श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ सप्तदशस्सर्गः ।
इत्युक्त्वापरुषंवाक्यंरावणंरावणानुजः ।
आजगाममुहूर्तेनयत्ररामस्सलक्ष्मणः ॥ 1 ॥
तंमेरुशिखराकारंदीप्तामिवशतह्रदाम् ।
गगनस्थंमहीस्थास्तेददृशुसर्ववानराः ॥ 2 ॥
ते चाप्यनुचरास्तस्य चत्वारो भीमविक्रमाः ।
तेऽपि वर्मायुधोपेता भूषणोत्तमभूषिताः ॥ 3 ॥
स च मेघाचलप्रख्यो वज्रायुधसमप्रभः ।
वरायुधधरो वीरो दिव्याभरणभूषितः ॥ 4 ॥
तमात्मपंचमंदृष्टवासुग्रीवोवाहिनीपतिः ।
वानरैस्सहदुर्धर्षचिंतयामासबुद्धिमान् ॥ 5 ॥
चिंतयित्वामुहूर्तंतुवानरांस्तानुवाचह ।
हनुमत्प्रमुखान्सर्वानिदंवचनमुत्तमम् ॥ 6 ॥
एषसर्वायुधोपेतश्चतुर्भिस्सहराक्षसैः ।
राक्षसोऽभ्येतिपश्यध्वमस्मान्हंतुंनसंशयः ॥ 7 ॥
सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानर उत्तमाः ।
सालान् उद्यम्य शैलामः च इदं वचनं अब्रुवन् ॥ 8 ॥
शीघ्रंव्यादिशनोराजन्वधायैषांदुरात्मनाम् ।
निपतंतुहताश्चैतेधरण्यामल्पतेजसः ॥ 9 ॥
तेषासंभाषमाणानामन्योन्यंसविभीषणः ।
उत्तरंतीरमासाद्यखस्थएवव्यतिष्ठत ॥ 10 ॥
उवाचमहाप्राज्ञस्स्वरेणमहतामहान् ।
सुग्रीवंतांश्चसंप्रेक्ष्यसर्वान्वानरयूथपान् ॥ 11 ॥
रावणो नाम दुर्वृत्तो राक्षसो राक्षस ईश्वरः ।
तस्य अहं अनुजो भ्राता विभीषण इति श्रुतः ॥ 12 ॥
तेनसीताजनस्थानाद्धृताहत्वाजटायुषम् ।
रुद्दाचविवशादीनाराक्षसीभिस्सुरक्षिता ॥ 13 ॥
तमहंहेतुभिर्वाक्यैर्विविधैश्चन्यदर्शयम् ।
साधुनिर्यात्यतांसीतारामायेतिपुनःपुनः ॥ 14 ॥
स च न प्रतिजग्राह रावणः काल चोदितः ।
उच्यमानो हितं वाक्यं विपरीत इव औषधम् ॥ 15 ॥
सोऽहंपरुषितस्तेनदासवच्चावमानितः ।
त्यक्त्वापुत्रांश्चदारांश्चराघवंशरणंगतः ॥ 16 ॥
सर्वलोकशरण्यायराघवायमहात्मने ।
निवेदयतमांक्षिप्रंविभीषणमुपस्थितम् ॥ 17 ॥
एतत्तुवचनंश्रुत्वासुग्रीवोलघुविक्रमः ।
लक्ष्मणस्याग्रतोरामंसम्रब्धमिदमब्रवीत् ॥ 18 ॥
प्रविष्टः शत्रु सैन्यं हि प्राप्तः शत्रुरतर्कितः ।
निहन्यादनंतरं लब्ध्वा उलूको वायसानिव ॥ 19 ॥
मंत्रेव्यूहेनयेचारेयुक्तोभवितुमर्हसि ।
वानराणांचभद्रंतेपरेषांचपरंतप ॥ 20 ॥
अंतर्धानगताह्येतेराक्षसाःकामरूपिणः ।
शूराश्चनिकृतिज्ञाश्चतेषांजातुनविश्वसेत् ॥ 21 ॥
प्रणिधीराक्षसेंद्रस्यरावणस्यभवेदयम् ।
अनुप्रविश्यसोऽस्मासुभेदंकुर्यान्नसंशयः ॥ 22 ॥
अथवास्वयमेवैषछिद्रमासाद्यबुद्धिमान् ।
अनुप्रविश्यविश्वस्तेकदाचित्प्रहरेदपि ॥ 23 ॥
मित्राटवीबलंचैवमौलभृत्यबलंतथा ।
सर्वमेतद्बलंग्राह्यंवर्जयित्वाद्विषद्बलम् ॥ 24 ॥
प्रकृत्याराक्षसेंद्रस्यभ्राताऽमित्रस्यतेप्रभोः ।
आगतश्चरिपोस्साक्षात्कथमस्मिन्हिविश्वसेत् ॥ 25 ॥
रावणेनप्रणिहितंतमवेहिविभीषणम् ।
तस्याहंनिग्रहंमन्येक्षमंक्षमवतांवर ॥ 26 ॥
राक्षसोजिह्मयाबुद्ध्यासंदिष्टोऽयमुपागतः ।
प्रहर्तुंमाययाच्छन्नोविश्वस्तेत्वयिराघव ॥ 27 ॥
प्रविष्टश्शत्रुसैन्यंहिप्राप्तश्शत्रुरतर्कितः ।
निहन्यादंतरंलब्ध्वाउलूकवायसानिव ॥ 28 ॥
वध्यतामेषतीव्रेणदंडेनसचिवैस्सह ।
रावणस्यनृशंसस्यभ्राताह्येषविभीषणः ॥ 29 ॥
एवमुक्त्वातुतंरामंसम्रब्धोवाहिनीपतिः ।
वाक्यज्ञोवाक्यकुशलंततोमौनमुपागमत् ॥ 30 ॥
सुग्रीवस्यतुतद्वाक्यंश्रुत्वारामोमहायशाः ।
समीपस्थानुवाचेदंहनुमत्प्रमुखान्हरीन् ॥ 31 ॥
यदुक्तंकपिराजेनरावणावरजंप्रति ।
वाक्यंहेतुमदत्यर्थंचभवद्भिरपितच्छ्रुतम् ॥ 32 ॥
सुहृदामर्थकृच्छेषुयुक्तंबुद्धिमतासदा ।
समर्थेनोपनिर्देष्टुंशाश्वतींभूतिमिच्छता ॥ 33 ॥
इत्येवंपरिपृष्टास्तेस्वंस्वंमतमतंद्रिताः ।
सोपचारंतदाराममूचुर्हितचिकीर्षवः ॥ 34 ॥
अज्ञातंनास्तितेकिंचित्त्रिषुलोकेषुराघवः ।
आत्मानंसूचयन्रामः पृच्छस्यस्मान् सुहृत्तया ॥ 35 ॥
त्वंहिसत्यव्रतश्शूरोधार्मिकोदृढविक्रमः ।
परीक्ष्यकारीस्मृतिमान्निसृष्टात्मासुहृत्सुच ॥ 36 ॥
तस्मादेकैकशस्तावद्ब्रुवंतुसचिवास्तव ।
हेतुतोमतिसंपन्नास्समर्थाश्चपुनः पुनः ॥ 37 ॥
इत्युक्तेराघवायाऽथमतिमानंगदोऽग्रतः ।
विभीषणपरीक्षार्थमुवाचवचनंहरिः ॥ 38 ॥
शत्रोस्सकाशात्संप्राप्तस्सर्वथाशङ् क्यएवहि ।
विश्वासयोग्यस्सहसानकर्तव्योविभीषणः ॥ 39 ॥
छादयित्वाऽत्मभावंहिचरंतिशठबुद्धयः ।
प्रहरंतिचरंध्रेषुसोऽनर्थस्सुमहान्भवेत् ॥ 40 ॥
अर्थानर्थौविनिश्चित्यव्यवसायंभजेतह ।
गुणतस्संग्रहंकुर्याद्दोषतस्तुविसर्जयेत् ॥ 41 ॥
यदिदोषोमहांस्तस्मिंस्त्यज्वतामविशंकितम् ।
गुणान्वापिबहून् ज्ञात्वासंग्रहःक्रियतांनृप ॥ 42 ॥
शरभस्त्वथनिश्चित्यसार्थंवचनमब्रवीत् ।
क्षिप्रमस्मिन्नरव्याघ्र चारःप्रतिविधीयताम् ॥ 43 ॥
प्रणिधायहिचारेणयथावत्सूक्ष्मबुद्धिना ।
परीक्ष्यचततःकार्योयथान्यायंपरिग्रहः ॥ 44 ॥
जांबवांस्त्वथसंप्रेक्ष्यशास्त्रबुध्याविचक्षणः ।
वाक्यंविज्ञापयामासगुणवद्दोषवर्जितम् ॥ 45 ॥
