श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ एकपंचाशस्सर्गः ।
इत्युक्तस्य यथान्यायं रावणस्य जटायुषा ।
क्रुद्धस्याग्निनिभास्सर्वा रेजुर्विंशतिदृष्टयः ॥ 1 ॥
संरक्तनयनः कोपात्तप्तकांचनकुंडलः ।
राक्षसेंद्रोऽभिदुद्राव पतगेंद्रममर्षणः ॥ 2 ॥
स संप्रहारस्तुमुल स्तयोस्तस्मिन्महावने ।
बभूव वातोद्धतयोर्मेघयोर्गगने यथा ॥ 3 ॥
तद्बभूवाद्भुतं युद्धं गृध्रराक्षसयोस्तदा ।
सपक्षयोर्माल्यवतोर्महापर्वतयोरिव ॥ 4 ॥
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः ।
अभ्यवर्षन्महाघोरैर्गृध्रराजं महाबलः ॥ 5 ॥
स तानि शरजालानि गृध्रः पत्त्ररथेश्वरः ।
जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे ॥ 6 ॥
तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः ।
चकार बहुधा गात्रे व्रणान्पतगसत्तमः ॥ 7 ॥
अथ क्रोधाद्धशग्रीवो जग्राह दश मार्गणान् ।
मृत्युदंडनिभान्घोरान्छत्रुमर्दनकांक्षया ॥ 8 ॥
स तैर्बाणैर्महावीर्यः पूर्णमुक्तैरजिह्मगैः ।
बिभेद निशितैस्तीक्ष्णैर्गृध्रं घोरैश्शिलीमुखैः ॥ 9 ॥
स राक्षसरथे पश्यन्जानकीं बाष्पलोचनाम् ।
अचिंतयित्वा तान्बाणान्राक्षसं समभिद्रवत् ॥ 10 ॥
ततोऽस्य सशरं चापं मुक्तामणिविभूषितम् ।
चरणाभ्यां महातेजा बभंज पतगेश्वरः ॥ 11 ॥
ततोऽन्यद्धनुरादाय रावणः क्रोधमूर्छितः ।
ववर्ष शरवर्षाणि शतशोऽथ सहस्रशः ॥ 12 ॥
शरैरावारितस्तस्य संयुगे पतगेश्वरः ।
कुलायमुपसंप्राप्तः पक्षीव प्रबभौ तदा ॥ 13 ॥
स तानि शरवर्षाणि पक्षाभ्यां च विधूयच ।
चरणाभ्यां महातेजा बभंजास्य महद्धनुः ॥ 14 ॥
तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम् ।
पक्षाभ्यां स महावीर्यो व्याधुनोत्पतगेश्वरः ॥ 15 ॥
कांचनोरश्छदांदिव्यान्पिशाचवदनान्खरान् ।
तांश्चास्य जवसंपन्नांजघान समरे बली ॥ 16 ॥
वरं त्रिवेणुसंपन्नं कामगं पावकार्चिषम् ।
मणिहेमविचित्रांगं बभंज च महारथम् ॥ 17 ॥
पूर्णचंद्रप्रतीकाशं छत्रं च व्यजनैस्सह ।
पातयामास वेगेन ग्राहिभी राक्षसैस्सह ॥ 18 ॥
सारथेश्चास्य वेगेन तुंडेनैव महच्छिरः ।
पुनर्व्यपाहरच्छ्रीमान्पक्षिराजो महाबलः ॥ 19 ॥
स भग्नधन्वा विरथो हताश्वो हतसारथिः ।
अंकेनादाय वैदेहीं पपात भुवि रावणः ॥ 20 ॥
दृष्ट्वा निपतितं भूमौ रावणं भग्नवाहनम् ।
साधुसाध्विति भूतानि गृध्रराजमपूजयन् ॥ 21 ॥
परिश्रांतं तु तं दृष्टवा जरया पक्षियूथपम् ।
उत्पपात पुनर्हृष्टो मैथिलीं गृह्य रावणः ॥ 22 ॥
तं प्रहृष्टं निधायांके गच्छंतं जनकात्मजाम् ।
गृध्रराजस्समुत्पत्य समभिद्रुत्य रावणम् ॥ 23 ॥
समावार्य महातेजा जटायुरिदमब्रवीत् ।
वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण ॥ 24 ॥
अल्पबुद्धे हरस्येनां वधाय खलु रक्षसाम् ।
समित्रबंधुस्सामात्यस्सबलस्सपरिच्छदः ॥ 25 ॥
विषपानं पिबस्येतत्पिपासित इवोदकम् ।
अनुबंधमजानंतः कर्मणामविचक्षणाः ॥ 26 ॥
शीघ्रमेव विनश्यंति यथा त्वं विनशिष्यसि ।
बद्धस्त्वं कालपाशेन क्व गतस्तस्य मोक्ष्यसे ॥ 27 ॥
वधाय बडिशं गृह्य सामिषं जलजो यथा ।
न हि जातु दुराधर्षौ काकुत्स्थौ तव रावण ॥ 28 ॥
धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ ।
यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम् ॥ 29 ॥
तस्कराचरितो मार्गो नैव वीरनिषेवितः ।
युध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठरावण ॥ 30 ॥
शयिष्यसे हतो भूमौ यथा भ्राता खरस्तथा ।
परेतकाले पुरुषो यत्कर्म प्रतिपद्यते ॥ 31 ॥
विनाशायात्मनोऽधर्म्यं प्रतिपन्नोऽसि कर्म तत् ।
पापानुबंधो वै यस्य कर्मणः कर्मको नु तत् ॥ 32 ॥
कुर्वीत लोकाधिपतिस्स्वयंभूर्भगवानपि ।
एवमुक्त्वा शुभं वाक्यं जटायुस्तस्य रक्षसः ॥ 33 ॥
निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान् ।
तं गृहीत्वा नखैस्तीक्ष्णैर्विददार समंततः ॥ 34 ॥
अधिरूढो गजारोहो यथा स्याद्दुष्टवारणम् ।
विददार नखैरस्य तुंडं पृष्ठे समर्पयन् ॥ 35 ॥
केशांश्चोत्पाटयामास नखपक्षमुखायुधः ।
स तथा गृध्रराजेन क्लिश्यमानो मुहुर्मुहुः ॥ 36 ॥
अमर्षस्फुरितोष्ठस्सन्प्राकंपत च रावणः ।
स परिष्वज्य च वैदेहीं वामेनांकेन रावणः ॥ 37 ॥
तलेनाभिजघानाशु जटायुं क्रोधमुर्छीतः ।
जटायुस्तमभिक्रम्य तुंडेनास्य खगाधिपः ॥ 38 ॥
वामबाहूंदश तदा व्यपाहरदरिंदमः ।
संछिन्नबाहोस्सद्यैव बाहवस्सहसाभवन् ॥ 39 ॥
विषज्वालावलीयुक्ता वल्मीकादिव पन्नगाः ।
ततः क्रोधाद्दशग्रीवस्सीतामुत्सृज्य रावणः ॥ 40 ॥
मुष्टिभ्यां चरणाभ्यां च गृध्रराजमपोथयत् ।
ततो मुहूर्तं संग्रामो बभूवातुल्यवीर्ययोः ॥ 41 ॥
राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च ।
तस्य व्यायच्छमानस्य रामस्यार्थे स रावणः ॥ 42 ॥
पक्षौ पार्श्वौ च पादौ च खड्गमुद्धृत्य सोऽच्छिनत् ।
स च्छिन्नपक्षस्सहसा रक्षसा रौद्रकर्मणा ॥ 43 ॥
निपपात हतो गृद्रो धरण्यामल्पजीवितः ।
तं दृष्ट्वा पतितं भूमौ क्षतजार्द्रं जटायुषम् ॥ 44 ॥
अभ्यधावत वैदेही स्वबंधुमिव दुःखिता ।
तं नीलजीमूतनिकाशकल्पं सुपांडुरोरस्कमुदारवीर्यम् ।
ददर्श लंकाधिपतिः पृथिव्यां जटायुषं शांतमिवाग्निदावम् ॥ 45 ॥
ततस्तु तं पत्ररथं महीतले निपातितं रावणवेगमर्दितम् ।
पुनः परिश्वज्य शशिप्रभानना रुरोद सीता जनकात्मजातदा ॥ 46 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे एकपंचाशस्सर्गः ॥