श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ पंचविंशस्सर्गः ।
अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम् ।
श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम् ॥ 1 ॥
अल्पवीर्या यदा यक्षा श्श्रूयंते मुनिपुंगव ।
कथन्नागसहस्रस्य धारयत्यबला बलम् ॥ 2 ॥
विश्वामित्रोऽब्रवीद्वाक्यं शृण येन बलोत्तरा ।
वरदानकृतं वीर्यं धारयत्यबला बलम् ॥ 3 ॥
पूर्वमासीन्महायक्षस्सुकेतुर्नाम वीर्यवान् ।
अनपत्यश्शुभाचारस्स च तेपे महत्तपः ॥ 4 ॥
पितामहस्तु सुप्रीतस्तस्य यक्षपते स्तदा ।
कन्यारत्नं ददौ राम ताटकां नाम नामतः ॥ 5 ॥
ददौ नागसहस्रस्य बलं चास्याः पितामहः ।
नत्वेव पुत्रं यक्षाय ददौ ब्रह्मा महायशाः ॥ 6 ॥
तां तु जातां विवर्धंतीं रूपयौवनशालिनीम् ।
झर्झपुत्राय सुंदाय ददौ भार्यां यशस्विनीम् ॥ 7 ॥
कस्यचित्त्वथ कालस्य यक्षी पुत्रमजायत ।
मारीचं नाम दुर्धर्षं यश्शापाद्राक्षसोऽभवत् ॥ 8 ॥
सुंदे तु निहते राम सागस्त्यमृषिसत्तमम् ।
ताटका सह पुत्रेण प्रधर्षयितुमिच्छति ॥ 9 ॥
भक्षार्थं जातसंरंभा गर्जंती साभ्यधावत ।
0 आपतंतीं तु तां दृष्ट्वा अगस्त्यो भगवानृषिः ॥ 10 ॥
राक्षसत्वं भजस्वेति मारीचं व्याजहार सः ।
1 अगस्त्यः परमक्रुद्धस्ताटकामपि शप्तवान् ॥ 11 ॥
पुरुषादी महायक्षी विरूपा विकृतानना ।
इदं रूपं विहायाथ दारुणं रूपमस्तु ते ॥ 12 ॥
सैषा शापकृतामर्षा ताटका क्रोधमूर्छिता ।
देशमुत्सादयत्येनमगस्त्यचरितं शुभम् ॥ 13 ॥
एनां राघव दुर्वृत्तां यक्षीं परमदारुणाम् ।
गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम् ॥ 14 ॥
न ह्येनां शापसम्स्पृष्टां कश्चिदुत्सहते पुमान् ।
निहंतुं त्रिषु लोकेषु त्वामृते रघुनंदन ॥ 15 ॥
न हि ते स्त्रीवधकृते घृणा कार्या नरोत्तम ।
चातुर्वण्यहितार्थाय कर्तव्यं राजसूनुना ॥ 16 ॥
नृशंसमनृशंसं वा प्रजारक्षणकारणात् ।
पातकं वा सदोषं वा कर्तव्यं रक्षता सता ॥ 17 ॥
राज्यभारनियुक्तानामेष धर्मस्सनातनः ।
अधर्म्यां जहि काकुत्स्थ धर्मोह्यस्या न विद्यते ॥ 18 ॥
श्रूयते हि पुरा शक्रो विरोचनसुतां नृप ।
पृथिवीं हंतुमिच्छंतीं मंथरामभ्यसूदयत् ॥ 19 ॥
विष्णुनापि पुरा राम भृगुपत्नी दृढव्रता ।
अनिंद्रं लोकमिच्छंती काव्यमाता निषूदिता ॥ 20 ॥
एतैश्चान्यैश्च बहुभी राजपुत्र महात्मभिः ।
अधर्मसहिता नार्यो हताः पुरुषसत्तमैः ॥ 21 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे पंचविंशस्सर्गः ॥