श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ एकोनषष्टितमस्सर्गः ।
इति ब्रुवन्तं तं सूतं सुमन्त्रं मन्त्रिसत्तमम् ।
ब्रूहि शेषं पुनरिति राजा वचनमब्रवीत् ॥ 1 ॥
तस्य तद्वचनं श्रुत्वा सुमन्त्रो बाष्पविक्लबः ।
कथयामास भूयोऽपि रामसन्देशविस्तरम् ॥ 2 ॥
जटाः कृत्वा महाराज चीरवल्कलधारिणौ ।
गङ्गामुत्तीर्य तौ वीरौ प्रयागाभिमुखौ गतौ ॥ 3 ॥
अग्रतो लक्ष्मणो यातः पालयन्रघुनन्दनम् ।
तांस्तथा गच्छतो दृष्ट्वा निवृत्तोऽस्म्यवशस्तदा ॥ 4 ॥
ममत्वश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि ।
उष्णमश्रु प्रमुञ्चन्तो रामे सम्प्रस्थिते वनम् ॥ 5 ॥
उभाभ्यां राजपुत्राभ्यामथ कृत्वाहमञ्जलिम् ।
प्रस्थितो रथमास्थाय तद्दुःखमपि धारयन् ॥ 6 ॥
गुहेन सार्धं तत्रैव स्थितोऽस्मि दिवसान्बहून् ।
आशया यदि मां रामः पुन श्शब्दापयेदिति ॥ 7 ॥
विषये ते महाराज रामव्यसनकर्शिताः ।
अपि वृक्षाः परिम्लानास्सपुष्पाङ्कुरकोरकाः ॥ 8 ॥
उपतप्तोदका नद्यः पल्वलानि सरांसि च ।
परिशुष्कपलाशानि वनान्युपवनानि च ॥ 9 ॥
न च सर्पन्ति सत्त्वानि व्यासा न प्रचरन्ति च ।
रामशोकाभिभूतं तन्निष्कूजमभवद्वनम् ॥ 10 ॥
लीनपुष्करपत्राश्च नरेन्द्र कलुषोदकाः ।
सन्तप्तपद्माः पद्मिन्यो लीनमीनविहङ्गमाः ॥ 11 ॥
जलजानि च पुष्पाणि माल्यानि स्थलजानि च ।
नाद्य भान्त्यल्पगन्धीनि फलानि च यथापुरम् ॥ 12 ॥
अत्रोद्यानानि शून्यानि प्रलीनविहगनि च ।
न चाभिरामा नारामान्पश्यामि मनुजर्षभ ॥ 13 ॥
प्रविशन्तमयोध्यां मां न कश्चिदभिनन्दति ।
नरा राममपश्यन्तो निश्श्वसन्ति मुहुर्मुहुः ॥ 14 ॥
देव राजरथं दृष्ट्वा विना राममिहागतम् ।
दुःखादश्रुमुखस्सर्वो राजमार्गगतो जनः ॥ 15 ॥
हर्म्यैर्विमानैः प्रासादैरवेक्ष्यरथमागतम् ।
हाहाकारकृतानार्यो रामादर्शनकर्शिताः ॥ 16 ॥
आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः ।
अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रियः ॥ 17 ॥
नामित्राणां न मित्राणामुदासीनजनस्य च ।
अहमार्ततया किञ्चिद्विशेषमुपलक्षये ॥ 18 ॥
अप्रहृष्टमनुष्या च दीननागतुरङ्गमा ।
आर्तस्वरपरिम्लाना विनिश्श्वसितनिस्स्वना ॥ 19 ॥
निरानन्दा महाराज रामप्रव्राजनातुरा ।
कौसल्या पुत्रहीनेव अयोध्या प्रतिभाति मा ॥ 20 ॥
सूतस्य वचनं श्रुत्वा वाचा परमदीनया ।
बाष्पोपहतया राजा तं सूतमिदमब्रवीत् ॥ 21 ॥
कैकेय्या विनियुक्तेन पापाभिजनभावया ।
मया न मन्त्रकुशलैर्वृद्धैस्सह समर्थितम् ॥ 22 ॥
न सुहृद्भिर्नचामात्यैर्मन्त्रयित्वा न नैगमैः ।
मयायमर्थस्सम्मोहात् स्त्रीहेतो स्सहसा कृतः ॥ 23 ॥
भवितव्यतया नूनमिदं वा व्यसनं महत् ।
कुलस्यास्य विनाशाय प्राप्तं सूत यदृच्छया ॥ 24 ॥
सूत यद्यस्ति ते किञ्चिन्मया तु सुकृतं कृतम् ।
त्वं प्रापयाऽऽशु मां रामं प्राणास्सन्त्वरयन्तिमाम् ॥ 25 ॥
यद्यद्यापि ममैवाज्ञा निवर्तयतु राघवम् ।
न शक्ष्यामि विना रामं मुहूर्तमपि जीवितुम् ॥ 26 ॥
वृत्तदंष्ट्रो महेष्वासः क्वासौ लक्ष्मणपूर्वजः ।
यदि जीवामि साध्वेनं पश्येयं सीतया सह ॥ 27 ॥
लोहिताक्षं महाबाहुमामुक्तमणिकुण्डलम् ।
रामं यदि न पश्येयं गमिष्यामि यमक्षयम् ॥ 28 ॥
अतो नु किं दुःखतरं सोऽहमिक्ष्वाकुनन्दनम् ।
इमामवस्थामापन्नो नेह पश्यामि राघवम् ॥ 29 ॥
हा राम रामानुज हा हा वैदेहि तपस्विनि ।
न मां जानीत दुःखेन म्रियमाणतमनाथवत् ॥ 30 ॥
स तेन राजा दुःखेन भृशमर्पितचेतनः ।
अवगाढस्सुदुष्पारं शोकसागरमब्रवीत् ॥ 31 ॥
रामशोकमहाभोगस्सीताविरहपारगः ।
श्वसितोर्मि महावर्तो बाष्पफेनजालाविलः ॥ 32 ॥
बाहुविक्षेपमीनौघो विक्रन्दित महास्वनः ।
प्रकीर्णकेशशैवालः कैकेयीबडबामुखः ॥ 33 ॥
ममाश्रुवेगप्रभवः कुब्जावाक्यमहाग्रहः ।
वरवेलो नृशंसाया रामप्रव्राजनायतः ॥ 34 ॥
यस्मिन्बत निमग्नोऽहं कौसल्ये राघवं विना ।
दुस्तरो जीवता देवि मयाऽयं शोकसागरः ॥ 35 ॥
अशोभनं योऽहमिहाद्य राघवं दिदृक्षमाणो न लभे सलक्ष्मणम् ।
इतीव राजा विलपन्महायशाः पपात तूर्णं शयने समूर्छितः ॥ 36 ॥
इति विलपति पार्थिवे प्रणष्टे करुणतरं द्विगुणं च रामहेतोः ।
वचनमनुनिशम्य तस्य देवी भयमगमत्पुनरेव राममाता ॥ 37 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे एकोनषष्टितमस्सर्गः ॥