श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ अष्टपञ्चाशस्सर्गः ।
स दृष्ट्वा लक्ष्मणं दीनं शून्ये दशरथात्मजः ।
पर्यपृच्छत धर्मात्मा वैदेहीमागतं विना ॥ 1 ॥
प्रस्थितं दण्डकारण्यं या मामनुजगाम ह ।
क्व सा लक्ष्मण वैदेही यां हित्वा त्वमिहागतः ॥ 2 ॥
राज्यभ्रष्टस्य दीनस्य दण्डकान्परिधावतः ।
क्व सा दुःखसहाया मे वैदेही तनुमध्यमा ॥ 3 ॥
यां विना नोत्सहे वीर मुहूर्तमपि जीवितुम् ।
क्व सा प्राणसहाया मे सीता सुरसुतोपमा ॥ 4 ॥
पतित्वममराणां वा पृथिव्याश्चापि लक्ष्मण ।
तां विना तपनीयाभां नेच्छेयं जनकात्मजाम् ॥ 5 ॥
कच्चिज्जीवति वैदेहि प्राणैः प्रियतरा मम ।
कच्चित्प्रव्राजनं सौम्य न मे मिथ्या भविष्यति ॥ 6 ॥
सीतानिमित्तं सौमित्रे मृते मयि गते त्वयि ।
कच्चित्सकामा सुखिता कैकेयी सा भविष्यति ॥ 7 ॥
सपुत्रराज्यां सिद्धार्थां मृतपुत्रा तपस्विनी ।
उपस्थास्यतिकौसल्या कच्चित्सौम्य न केकयीम् ॥ 8 ॥
यदि जीवति वैदेही गमिष्याम्याश्रमं पुनः ।
सुवृत्ता यदि वृत्ता प्राणांस्त्यक्ष्यामि लक्ष्मण ॥ 9 ॥
यदि मामाश्रमगतं वैदेही नाभिभाषते ।
पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण ॥ 10 ॥
ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा ।
त्वयि प्रमत्ते रक्षोभिर्भक्षिता वा तपस्विनी ॥ 11 ॥
सुकुमारी च बाला च नित्यं चादुःखदर्शिनी ।
मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः ॥ 12 ॥
सर्वदा रक्षसा तेन जिह्मेन सुदुरात्मना ।
वदता लक्ष्मणेत्युच्चैस्तवापि जनितं भयम् ॥ 13 ॥
श्रुतस्तु शङ्के वैदेह्या स स्वरस्सदृशो मम ।
त्रस्तया प्रेषितस्त्वं च द्रष्टुं मां शीघ्रमागतः ॥ 14 ॥
सर्वथा तु कृतं कष्टं सीतामुत्सृजता वने ।
प्रतिकर्तुं नृशंसानां रक्षसां दत्तमन्तरम् ॥ 15 ॥
दुःखिताः खरघातेन राक्षसाः पिशिताशनाः ।
तैस्सीता निहता घोरैर्भविष्यति न संशयः ॥ 16 ॥
अहोऽस्मिन् व्यसने मग्नस्सर्वथा शत्रुसूदन ।
किं न्विदानीं करिष्यामि शङ्के प्राप्तव्यमीदृशम् ॥ 17 ॥
इति सीतां वरारोहां चिन्तयन्नेव राघवः ।
आजगाम जनस्थानं त्वरया सह लक्ष्मणः ॥ 18 ॥
विगर्हमाणोऽनुजमार्तरूपं क्षुधा श्रमाच्चैव पिपासया च ।
विनिश्श्वसन् शुष्कमुखो विवर्णः प्रतिश्रयं प्राप्य समीक्ष्य शून्यम् ॥ 19 ॥
स्वमाश्रमं सम्प्रविगाह्य वीरो विहारदेशाननुसृत्य कांश्चित् ।
एतत्तदित्येव निवासभूमौ प्रहृष्टरोमा व्यथितो बभूव ॥ 20 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे अष्टपञ्चाशस्सर्गः ॥