View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

2.84 अयोध्याकाण्ड - चतुरशीतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ चतुरशीतितमस्सर्गः ।

ततो निविष्टां ध्वजिनीं गङ्गामन्वाश्रितां नदीम् ।
निषादराजो दृष्ट्वैव ज्ञातीन्सन्त्वरितोऽऽब्रवीत् ॥ 1 ॥

महतीयमितस्सेना सागराभा प्रदृश्यते ।
नास्यान्तमधिगच्छामि मनसापि विचिन्तयन् ॥ 2 ॥

यथा तु खलु दुर्बुद्धिर्भरत स्स्वयमागतः ।
स एष हि महाकायः कोविदारध्वजो रथे ॥ 3 ॥

बन्धयिष्यति वा दाशानथवाऽस्मान्वधिष्यति ।
अथ दाशरथिं रामं पित्रा राज्याद्विवासितम् ॥ 4 ॥

सम्पन्नां श्रियमन्विच्छन्स्तस्य राज्ञ स्सुदुर्लभाम् ।
भरतः कैकयीपुत्रो हन्तुं समधिगच्छति ॥ 5 ॥

भर्ताचैव सखाचैव रामो दाशरथिर्मम ।
तस्यार्थकामास्सन्नद्धा गङ्गाऽनूपे प्रतिष्ठत ॥ 6 ॥

तिष्ठन्तु सर्वे दाशाश्च गङ्गामन्वाश्रिता नदीम् ।
बलयुक्ता नदीरक्षा मांसमूलफलाशनाः ॥ 7 ॥

नावां शतानां पञ्चानां कैवर्तानां शतं शतम् ।
सन्नद्धानां तथा यूनां तिष्ठन्त्वित्यभ्यचोदयत् ॥ 8 ॥

यदाऽऽदुष्टस्तु भरतो रामस्येह भविष्यति ।
सेयं स्वस्तिमती सेना गङ्गामद्य तरिष्यति ॥ 9 ॥

इत्युक्त्वोपायनं गृह्य मत्स्यमांसमधूनि च ।
अभिचक्राम भरतं निषादाधिपतिर्गुहः ॥ 10 ॥

तमायान्तं तु सम्प्रेक्ष्य सूतपुत्रः प्रतापवान् ।
भरतायाऽचचक्षेऽथ विनयज्ञो विनीतवत् ॥ 11 ॥

एष ज्ञातिसहस्रेण स्थपतिः परिवारितः ।
कुशलो दण्डकारण्ये वृद्धो भ्रातुश्च ते सखा ॥ 12 ॥

तस्मात्पश्यतु काकुत्स्थ त्वां निषादाधिपो गुहः ।
असंशयं विजानीते यत्र तौ रामलक्ष्मणौ ॥ 13 ॥

एतत्तु वचनं श्रुत्वा सुमन्त्राद्भरत श्शुभम् ।
उवाच वचनं शीघ्रं गुहः पश्यतु मामिति ॥ 14 ॥

लब्ध्वाऽभ्यनुज्ञां संहृष्टो ज्ञातिभिः परिवारितः ।
आगम्य भरतं प्रह्वो गुहो वचनमब्रवीत् ॥ 15 ॥

निष्कुटश्चैव देशोऽयं वञ्चिताश्चापि ते वयम् ।
निवेदयामस्ते सर्वे स्वके दासकुले वस ॥ 16 ॥

अस्ति मूलं फलञ्चैव निषादैस्समुपाहृतम् ।
आर्द्रं च मांसं शुष्कं च वन्यं चोच्चावचं महत् ॥ 17 ॥

आशंसे स्वाशिता सेना वत्स्यतीमां विभावरीम् ।
अर्चितो विविधैः कामै श्श्व स्ससैन्यो गमिष्यसि ॥ 18 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे चतुरशीतितमस्सर्गः ॥




Browse Related Categories: