View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.40 अरण्यकांड - चत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ चत्वारिंशस्सर्गः ।

मारीचेन तु तद्वाक्यं क्षमं युक्तं च निशाचरः ।
उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम् ॥ 1 ॥

तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः ।
अब्रवीत्परुषं वाक्यमयुक्तं कालचोदितः ॥ 2 ॥

यत्किलैतदयुक्तार्थं मारीच मयि कथ्यते ।
वाक्यं निष्फलमत्यर्थमुप्तं बीजमिवोषरे ॥ 3 ॥

त्वद्वाक्यैर्न तु मां शक्यं भेत्तुं रामस्य संयुगे ।
पापशीलस्य मूर्खस्य मानुषस्य विशेषतः ॥ 4 ॥

यस्त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा ।
स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः ॥ 5 ॥

अवश्यंतु मया तस्य संयुगे खरघातिनः ।
प्राणैः प्रियतरा सीता हर्तव्या तव सन्निधौ ॥ 6 ॥

एवं मे निश्चिता बुद्धिर्हृदि मारीच वर्तते ।
न व्यावर्तयितुं शक्या सेंद्रैरपि सुरासुरैः ॥ 7 ॥

दोषं गुणं वा संपृष्टस्त्वमेवं वक्तुमर्हसि ।
अपायं वाप्युपायं वा कार्यस्यास्य विनिश्चये ॥ 8 ॥

संपृष्टेन तु वक्तव्यं सचिवेन विपश्चिता ।
उद्यतांजलिना राज्ञे य इच्छेद्भूतिमात्मनः ॥ 9 ॥

वाक्यमप्रितकूलं तु मृदुपूर्वं हितं शुभम् ।
उपचारेण युक्तं च वक्तव्यो वसुधाधिपः ॥ 10 ॥

सावमर्दं तु यद्वाक्यं मारीच हितमुच्यते ।
नाभिनंदति तद्राजा मानार्हो मानवर्जितम् ॥ 11 ॥

पंच रूपाणि राजानो धारयंत्यमितौजसः ।
अग्नेरिंद्रस्य सोमस्य वरुणस्य यमस्य च ॥ 12 ॥

औष्ण्यं तथा विक्रमं च सौम्यं दंडं प्रसन्नताम् ।
धारयंति महात्मानो राजानः क्षणदाचर ॥ 13 ॥

तस्मात्सर्वास्ववस्थासु मान्याः पूज्याश्च पार्थिवाः ।
त्वं तु धर्ममविज्ञाय केवलं मोहमास्थितः ।
अभ्यागतं मां दौरात्म्यात्परुषं वक्तुमिच्छसि ॥ 14 ॥

गुणदोषौ न पृच्छामि क्षमं चात्मनि राक्षस ।
मयोक्तं तव चैतावत्संप्रत्यमितविक्रमः ॥ 15 ॥

अस्मिंस्तु त्वं महाकृत्ये साहाय्यं कर्तुमर्हसि ।
शृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम ॥ 16 ॥

सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिंदुभिः ।
आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ॥ 17 ॥

सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिंदुभिः ।
आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ।
प्रलोभयित्वा वैदेहीं यथेष्टं गंतुमर्हसि ॥ 18 ॥

त्वां तु मायामृगं दृष्ट्वा कांचनं जातविस्मया ।
आनयैनमिति क्षिप्रं रामं वक्ष्यति मैथिली ॥ 19 ॥

अपक्रांते तु काकुत्स्थे दूरं यात्वाप्युदाहर ।
हा सीते लक्ष्मणेत्येवं रामवाक्यानुरूपकम् ॥ 20 ॥

तच्छ्रुत्वा रामपदवीं सीतया च प्रचोदितः ।
अनुगच्छति संभ्रांतः सौमित्रिरपि सौहृदात् ॥ 21 ॥

अपक्रांते च काकुत्स्थे लक्ष्मणे च यथासुखम् ।
आनयिष्यामि वैदेहीं सहस्राक्षश्शचीमिव ॥ 22 ॥

एवं कृत्वा त्विदं कार्यं यथेष्टं गच्छ राक्षस ।
राज्यस्यार्धं प्रयच्छामि मारीच तव सुव्रत ॥ 23 ॥

गच्छ सौम्य शिवं मार्गं कार्यस्यास्य विवृद्धये ।
अहं त्वानुगमिष्यामि सरथो दंडकावनम् ॥ 24 ॥

प्राप्य सीतामयुद्धेन वंचयित्वा तु राघवम् ।
लंकां प्रतिगमिष्यामि कृतकार्यस्सह त्वया ॥ 25 ॥

न चेत्करोषि मारीच हन्मि त्वामहमद्य वै ।
एतत्कार्यमवश्यं मे बलादपि करिष्यसि ।
राज्ञो हि प्रतिकूलस्थो न जातु सुखमेधते ॥ 26 ॥

आसाद्य तं जीवितसंशयस्ते मृत्युर्ध्रुवो ह्यद्य मया विरुध्य ।
एतद्यथावत्प्रतिगृह्य बुद्ध्या यदत्र पथ्यं कुरु तत्तथा त्वम् ॥ 27 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे चत्वारिंशस्सर्गः ॥




Browse Related Categories: