श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ एकोनत्रिंशस्सर्गः ।
अथ तस्याप्रमेयस्य तद्वनं परिपृच्छतः ।
विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे ॥ 1 ॥
इह राम महाबाहो विष्णुर्देववरः प्रभुः ।
वर्षाणि सुबहूनीह तथा युगशतानि च ॥ 2 ॥
तपश्चरणयोगार्थमुवास सुमहातपाः ।
एष पूर्वाश्रमो राम वामनस्य महात्मनः ॥ 3 ॥
सिद्धाश्रम इति ख्यातस्सिद्धो ह्यत्र महातपाः ।
एतस्मिन्नेव काले तु राजा वैरोचनिर्बलिः ॥ 4 ॥
निर्जित्य दैवतगणान् सेंद्रांश्च समरुद्गणान् ।
कारयामास तद्राज्यं त्रिषु लोकेषु विश्रुतः ॥ 5 ॥
बलेस्तु यजमानस्य देवास्साग्निपुरोगमाः ।
समागम्य स्वयं चैव विष्णुमूचुरिहाश्रमे ॥ 6 ॥
बलिर्वैरोचनिर्विष्णो यजते यज्ञमुत्तमम् ।
असमाप्ते क्रतौ तस्मिन् स्वकार्यमभिपद्यताम् ॥ 7 ॥
ये चैनमभिवर्तंते याचितार इतस्ततः ।
यच्च यत्र यथावच्च सर्वं तेभ्यः प्रयच्छति ॥ 8 ॥
स त्वं सुरहितार्थाय मायायोगमुपागतः ।
वामनत्वं गतो विष्णो कुरु कल्याणमुत्तमम् ॥ 9 ॥
एतस्मिन्नंतरे राम कश्यपोऽग्निसमप्रभः ।
अदित्या सहितो राम दीप्यमान इवौजसा ॥ 10 ॥
देवीसहायो भगवान् दिव्यं वर्षसहस्रकम् ।
व्रतं समाप्य वरदं तुष्टाव मधुसूदनम् ॥ 11 ॥
तपोमयं तपोराशिं तपोमूर्तिं तपात्मकम् ।
तपसा त्वां सुतप्तेन पश्यामि पुरुषोत्तमम् ॥ 12 ॥
शरीरे तव पश्यामि जगत्सर्वमिदं प्रभो ।
त्वमनादिरनिर्देश्यस्त्वामहं शरणं गतः ॥ 13 ॥
तमुवाच हरिः प्रीतः कश्यपं धूतकल्मषम् ।
वरं वरय भद्रं ते वरार्होऽसि मतो मम ॥ 14 ॥
तच्छ्रुत्वा वचनं तस्य मारीचः कश्यपोऽब्रवीत् ।
अदित्या देवतानां च मम चैवानुयाचतः ॥ 15 ॥
वरं वरद सुप्रीतो दातुमर्हसि सुव्रत ।
पुत्रत्वं गच्छ भगवन्नदित्या मम चानघ ॥ 16 ॥
भ्राता भव यवीयांस्त्वं शक्रस्यासुरसूदन ।
शोकार्तानां तु देवानां साहाय्यं कर्तुमर्हसि ॥ 17 ॥
अयं सिद्धाश्रमो नाम प्रसादा त्ते भविष्यति ।
सिद्धे कर्मणि देवेश उत्तिष्ठ भगवन्नितः ॥ 18 ॥
अथ विष्णुर्महातेजा अदित्यां समजायत ।
वामनं रूपमास्थाय वैरोचनिमुपागमत् ॥ 19 ॥
त्रीन् क्रमानथ भिक्षित्वा प्रतिगृह्य च मानदः ।
आक्रम्य लोकान् लोकात्मा सर्वभूतहिते रतः ॥ 20 ॥
महेंद्राय पुनः प्रादान्नियम्य बलिमोजसा ।
त्रैलोक्यं स महातेजाश्चक्रे शक्रवशं पुनः ॥ 21 ॥
तेनैष पूर्वमाक्रांत आश्रमश्श्रमनाशनः ।
मयापि भक्तय तस्यैष वामनस्योपभुज्यते ॥ 22 ॥
एतमाश्रममायांति राक्षसा विघ्नकारिणः ।
अत्रैव पुरुषव्याघ्र हंतव्या दुष्टचारिणः ॥ 23 ॥
अद्य गच्छामहे राम सिद्धाश्रममनुत्तमम् ।
तदाश्रमपदं तात तवाप्येतद्यथा मम ॥ 24 ॥
प्रविशन्नाश्रमपदं व्यरोचत महामुनिः ।
शशीव गतनीहारः पुनर्वसुसमन्वितः ॥ 25 ॥
तं दृष्ट्वा मुनयस्सर्वे सिद्धाश्रमनिवासिनः ।
उत्पत्त्योत्पत्त्य सहसा विश्वामित्रमपूजयन् ॥ 26 ॥
यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते ।
तथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम् ॥ 27 ॥
मुहूर्तमथ विश्रांतौ राजपुत्रावरिंदमौ ।
प्रांजली मुनिशार्दूलमूचतू रघुनंदनौ ॥ 28 ॥
अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुंगव ।
सिद्धाश्रमोऽयं सिद्धस्स्यात् सत्यमस्तु वचस्तव ॥ 29 ॥
एवमुक्तो महातेजा विश्वामित्रो महान् ऋषिः ।
प्रविवेश तदा दीक्षां नियतो नियतेंद्रियः ॥ 30 ॥
कुमारावपि तां रात्रिमुषित्वा सुसमाहितौ ।
प्रभातकाले चोत्थाय पूर्वां संध्यामुपास्य च ॥ 31 ॥
स्पृष्टोदकौ शुची जप्यं समाप्य नियमेन च ।
हुताग्निहोत्रमासीनं विश्वामित्रमवंदताम् ॥ 32 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे एकोनत्रिंशस्सर्गः ॥