श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ दशाधिकशततमस्सर्गः ।
क्रुद्धमाज्ञाय रामं तु वसिष्ठः प्रत्युवाच ह ।
जाबालिरपि जानीते लोकस्यास्य गतागतिम् ॥ 1 ॥
निवर्तयितुकामस्तु त्वामेतद्वाक्यमब्रवीत् ।
इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे ॥ 2 ॥
सर्वं सलिलमेवासीत्पृथिवी यत्र निर्मिता ।
ततः समभवद्ब्रह्मा स्वयम्भूर्दैवतैः सह ॥ 3 ॥
स वराहस्ततो भूत्वा प्रोज्जहार वसुन्धराम् ।
असृजच्च जगत्सर्वं सह पुत्रैः कृतात्मभिः ॥ 4 ॥
आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः ।
तस्मान्मरीचिः सञ्जज्ञे मरीचेः कश्यपः सुतः ॥ 5 ॥
विवस्वान्काश्यपात् जज्ञे मनुर्वैवस्वतः स्वयम् ।
स तु प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः ॥ 6 ॥
यस्येयं प्रथमं दत्ता समृद्धा मनुना मही ।
तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ॥ 7 ॥
इक्ष्वाकोस्तु सुत श्रीमान्कुक्षिरेवेति विश्रुतः ।
कुक्षेरथात्मजो वीरो विकुक्षिरुदपद्यत ॥ 8 ॥
विकुक्षेस्तु महातेजा बाणः पुत्र प्रतापवान् ।
बाणस्य तु महाबाहुरनरण्यो महातपाः ॥ 9 ॥
नानावृष्टिर्बभूवास्मिन्नदुर्भिक्षं सतां वरे ।
अनरण्ये महाराजे तस्करो नापि कश्चन ॥ 10 ॥
अनरण्यान्महाबाहुः पृथु राजा बभूव ह ।
तस्मात्पृथोमेहाराजस्त्रिशङ्कुरुदपद्यत ॥ 11 ॥
स सत्यवचनाद् वीरः सशरीरो दिवं गतः ।
त्रिशङ्कोरभवत्सूनुर्दुन्धुमारो महायशाः ॥ 12 ॥
दुन्धुमारान्महातेजा युवनाश्वो व्यजायत ।
युवनाश्वसुत श्श्रीमान्मान्धाता समपद्यत ॥ 13 ॥
मान्धातुस्त महातेजाः सुसन्धिरुदपद्यत ।
सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित् ॥ 14 ॥
यशस्वी ध्रुवसन्धेस्तु भरतो रिपुसूदनः ।
युवनाश्वसुत श्श्रीमान्मान्धाता समपद्यत ॥ 15 ॥
मान्धातुस्त महातेजा स्सुसन्धिरुदपद्यत ।
सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित् ॥ 16 ॥
यशस्वी ध्रुवसन्धेस्तु भरतो रिपुसूदनः ।
भरतात्तु महाबाहोरसितो नाम जायत ॥ 17 ॥
यस्यैते प्रतिराजान उदपद्यन्त शत्रवः ।
हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दवः ॥ 18 ॥
तांस्तु सर्वान्प्रतिव्यूह्य युद्धे राजा प्रवासितः ।
स च शैलवरे रम्ये बभूवाभिरतो मुनिः ॥ 19 ॥
द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः ।
एका गर्भविनाशाय सपत्न्यै गरलं ददौ ॥ 20 ॥
भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः ।
तमृषिं समुपागम्य कालिन्दी त्वभ्यवादयत् ॥ 21 ॥
स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि ।
पुत्रस्ते भविता देवि महात्मा लोकविश्रुतः ॥ 22 ॥
धार्मिकश्च सुशीलश्च वंशकर्ताऽरिसूदनः ।
कृत्वा प्रदक्षिणं हृष्टा मुनिन्तमनुमान्य च ॥ 23 ॥
पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम् ।
ततः सा गृहमागम्य देवी पुत्रं व्यजायत ॥ 24 ॥
सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ।
गरेण सह तेनैव जात स्स सगरोऽभवत् ॥ 25 ॥
स राजा सगरो नाम यः समुद्रमखानयत् ।
इष्ट्वा पर्वणि वेगेन त्रासयन इमाः प्रजाः ॥ 26 ॥
असमञ्जस्तु पुत्रोऽभूत्सगरस्येति न श्श्रुतम् ।
जीवन्नेव स पित्रा तु निरस्तः पापकर्मकृत् ॥ 27 ॥
अंशुमानिति पुत्रोऽभूदसमञ्जस्य वीर्यवान् ।
दिलीपोंशुमतः पुत्रो दिलीपस्य भगीरथः ॥ 28 ॥
भगीरथात्ककुत्स्थस्तु काकुत्स्था येन विश्रुताः ।
ककुत्स्थस्य च पुत्रोऽभूद्रघुर्येन च राघवाः ॥ 29 ॥
रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः ।
कल्माषपाद स्सौदास इत्येवं प्रथितो भुवि ॥ 30 ॥
कल्माषपादपुत्रोऽभूच्छङ्खणस्त्विति विश्रुतः ।
यस्तु तद्वीर्यमासाद्य सहसैन्यो व्यनीनशत् ॥ 31 ॥
शङ्खणस्य च पुत्रोऽभूच्छूर श्रीमान्सुदर्शनः ।
सुदर्शनस्याग्निवर्णः अग्निवर्णस्य शीघ्रगः ॥ 32 ॥
शीघ्रगस्य मरुः पुत्रो मरोः पुत्रः प्रशुश्रुवः ।
प्रशुश्रुवस्य पुत्रोभूदम्बरीषो महाद्युतिः ॥ 33 ॥
अम्बरीषस्य पुत्रोभून्नहुषः सत्यविक्रमः ।
नहुषस्य च नाभागः पुत्रः परमधार्मिकः ॥ 34 ॥
अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ ।
अजस्यैव च धर्मात्मा राजा दशरथस्सुतः ॥ 35 ॥
तस्य ज्येष्ठोऽसि दायादो राम इत्यभिविश्रुतः ।
तद्गृहाण स्वकं राज्यमवेक्षस्व जनं नृप ॥ 36 ॥
इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजः ।
पूर्वजे नापरः पुत्रो ज्येष्ठो राज्येऽभिषिच्यते ॥ 37 ॥
स राघवाणां कुलधर्ममात्मनः सनातनं नाद्य विहन्तुमर्हसि ।
प्रभूतरत्नामनुशाधि मेदिनीं प्रभूतराष्ट्रां पितृवन्महायशः ॥ 38 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे दशाधिकशततमस्सर्गः ॥