View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

6.78 युद्धकांड - अष्टसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ अष्टसप्ततितमस्सर्गः ।

निकुंभंनिहतंश्रुत्वाकुंभं च विनिपातितम् ।
रावणःपरमामर्षीप्रजज्वालानलोयथा ॥ 1 ॥

नैरृतःक्रोधशोकाभ्यांद्वाभ्यांतुपरिमूर्छितः ।
खरपुत्रंविशालाक्षंमकराक्षमचोदयत् ॥ 2 ॥

गच्छपुत्रऽमयाऽजाज्ञप्तोबलेनाभिसमवनितः ।
राघवंलक्ष्मणंचैवजहितांश्चवनौकसः ॥ 3 ॥

रावणस्यवचश्श्रुत्वाशूरमानीखरात्मजः ।
बाढमित्यब्रवीद्धृष्टोमकराक्षोनिशाचरम् ॥ 4 ॥

सोऽभिवाद्यदशग्रीवंकृत्वाचापिप्रदक्षिणम् ।
निर्जगामगृहाच्छुभ्राद्रावणस्याज्ञयाबली ॥ 5 ॥

समीपस्थंबलाध्यक्षंखरपुत्रोऽब्रवीदिदम् ।
रथश्चानीयतांशीघ्रंसैन्यंत्वानीयतांत्वरात् ॥ 6 ॥

तस्यतद्वचनंश्रुत्वाबलाध्यक्षोनिशाचरः ।
स्यंदनं च बलंचैवसमीपंप्रत्यपादयत् ॥ 7 ॥

प्रदक्षिणंरथंकृत्वाआरुरोहनिशाचरः ।
सूतंसंचोदयामासशीघ्रंमेरथमावह ॥ 8 ॥

अथतान्राक्षसान्सर्वान्मकराक्षोऽब्रवीदिदम् ।
यूयंसर्वेप्रयुध्यध्वंपुरस्तान्ममराक्षसाः ॥ 9 ॥

अहंराक्षसराजेनरावणेनमहात्मना ।
आज्ञप्तःसमरेहंतुंतावुभौरामलक्ष्मणौ ॥ 10 ॥

अद्यरामंवधिष्यामिलक्ष्मणं च निशाचराः ।
शाखामृगं च सुग्रीवंवानरांश्चशरोत्तमैः ॥ 11 ॥

अद्यशूलनिपातैश्चवानराणांमहाचमूम् ।
प्रदहिष्यामिसंप्राप्तांशुष्केंधनमिवानलः ॥ 12 ॥

मकराक्षस्यतच्छ्रुत्वावचनंतेनिशाचराः ।
सर्वेनानायुधोपेताबलवंतःसमाहिताः ॥ 13 ॥

तेकामरूपिणस्सरेदंष्ट्रिणःपिंगलेक्षणा ।
मातंगाइवनर्दंतोध्वस्तकेशाभयावहाः ॥ 14 ॥

परिवार्यमहाकायामहाकायंखरात्मजम् ।
अभिजघ्नुस्ततोहृष्टाश्चालयंतोवसुंधराम् ॥ 15 ॥

शंखभेरीसहस्राणामाहतानां समंततः ।
क्ष्वेलितास्फोटितानां च तत्र महानभूत् ॥ 16 ॥

प्रभ्रष्टोऽथकरात्तस्यप्रतोदस्सारथेस्तदा ।
पपातसहसादैवाद्ध्वजस्तस्यतुरक्षसः ॥ 17 ॥

तस्यतेरथसंयुक्ताहयाविक्रमवर्जिताः ।
चरणैराकुलैर्गत्वादीनाःसास्रमुखाययुः ॥ 18 ॥

प्रवातिपवनस्तस्मिन् सपांसुःखरदारुणः ।
निर्याणेतस्यरौद्रस्यमकराक्षस्यदुर्मतेः ॥ 19 ॥

तानिदृष्टवानिमित्तानिराक्षसावीर्यवत्तमाः ।
अचिंत्यनिर्गतास्सर्वेयत्रतौरामलक्ष्मणौ ॥ 20 ॥

घनगजमहिषांगतुल्यवर्णास्समरमखेष्वसकृद्गदासिभिन्नाः ।
अहमहमितियुद्धकौशलास्तेरजनीचराःपरिबभ्रमुर्नदंतः ॥ 21 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे अष्टसप्ततितमस्सर्गः ॥




Browse Related Categories: