेऽमरविक्रमः ॥ 40 ॥

पशव्यश्चाल्परोगश्चफलमूलरसायुतः ।
बहुस्नेहोबहुक्षीरस्सुगधनिर्विविधौषधः ॥ 41 ॥

एवमेतैर्गुणैरुक्तोबहुभिस्संयुतोमरुः ।
रामस्यवरदानाच्चशिवःपन्थाबभूवह ॥ 42 ॥

तस्मिन् दग्धेतदाकुक्षौसमुद्रस्सरिताम्पतिः ।
राघवंसर्वशास्त्रज्ञमिदंवचनमब्रवीत् ॥ 43 ॥

अयंसौम्यः नलोनामतनयोविश्वकर्मणः ।
पित्रादत्तवरशीमान्प्रतिमोविश्वकर्मणाः ॥ 44 ॥

एषसेतुम्महोत्साहःकरोतुमयिवानरः ।
तमहन्धारयिष्यामियथाह्येषपितातथा ॥ 45 ॥

एवमुक्त्वोदधिर्नष्टस्समुत्थायनलस्तदा ।
अब्रवीद्वानरश्रेष्ठोवाक्यंरामम्महाबलः ॥ 46 ॥

अहंसेतुङ्करिष्यामिविस्तीर्णेवरुणालये ।
पितुस्सामर्थ्यमास्थायतत्त्वमहामहोदधिः ॥ 47 ॥

अयंहिसागरोभीमस्सेतुकर्मदिदृक्ष्याः ।
ददौदण्डभयाद्गाधंराघवायमहोदधिः ॥ 48 ॥

मममातुर्वरोदत्तोमन्दरेविश्वकर्मणा ।
औरसस्तस्यपुत्रोऽहंसदृशोविश्वकर्मणा ॥ 49 ॥

नचाप्यहमनुक्तोवःप्रब्रूयामात्मनोगुणान् ।
समर्थश्चाप्यहंसेतुङ्कर्तुंवैवरुणालये ॥ 50 ॥

स्मारितोऽस्म्यहमेतेनतत्त्वमहामहोदधिः ।
काममद्वैवबध्नन्तुसेतुंवानरपुङ्गवाः ॥ 51 ॥

ततोविसृष्टारामेणसर्वतोहरियूथपाः ।
अभिपेतुर्महारण्यंहृष्टाश्शतसहस्रशः ॥ 52 ॥

तेनगान्नगसङ्काशाश्शाखामृगगणर्षभाः ।
बभञ्जुःवानरास्तत्रप्रचकर्षुश्चसागरम् ॥ 53 ॥

तेसालैश्चाश्वकर्णैश्चधवैशैश्चवानराः ।
कुटजैरर्जुनैस्तालैस्तिलकैस्न्तिशैरपि ॥ 54 ॥

बिल्वकैस्सप्तपर्णैश्चकर्णिकारैश्चसुपुष्पितैः ।
चूतैश्चाशोकवृक्षैश्चसागरंसमपूरयन् ॥ 55 ॥

समूलांश्चविमूलांश्चपादपान् हरिसत्तमाः ।
इन्द्रकेतूनिवोद्यम्यप्रजह्रूर्वानरास्तरून् ॥ 56 ॥

इन्द्र केतून् इव उद्यम्य प्रजह्रुर् हरयस् तरून् ।
तालान् दाडिमगुल्मांश्च नारिकेलविभीतकान् ॥ 57 ॥

हस्तिमतान्महाकायाःपाषाणांश्चमहाबलाः ।
पर्वतांश्चसमुत्पाट्ययन्स्सरैःपरिवहन्तिच ॥ 58 ॥

प्रक्षिप्यमाणैरचलैस्सहसाजलमुद्दृतम् ।
समुत्ससर्पआकाशमवासर्पत्ततस्ततः ॥ 59 ॥

समुद्रङ्क्षोभयामासुर्वानराश्चस्समन्ततः ।
सूत्राण्यन्येप्रगृह्णान्तिव्यायतंशतयोजनम् ॥ 60 ॥

नलश्चक्रेमहासेतुम्मध्येनदनदीपतेः ।
सतदाक्रियतेसेतुर्वानरैर्घोरकर्मभिः ॥ 61 ॥

दण्डानन्येप्रगृह्णन्तिविचिन्वन्तितथापरे ॥ 62 ॥

वानरैश्शतशस्तत्ररामस्याज्ञापुरस्सराः ।
मेघाभैःपर्वताग्रैश्चतृणैःकाष्ठैर्बबन्धिरे ॥ 63 ॥

पुष्पिताग्रैश्चतरुभिस्सेतुम्बध्नन्तिवानराः ।
पाषाणांश्चगिरिप्रख्यागनिरीणांशिखराणिच ॥ 64 ॥

दृश्यन्तेपरिधावन्तोगृह्यदानवसन्निभाः ।
शिलानाङ्क्षिप्यमाणानांशैलानान्निपात्यताम् ।
बभूवतुमुलश्शब्दस्तदातस्मिन्महोदधौ ॥ 65 ॥

कृतानिप्रथमेनाह्नायोजनानिचतुर्दश ।
प्रहृष्टैर्गजसङ्काश्चैस्त्वरमाणैःप्लवङ्गमैः ॥ 66 ॥

द्वितीयेनतथैचाह्नायोजनानितुविंशतिः ।
कृतानिप्लवगैस्तूर्णम्भीमकायैर्महाबलैः ॥ 67 ॥

अह्नातृतयेनतथायोजनानिकृतानिच ।
त्वरमाणैर्महाकायैरेकविंशतिरेवच ॥ 68 ॥

चतुर्थेनतथाचाह्नाद्वाविंशतिरथासिवा ।
योजनानिमहावेगैःकृतानित्वरितस्तुतैः ॥ 69 ॥

पञ्चमेनतथाचाह्नाप्लवगैःक्षिप्रकारिभिः ।
योजनानित्रयोविंशत्सुवेलमधिकृत्यवै ॥ 70 ॥

सवानरवरश्रशीमान्विश्वकर्मात्माजोबली ।
बबन्धसागरेसेतुंयथाचाप्यतथापिता ॥ 71 ॥

बबन्ध सागरे सेतुं यथा चास्य तथा पिता ।
स नलेन कृतः सेतुः सागरे मकर आलये ॥ 72 ॥

ततोदेवस्सगन्धर्वास्सिद्दाश्चपरमर्षयः ।
आगम्यगगनेतस्थुर्द्रष्टुकामास्तदद्बुतम् ॥ 73 ॥

दशयोजनविस्तीर्णंशतयोजनमायतम् ।
ददृशुर्देवगन्धर्वानलसेतुंसुदुष्करम् ॥ 74 ॥

आप्लवन्तःप्लवन्तश्चगर्जन्तश्चप्लवङ्गमाः ॥ 75 ॥

तदच्नित्यमसह्यञ्चह्यद्भुतंरोमहर्षणम् ।
ददृशुस्सर्वभूतानिसागरेसेतुबन्धनम् ।
622.76 ।
तानिकोटिसहस्राणिवानराणाम्महौजसाम् ।
बध्नन्तस्सागरेसेतुञ्जुग्मुःपारम्महोदधेः ॥ 76 ॥

तानि कोटि सहस्राणि वानराणां महाओजसाम् ।
बध्नन्तः सागरे सेतुं जग्मुः पारं महाउदधेः ॥ 77 ॥

ततःपारेसमुद्रस्यगदापाणिर्विभीषणः ।
परेषामभिघातार्थमतिष्ठत्सचिवैस्सहा ॥ 78 ॥

ततः परे समुद्रस्य गदा पाणिर् विभीषणः ।
परेषां अभिघत अर्थं अतिष्ठत् सचिवैः सह ॥ 79 ॥

अयंहिविपुलोवीरसागरोमकरालयः ।
वैहायपौयुवामेतौवानरौतारयिष्यतः ॥ 80 ॥

अग्रतस्तस्यसैन्यस्यश्रीमान्रामस्सलक्ष्मणः ।
जगामधन्वीधर्मात्मासुग्रीवेणसमन्वितः ॥ 81 ॥

न्येमध्येनगच्छन्तिपार्श्वतोऽन्येप्लवङ्गमाः ।
सलिलम्प्रपतन्तन्येमार्गमन्येनलेभिरे ॥ 82 ॥

केचिद्वैहायसगतास्सुपर्णाइवपुप्लुवुः ।
घोषेणमहतातस्यसिन्धोर्घोषंसमुच्छ्रितम् ।
भीमन्तर्दधेभीमातरन्तीहरिवाहिनी ॥ 83 ॥

वानराणांहिसातीर्णावाहिनीनलसेतुना ।
तीरेनिविविशेराज्ञाबहुमूलफलोदके ॥ 84 ॥

तदद्बुतंराघवकर्मदुष्करंसमीक्ष्यदेवास्सहसिद्धचारणैः ।
उपेत्यरामसहसामहार्षिभिस्समभ्यषिञ्चन् सुशुभैर्जलैःपृथक् ।
6.2 2.86 ।
जयस्वशत्रून्नरदे वःमेदिनींससागराम्पालयशाश्वतीस्समाः ।
इतीवरामन्नरदेवसत्कृ तंशुभैर्वचोभिर्विविधैरपूजयन् ॥ 85 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे द्वाविंशस्सर्गः ॥




Browse Related Categories: