अयोध्यापुरनेतारं मिथिलापुरनायिकाम् ।
राघवाणामलंकारं वैदेहानामलंक्रियाम् ॥1॥
रघूणां कुलदीपं च निमीनां कुलदीपिकाम् ।
सूर्यवंशसमुद्भूतं सोमवंशसमुद्भवाम् ॥2॥
पुत्रं दशरथस्याद्यं पुत्रीं जनकभूपतेः ।
वशिष्ठानुमताचारं शतानंदमतानुगाम् ॥3॥
कौसल्यागर्भसंभूतं वेदिगर्भोदितां स्वयम् ।
पुंडरीकविशालाक्षं स्फुरदिंदीवरेक्षणाम् ॥4॥
चंद्रकांताननांभोजं चंद्रबिंबोपमाननाम् ।
मत्तमातंगगमनं मत्तहंसवधूगताम् ॥5॥
चंदनार्द्रभुजामध्यं कुंकुमार्द्रकुचस्थलीम् ।
चापालंकृतहस्ताब्जं पद्मालंकृतपाणिकाम्॥6॥
शरणागतगोप्तारं प्रणिपादप्रसादिकाम् ।
कालमेघनिभं रामं कार्तस्वरसमप्रभाम् ॥7॥
दिव्यसिंहासनासीनं दिव्यस्रग्वस्त्रभूषणाम् ।
अनुक्षणं कटाक्षाभ्यां अन्योन्येक्षणकांक्षिणौ ॥8॥
अन्योन्यसदृशाकारौ त्रैलोक्यगृहदंपती ।
इमौ युवां प्रणम्याहं भजाम्यद्य कृतार्थताम् ॥9॥
अनेन स्तौति यः स्तुत्यं रामं सीतां च भक्तितः ।
तस्य तौ तनुतां पुण्यास्संपदः सकलार्थदाः ॥10॥
एवं श्रीराचंद्रस्य जानक्याश्च विशेषतः ।
कृतं हनूमता पुण्यं स्तोत्रं सद्यो विमुक्तिदम् ।
यः पठेत्प्रातरुत्थाय सर्वान् कामानवाप्नुयात् ॥11॥