View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

2.27 अयोध्याकांड - सप्तविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ सप्तविंशस्सर्गः ।

एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी ।
प्रणयादेव संक्रुद्धा भर्तारमिदमब्रवीत् ॥ 1 ॥

किमिदं भाषसे राम वाक्यं लघुतया ध्रुवम् ।
त्वया यदपहास्यं मे श्रुत्वा नरवरात्मज ॥ 2 ॥

आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा ।
स्वानि पुण्यानि भुंजानाः स्वं स्वं भाग्यमुपासते ॥ 3 ॥

भर्तुर्भाग्यं तु भार्यैका प्राप्नोति पुरुषर्षभ ।
अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि ॥ 4 ॥

न पिता नात्मजो नात्मा न माता न सखीजनः ।
इह प्रेत्य च नारीणां पतिरेको गतिस्सदा ॥ 5 ॥

यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघव ।
अग्रतस्ते गमिष्यामि मृद्नंती कुशकंटकान् ॥ 6 ॥

ईर्ष्यारोषौ बहिष्कृत्य भुक्तशेषमिवोदकम् ।
नय मां वीर विस्रब्धः पापं मयि न विद्यते ॥ 7 ॥

प्रासादाग्रैर्विमानैर्वा वैहायसगतेन वा ।
सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते ॥ 8 ॥

अनुशिष्टाऽस्मि मात्रा च पित्रा च विविधाश्रयम् ।
नाऽस्मि संप्रति वक्तव्या वर्तितव्यं यथा मया ॥ 9 ॥

अहं दुर्गं गमिष्यामि वनं पुरुषवर्जितम् ।
नानामृगगणाकीर्णं शार्दूलवृकसेवितम् ॥ 10 ॥

सुखं वने निवत्स्यामि यथैव भवने पितुः ।
अचिंतयंती त्रीन्लोकांश्च्चिंतयंती पतिव्रतम् ॥ 11 ॥

शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी ।
सह रंस्ये त्वया वीर वनेषु मधुगंधिषु ॥ 12 ॥

त्वं हि शक्तो वने कर्तुं राम संपरिपालनम् ।
अन्यस्यापि जनस्येह किं पुनर्मम मानद ॥ 13 ॥

सह त्वया गमिष्यामि वनमद्य न संशयः ।
नाहं शक्या महाभाग निवर्तयितुमुद्यता ॥ 14 ॥

फलमूलाशना नित्यं भविष्यामि न संशयः ।
न ते दुःखं करिष्यामि निवसंती सह त्वया ॥ 15 ॥

इच्छामि सरितश्शैलान्पल्वलानि वनानि च ।
द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता ॥ 16 ॥

हंसकारंडवाकीर्णाः पद्मिनीस्साधुपुष्पिताः ।
इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण संगता ॥ 17 ॥

अभिषेकं करिष्यामि तासु नित्यं यतव्रता ।
सह त्वया विशालाक्ष रंस्ये परमनंदिनी ॥ 18 ॥

एवं वर्षसहस्राणां शतं वाऽहं त्वया सह ।
व्यतिक्रमं न वेत्स्यामि स्वर्गोऽपि न हि मे मतः ॥ 19 ॥

स्वर्गेऽपि च विना वासो भविता यदि राघव ।
त्वया मम नरव्याघ्र नाहं तमपि रोचये ॥ 20 ॥

अहं गमिष्यामि वनं सुदुर्गमं मृगायुतं वानरवारणैर्युतम् ।
वने निवत्स्यामि यथा पितुर्गृहे तवैव पादावुपगृह्य संयता ॥ 21 ॥

अनन्यभावामनुरक्तचेतसं त्वया वियुक्तां मरणायनिश्चिताम् ।
नयस्व मां साधु कुरुष्व याचनां न ते मयाऽतो गुरुता भविष्यति ॥ 22 ॥

तथा ब्रुवाणामपि धर्मवत्सलो न च स्म सीतां नृवरो निनीषति ।
उवाच चैनां बहु सन्निवर्तने वने निवासस्य च दुःखितां प्रति ॥ 23 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे सप्तविंशस्सर्गः ॥




Browse Related Categories: