श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ एकोनशततमस्सर्गः ।
निविष्टायां तु सेनायामुत्सुको भरतस्तदा ।
जगाम भ्रातरं द्रष्टुं शत्रुघ्नमनुदर्शयन् ॥ 1 ॥
ऋषिं वसिष्ठं सन्दिश्य मातृर्मे शीघ्रमानय ।
इति त्वरितमग्रे स जगाम गुरुवत्सलः ॥ 2 ॥
सुमन्त्रस्त्वपि शत्रुघ्नमदूरादन्वपद्यत ।
रामदर्शनजस्तर्षो भरतस्येव तस्य च ॥ 3 ॥
गच्छन्नेवाथ भरतस्तापसालय संस्थिताम् ।
भ्रातुः पर्णकुटीं श्रीमानुटजं च ददर्श ह ॥ 4 ॥
शालायास्त्वग्रत स्तस्या ददर्श भरत स्तदा ।
काष्ठानि चावभग्नानि पुष्पाण्युपचितानि च ॥ 5 ॥
स लक्ष्मणस्य रामस्य ददर्शाऽश्रममीयुषः ।
कृतं वृक्षेष्वभिज्ञानं कुशचीरैः क्वचित्क्वचित् ॥ 6 ॥
ददर्श वने तस्मिन्महत स्सञ्चयान्कृतान् ।
मृगाणां महिषाणां च करीषै शशीतकारणात् ॥ 7 ॥
गच्छन्नेव महाबाहुर्द्युतिमान्भरत स्तदा ।
शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वशः ॥ 8 ॥
मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् ।
नातिदूरे हि मन्येऽहं नदीं मन्दाकिनीमितः ॥ 9 ॥
उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम् ।
अभिज्ञानकृतः पन्था अकाले गन्तुमिच्छता ॥ 10 ॥
इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम् ।
शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम् ॥ 11 ॥
यमेवाधातुमिच्छन्ति तापसा स्सततं वने ।
तस्यासौ दृश्यते धूम स्सङ्कुलः कृष्णवर्त्मनः ॥ 12 ॥
अत्राहं पुरुषव्याघ्रं गुरुसत्कारकारिणम् ।
आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम् ॥ 13 ॥
अथ गत्वा मुहूर्तन्तु चित्रकूटं स राघवः ।
मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत् ॥ 14 ॥
जगत्यां पुरषव्याघ्र आस्ते वीरासने रतः ।
जनेन्द्रो निर्जनं प्राप्य धिङ्मे जन्म सजीवितम् ॥ 15 ॥
मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युतिः ।
सर्वान्कामान्परित्यज्य वने वसति राघवः ॥ 16 ॥
इति लोकसमाक्रुष्टः पादेष्वद्य प्रसादयन् ।
रामस्य निपतिष्यामि सीताया लक्ष्मणस्य च ॥ 17 ॥
एवं संविलपं स्तस्मिन्वने दशरथात्मजः ।
ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् ॥ 18 ॥
सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम् ।
विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे ॥ 19 ॥
शक्रायुधनिकाशैश्च कार्मुकैर्भारसाधनैः ।
रुक्मपृष्ठैर्महासारै श्शोभितां शत्रुबाधकैः ॥ 20 ॥
अर्क रश्मि प्रतीकाशैर्घोरैस्तूणीगतैश्शरैः ।
शोभितां दीप्तवदनै स्सर्पैर्भोगवतीमिव ॥ 21 ॥
महारजतवासोभ्यामसिभ्यां च विराजिताम् ।
रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् ॥ 22 ॥
गोधा अन्गुलित्रैर् आसाक्तैः चित्रैः कान्चन भूषितैः ।
अरि सम्घैर् अनाधृष्यां मृगैः सिम्ह गुहां इव ॥ 23 ॥
एवं संविलपं स्तस्मिन्वने दशरथात्मजः ।
ददर्श महातीं पुण्यां पर्णशालां मनोरमाम् ॥ 24 ॥
सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम् ।
विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे ॥ 25 ॥
शक्रायुधनिकाशैश्च कार्मुकैर्भारसाधनैः ।
रुक्मपृष्ठैर्महासारै श्शोभितां शत्रुबाधकैः ॥ 26 ॥
अर्क रश्मि प्रतीकाशैर्घोरैस्तूणीगतैश्शरैः ।
शोभितां दीप्तवदनै स्सर्पैर्भोगवतीमिव ॥ 27 ॥
महारजतवासोभ्यामसिभ्यां च विराजिताम् ।
रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् ॥ 28 ॥
तं दृष्ट्वा भरतः श्रीमान् दुह्ख मोह परिप्लुतः ।
अभ्यधावत धर्म आत्मा भरतः कैकयी सुतः ॥ 29 ॥
प्रागुदक्प्रवणां वेदिं विशालां दीप्तपावकाम् ।
ददर्श भरतस्तत्र पुण्यां रामनिवेशने ॥ 30 ॥
निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुम् ।
उटजे राममासीनं जटामण्डलधारिणम् ॥ 31 ॥
तं तु कृष्णाजिनधरं चीरवल्कलवाससम् ।
ददर्श राममासीनमभितः पावकोपमम् ॥ 32 ॥
सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम् ।
पृथिव्यास्सागरान्तायाः भर्तारं धर्मचारिणम् ॥ 33 ॥
उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम् ।
स्थण्डिले दर्भसंस्तीर्णे सीतया लक्ष्मणेन च ॥ 34 ॥
तं दृष्ट्वा भरत श्श्रीमान् दुःखशोकपरिप्लुतः ।
अभ्यधावत धर्मात्मा भरतः कैकेयी सुतः ॥ 35 ॥
दृष्ट्वैव विललापाऽर्तो बाष्पसन्दिग्धया गिरा ।
अशक्नुवन् धारयितुं धैर्याद्वचनमब्रवीत् ॥ 36 ॥
य स्संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम् ।
वन्यैर्मृगैरुपासीन स्सोऽयमास्ते ममाग्रजः ॥ 37 ॥
वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचितः ।
मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन् ॥ 38 ॥
अधारयद्यो विविधाश्चित्रास्सुमनसस्तदा ।
सोऽयं जटाभारमिमं वहते राघवः कथम् ॥ 39 ॥
यस्य यज्ञैर्यथादिष्टैर्युक्तो धर्मस्य सञ्चयः ।
शरीरक्लेशसम्भूतं स धर्मं परिमार्गते ॥ 40 ॥
चन्दनेन महार्हेण यस्याङ्गमुपसेवितम् ।
मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते ॥ 41 ॥
मन्निमित्तमिदं दुःखं प्राप्तो रामः सुखोचितः ।
धिग्जीवितं नृशंसस्य मम लोकविगर्हितम् ॥ 42 ॥
इत्येवं विलपन्दीनः प्रस्विन्नमुखपङ्कजः ।
पादावप्राप्य रामस्य पपात भरतो रुदन् ॥ 43 ॥
दुःखाभितप्तो भरतो राजपुत्रो महाबलः ।
उक्त्वाऽर्येति सकृद्दीनं पुनर्नोवाच किञ्चन ॥ 44 ॥
बाष्पाभिहतकण्ठश्च प्रेक्ष्य रामं यशस्विनम् ।
आर्येत्येवाभिसङ्क्रुश्य व्याहर्तुं नाशकत्तदा ॥ 45 ॥
शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन् ।
तावुभौ स समालिङ्ग्य रामश्चाश्रूण्यवर्तयत् ॥ 46 ॥
ततस्सुमन्त्रेण गुहेन चैव समीयतु राजसुतावरण्ये ।
दिवाकरश्चैव निशाकरश्च यथाऽम्बरे शुक्रबृहस्पतिभ्याम् ॥ 47 ॥
तान्पार्थिवान्वारणयूथपाभान्समागतां स्तत्र महत्यरण्ये ।
वनौकसस्तेऽपि समीक्ष्य सर्वेऽप्यश्रूण्यमुञ्चन्प्रविहाय हर्षम् ॥ 48 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे एकोनशततमस्सर्गः ॥