बद्धवैराच्चपापाच्चराक्षेसेंद्राद्विभीषणः ।
अदेशकालेसंप्राप्तस्सर्वथाशङ् क्यतामयम् ॥ 46 ॥
ततोमैंदस्तुसंप्रेक्ष्यनयापनयकोविदः ।
वाक्यंवचनसंपन्नोबभाषेहेतुमत्तरम् ॥ 47 ॥
वजनंनामतस्यैषरावणस्यविभीषणः ।
पृच्छयतांमधुरेणायंशनैर्नरपतीश्वर ॥ 48 ॥
भावमस्यतुविज्ञायतत्त्वतस्त्वंकरिष्यसि ।
यदिदुष्टोनदुष्टोवाबुद्धिपूर्वंनरर्षभ ॥ 49 ॥
अथसंस्कारसंपन्नोहनुमान् सचिवोत्तमः ।
उवाचवचनंश्लक्ष्णमर्थवन्मधुरंलघु ॥ 50 ॥
नभवंतंमतिश्रेष्ठंसमर्थंवदतांवरम् ।
अतिशाययितुंशक्तोबृहस्पतिरपिब्रुवन् ॥ 51 ॥
नवादान्नपिसंघर्षान्नाधिक्यान्नचकामतः ।
वक्ष्यामिवचनंराजन्यथार्थंरामगौरवात् ॥ 52 ॥
अर्थानर्थनिमित्तंहियदुक्तंसचिवैस्तव ।
तत्रदोषंप्रपश्यामिक्रियानह्युपपद्यते ॥ 53 ॥
ऋतेनियोगात्सामर्थ्यमवबोद्धुंनशक्यते ।
सहसाविनियोगोहिदोषवान्प्रतिभातिमे ॥ 54 ॥
चारप्रणिहितंयुक्तंयदुक्तंसचिवैस्तव ।
अर्थस्यासंभवात्तत्रकारणंनोपयुज्यते ॥ 55 ॥
अदेश काले संप्राप्त इति अयं यद् विभीषणः ।
विवक्षा च अत्र मे अस्ति इयं तां निबोध यथा मति ॥ 56 ॥
सएषदेशः कालश्चभवतीतियथातथा ।
पुरुषात्पुरुषंप्राप्यतथादोषगुणावपि ॥ 57 ॥
त्म्यंरावणेदृष्टवाविक्रमंचतथात्वयि ।
युक्तमागमनंह्यत्रसदृशंतस्यबुद्धितः ॥ 58 ॥
अज्ञातरूपैःपुरुषैस्सराजन्पृच्छ् यतामिति ।
यदुक्तमत्रमेप्रेक्षाकाचिदस्तिसमीक्षिता ॥ 59 ॥
पृच्छयमानोविशंकेतसहसाबुद्धिमान्वचः ।
तत्रमित्रंप्रदुष्येतमिथ्यापृष्टंसुखागतम् ॥ 60 ॥
अशक्यस्सहसाराजन्भावोबोद्धुंपरस्यवै ।
अंतस्स्वभावैर्गीतैस्तैर्नैपुण्यंपश्यतांभृशम् ॥ 61 ॥
नत्वस्यब्रुवतोजातुलक्ष्यतेदुष्टभावता ।
प्रसन्नंवदनंचापितस्मान्मेनास्तिसंशयः ॥ 62 ॥
अशंकितमतिस्स्वस्थोनशठःपरिसर्पति ।
नचास्यदुष्टावाक्चापितस्मान्नास्तीहसंशयः ॥ 63 ॥
आकारश्चाद्यमानोऽपिनशक्योविनिगूहितम् ।
बलाद्धिविवृणोत्येवभावमंतर्गतंनृणाम् ॥ 64 ॥
देशकालोपपन्नंचकार्यंकार्यविदांवरः ।
स्वफलंकुरुतेक्षिप्रंप्रयोगेणाभिसंहितम् ॥ 65 ॥
उद्योगंतवसंप्रेक्ष्यमिथ्यावृत्तंचरावणम् ।
वालिनंचहतंश्रुत्वासुग्रीवंचाभिषेचितम् ॥ 66 ॥
राज्यंप्रार्थयमानश्चबुद्धिपूर्वमिहागतः ।
एतावत्तुपुरस्कृत्ययुज्यतेतस्यसंग्रहः ॥ 67 ॥
यथाशक्तिमयोक्तंतुराक्षसस्यार्जवंप्रति ।
प्रमाणंत्वंतुशेषस्यशृत्वाबुद्धिमतांवरः ॥ 68 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे सप्तदशस्सर्गः ॥