श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ षोडशाधिकशततमस्सर्गः ।
इतिप्रतिसमादिष्टोहनूमान्मारुतात्मजः ।
प्रविवेशपुरींलंकांपूज्यमानोनिशाचरैः ॥ 1 ॥
प्रविश्य चपुरींलंकांपूज्यमानोनिशाचारैः ।
ततस्तेनाभ्युनुज्ञातोहनुमान्वृक्षवाटिकाम् ॥ 2 ॥
प्रविशंतीव गात्राणि स्वान्येव जनकात्मजा ।
वाक्षल्यैस्तैः सशल्येव भृशमश्रूण्यवर्तयत् ॥ 3 ॥
वृक्षमूलेनिरानंदांराक्षसीभिःपरीवृताम् ।
निभृतःप्रणतःप्रह्वस्सोऽभिगम्याभिवाद्य च ॥ 4 ॥
दृष्टवासमागतंदेवीहनूमंतंमहाबलम् ।
तूष्णीमास्ततदादृष्टवास्मृत्वासृष्टाभवत्तदा ॥ 5 ॥
सौम्यंतस्यामुखंदृष्टवाहनुमान्प्लवगोत्तमः ।
रामस्यवचनंसर्वमाख्यातुमुपचक्रमे ॥ 6 ॥
वैदेही कुशलीरामस्सहसुग्रीवलक्ष्मणः ।
वभीषणसहायश्चहरीणांसहितोबलैः ॥ 7 ॥
कुशलंचाहसिद्धार्थोहतशत्रुरिमत्रजित् ।
विभीषणसहायेनरामेणहरिभिस्सह ॥ 8 ॥
निहतोरावणोदेविलक्ष्मणेन च वीर्यवान् ।
प्रियमाख्यामितेदेविभूयश्चत्वांसभाजये ॥ 9 ॥
तवप्रभावाद्धर्मजेमहान् रामेणसंयुगे ।
लब्धोऽयंविजयस्सीतेस्वस्थाभवगतज्वरा ॥ 10 ॥
रावणश्चहतश्शत्रुर्लंकचैववशीकृता ।
मयाह्यलबंदिद्रेणधृतेनतवनिर्जये ॥ 11 ॥
प्रतिज्ञैषाविनिस्तीर्णाबद्ध्वासेतुंमहोदधौ ।
संभ्रमश्च न कर्तव्योवर्तंत्यारावणालये ॥ 12 ॥
विभीषणविधेयंहिलंकैश्वर्यमिदंकृतम् ।
तदाश्वसिहिविस्रब्धंस्वगृहेपरिवर्तसे ॥ 13 ॥
अयंचाभ्येतिसम्हृष्टस्त्वद्धर्शनसमुत्सुकः ।
एवमुक्तासमुत्पत्यसीताशशिनिभानना ॥ 14 ॥
प्रहर्षेणावरुद्धासाव्याहर्तुं न शशाक ह ।
ततोऽब्रवीद्धरिवरःसीतामप्रतिजल्पतीम् ॥ 15 ॥
किंत्वंचिंतयसेदेविकिं च मांनाभिभाषसे ।
एवमुक्ताहनुमतासीताधर्मपथेस्थिता ॥ 16 ॥
अब्रवीत्परमप्रीताबाष्पगद्गदयागिरा ।
प्रियमेतदुपश्रुत्यभर्तुर्विजयसंश्रयम् ॥ 17 ॥
प्रहर्षवशमापन्नानिर्वाक्यास्मिक्षणांतरम् ।
न हिपश्यामिसदृशंचिंतयंतीप्लवंगमा ॥ 18 ॥
मप्रतियाब्यानकस्येहदातुंप्रत्यभिनंदनम् ।
नहिपश्यामिततसौम्यपृथिव्यामपिवानर ॥ 19 ॥
सदृशंयत्प्रियाख्यानेतवदत्त्वाभवेत्सुखम् ।
हिरण्यंवासुवर्णंवारत्नानिविविधानिच ॥ 20 ॥
राज्यंवात्रिषुलोकेषुनैतदर्हतिभाषितम् ।
एवमुक्तस्तुवैदेह्याप्रत्युवाचप्लवंगमः ॥ 21 ॥
प्रगृहीतांजलिर्हर्षासतीतायाःप्रमुखेस्थितः ।
भर्तुःप्रियहितेयुक्तेभर्तुर्विजयकांक्षिणः ॥ 22 ॥
स्निग्धमेवंविधंवाक्यंत्वमेवार्हस्यनिंदिते ।
तवैतद्वचनंसौम्येसारवत् स्निग्धमेव च ॥ 23 ॥
रत्नौघाद्विविधाच्चापिदेवराज्याद्विशिष्यते ।
अर्थतश्चमयाप्राप्तादेवरज्यादयोगुणाः ॥ 24 ॥
हतशत्रुंविजयिनंरामंपश्यामिसुस्थितम् ।
तस्यतद्वचनंश्रुत्वामैथिलीजनकात्मजा ॥ 25 ॥
ततःशुभतरंवाक्यमुवाचपवनात्मजम् ।
अतिलक्षणसंपन्नंमाधुर्यगुणभूषितम् ॥ 26 ॥
बुद्ध्याह्यष्टांगयायुक्तंत्वमेवार्हसिभाषितुम् ।
श्लाघनीयोऽनिलस्यत्वंसुतःपरमधार्मिकः ॥ 27 ॥
बलंशौर्यंश्रुतंसत्त्वंविक्रमोदाक्ष्यमुत्तमम् ।
तेजःक्षमाधृतिस्स्थैर्यंविनीतत्वं न संशयः ॥ 28 ॥
एतेचान्ये च बहवोगुणास्त्वय्येवशोभनाः ।
अथोवाचपुनस्सीतामसंभ्रांतोविनीतवत् ॥ 29 ॥
प्रगृहीतांचलिर्हर्षात्सीतायाःप्रमुखेस्थितः ।
इमास्तुखलुराक्षस्योयदित्वमनुमन्यसे ॥ 30 ॥
हंतुमिच्छामितास्सर्वायाभिस्त्वंतर्जितापुरा ।
क्लिश्यंतीं पतिदेवांत्वामशोकवनिकांगताम् ॥ 31 ॥
घोररूपसमाचाराःक्रूराःक्रूरतरेक्षणाः ।
इहश्रुतामयादेवि राक्षस्योविकृताननाः ॥ 32 ॥
असकृत्परुषैर्वाक्यैर्वद्नत्योरावणाज्ञया ।
विकृताविकृताकाराःक्रूराःक्रूरकचेक्षणाः ॥ 33 ॥
इच्छामिविविधैराघतैर्हंतुमेतास्सुदारुणाः ।
राक्षस्योदारुणकथावरमेतत्प्रयच्छमे ॥ 34 ॥
मुष्टिभिःपर्षिणघातैश्चविशालैश्चैवबाहुभिः ।
जंघाजानुप्रहारैश्चदंतानांचैवपीडनैः ॥ 35 ॥
भक्षणैःकर्णनासानांकेशानांलुंचनैस्तथा ।
भृशंशुष्कमुखैश्चैवदारणैर्लंघनैर्हतैः ॥ 36 ॥
विभिन्नशंकुग्रीवांशपार्श्वकैश्चकलेवरैः ।
निपात्यहंतुमिच्छामितवविप्रियकारिणीः ॥ 37 ॥
एवंप्रहारैर्बहुभिःसंप्प्रहार्ययशस्विनि ।
घातयेतीव्ररूपाभिर्याभिस्त्वंतर्जितापुरा ॥ 38 ॥
इत्युक्तासाहनुमताकृपणादीनवत्सला ।
हनूमंतमुवाचेदंचिंतयित्वाविमृश्य च ॥ 39 ॥
राजसंश्रयवश्यानांकुर्वतीनांपराज्ञया ।
विधेयानां च दासीनांकःकुप्यद्वानरोत्तम ॥ 40 ॥
भाग्यवैषम्यदोषेणपुरस्ताद्धुष्कृतेन च ।
मयैतत्प्राप्यसर्वंस्वकृतंह्युपभुज्यते ॥ 41 ॥
मैवंवदमहाबाहो दैवेह्येषापरागतिः ।
प्राप्तव्यंतुदशायोगान्मयैतदितिनिश्चितम् ॥ 42 ॥
दासीनांरावणस्याहंमर्षयामीहदुर्बला ।
आज्ञप्ताराक्षसेनेहराक्षस्यस्तर्जयंतिमाम् ॥ 43 ॥
हतेतस्मिन्नकुर्वंतितर्जनंमारुतात्मज ।
अयंव्याघ्रसमीपेतुपुराणोधर्मसंहितः ॥ 44 ॥
ऋक्षेणगीतःश्लोकोऽस्तितंनिबोधप्लवंगम ।
न परः पापमादत्तेपरेषांपापकर्मणाम् ॥ 45 ॥
समयोरक्षितव्यस्तुसप्तश्चारित्रभूषणाः ।
पापानांवाशुभानांवावधार्हाणांप्लवंगम ॥ 46 ॥
कार्यंकरुण्यमार्येण न कश्चिन्नापराध्यति ।
लोकहिंसाविहाराणांरक्षसांकामरूपिणाम् ॥ 47 ॥
कुर्वतामपिपापानिनैवकार्यमशोभनम् ।
एवमुक्तस्तुहनुमान् सीतयावाक्यकोविदः ॥ 48 ॥
प्रत्युवाचततस्सीतांरामपत्नीयशश्विनीम् ।
युक्तारामस्यभवतीधर्मपत्नीयशश्विनी ॥ 49 ॥
प्रतिसंदिशमांदेवि गमिष्येयत्रराघवः ।
एवमुक्ताहनुमतावैदेहिजनकात्मजा ॥ 50 ॥
साब्रवीद्ध्रष्टुमिच्छामिभर्तारंवानरोत्तम ।
तस्यास्तद्वचनंश्रुत्वाहनुमान्पवनात्मजः ॥ 51 ॥
हर्षयन्मैथिलींवाक्यमुवाचेदंमहामतिः ।
पूर्णचंद्राननंरामंद्रक्ष्यस्यार्येसलक्ष्मणम् ॥ 52 ॥
स्थिरमित्रंहतामित्रंशचीवत्रिदशेश्वरम् ।
तामेवमुक्त्वाराजंतींसीतांसाक्षादिवश्रियम् ॥ 53 ॥
आजगाममहावेगोहनूमान्यत्रराघवः ।
सपदिहरिवरस्ततोहनूमान् प्रतिवचनंजनकेश्वरात्मजायाः ।
कथितमकथयद्यथाक्रमेणत्रिदशवरप्रतिमायराघवाय ॥ 54 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे षोडशाधिकशततमस्सर्गः ॥