श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ अष्टनवतितमस्सर्गः ।
निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः ।
अभिगन्तुं स काकुत्थ्समियेष गुरुवर्तकम् ॥ 1 ॥
निविष्टमात्रे सैन्ये तु यथोद्देशं विनीतवत् ।
भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत् ॥ 2 ॥
क्षिप्रं वनमिदं सौम्य नरसङ्घै स्समन्ततः ।
लुब्धैश्च सहितैरेभि स्त्वमन्वेषितुमर्हसि ॥ 3 ॥
गुहो ज्ञातिसहस्रेण शरचापासिधारिणा ।
समन्वेषतु काकुत्स्थमस्मिन् परिवृतस्स्वयम् ॥ 4 ॥
अमात्यै स्सह पौरैश्च गुरुभिश्च द्विजातिभिः ।
वनं सर्वं चरिष्यामि पद्भ्यां परिवृत स्स्वयम् ॥ 5 ॥
यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम् ।
वैदेहीं च महाभागां न मे शान्तिर्भविष्यति ॥ 6 ॥
यावन्न चन्द्रसङ्काशं द्रक्ष्यामि शुभमाननम् ।
भ्रातुः पद्मपलाशाक्षं न मे शान्तिर्भविष्यति ॥ 7 ॥
यावन्न चरणौ भ्रातुः पार्थिवव्यञ्जनान्वितौ ।
शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति ॥ 8 ॥
यावन्न राज्ये राज्यार्हः पितृपैतामहे स्थितः ।
अभिषेकजलक्लिन्नो न मे शान्तिर्भविष्यति ॥ 9 ॥
सिद्धार्थः खलु सौमित्रिर्यश्चन्द्रविमलोपमम् ।
मुखं पश्यति रामस्य राजीवाक्षं महाद्युति ॥ 10 ॥
कृतकृत्या महाभागा वैदेही जनकात्मजा ।
भर्तारं सागरान्तायाः पृथिव्या यानुगच्छति ॥ 11 ॥
सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिः ।
यस्मिन्वसति काकुत्स्थः कुबेर इव नन्दने ॥ 12 ॥
कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम् ।
यदध्यास्ते महातेजा राम श्शस्त्रभृतां वरः ॥ 13 ॥
एवमुक्त्वा महातेजा भरतः पुरषर्षभः ।
पद्भ्यामेव महाबाहुः प्रविवेश महाद्वनम् ॥ 14 ॥
स तानि द्रुमजालानि जातानि गिरिसानुषु ।
पुष्पिताग्राणि मध्येन जगाम वदतां वरः ॥ 15 ॥
स गिरेश्चित्रकूटस्य सालमासाद्य पुष्पितम् ।
रामाश्रमगतस्याग्नेर्ददर्श ध्वजमुच्छ्रितम् ॥ 16 ॥
तं दृष्ट्वा भरत श्रीमान्मुमोद सह बान्धवः ।
अत्र राम इति ज्ञात्वा गतः पारमिवाम्भसः ॥ 17 ॥
स चित्रकूटे तु गिरौ निशम्यव रामाश्रमं पुण्यजनोपपन्नम् ।
गुहेन सार्धं त्वरितो जगाम पुनर्निवेश्यैव चमूं महात्मा ॥ 18 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे अष्टनवतितमस्सर्गः ॥