श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ सप्तत्रिंशस्सर्गः ।
नरवानरराजौतौसतुवायुसुतःकपिः ।
जांबवानृक्षराजश्चराक्षसश्चविभीषणः ॥ 1 ॥
अंगदोवालिपुत्रश्चसौमित्रिश्शरभःकपिः ।
सुषेणस्सहदायादोमैंदोद्विविदएवच ॥ 2 ॥
गजोगवाक्षःकुमुदोनलोऽथपनसस्तथा ।
अमित्रविषयंप्राप्तास्समवेतास्समर्धयन् ॥ 3 ॥
इयंसालक्षयतेलंकापुरीरावणपालिता ।
सासुरोरगगंधर्वैरमरैरपिदुर्जया ॥ 4 ॥
कार्यसिद्धिंपुरस्कृत्यमंद्रयध्वंविनिर्णये ।
नित्यंसन्निहितोह्यत्ररावणोराक्षसाधिपः ॥ 5 ॥
तथातेषुब्रुवाणेषुरावणावरजोऽब्रवीत् ।
वाक्यमग्राम्यपदवत्पुष्कलार्धंविभीषणः ॥ 6 ॥
अनलश्शरभश्चैवसंपातिःप्रघसस्तथा ।
गत्वालंकांममामात्याःपुरींपुनरिहागताः ॥ 7 ॥
भूत्वाशकुनयस्सर्वेप्रविष्टाश्चरिपोर्भलम् ।
विधानंविहितंयच्चतद्धृष्टवासमुपस्थिताः ॥ 8 ॥
संविधानंयथाहुस्तेरावणस्यदुरात्मनः ।
राम तद्ब्रुवतस्सर्वंयथात्त्वेनमेशृणु ॥ 9 ॥
पूर्वंप्रहस्तस्सबलोद्वारमासाद्यतिष्ठति ।
दक्षिणंचमहावीर्यौमहापार्श्वमहोदरौ ॥ 10 ॥
इंद्रजित्पश्चिमंद्वारंराक्षसैर्भहुभिर्वृतः ।
पट्टसासिधनुष्मद्भिश्शूलमुद्गरपाणिभिः ॥ 11 ॥
नानाप्रहरणैश्शूरैरावृतोरावणात्मजः ।
राक्षसानांसहस्रैस्तुबहुभिश्शस्त्रपाणिभिः ॥ 12 ॥
युक्तःपरमसंविग्नोराक्षर्भहुभिर्वृतः ।
उत्तरंनगरद्वारंरावणस्स्वयमास्थितः ॥ 13 ॥
विरूपाक्षस्तुमहताशूलखडगधनुष्मता ।
बलेनराक्षसैस्सार्थंमध्यमंगुल्ममास्थितः ॥ 14 ॥
एतानेवंविधान्गुल्मान् लंकायांसमुदीक्ष्यते ।
मामकामंत्रिणस्सर्वेपुनशशीघ्रमिहागताः ॥ 15 ॥
गजानांचसाहस्रंचरथानामयुतंपुरे ।
हयानामयुतेद्वेचसाग्राकोटीचरक्षसाम् ॥ 16 ॥
विक्रांताबलवंतश्चसंयुगेष्वाततायिनः ।
इष्टाराक्षसराजस्यनित्यमेतेनिशाचराः ॥ 17 ॥
एकैकस्यात्रयुद्धार्थेराक्षसस्यविशांपते ।
परीवारस्सहस्राणांसहस्रमुपतिष्ठते ॥ 18 ॥
एतांप्रवृत्तिंलंकायांमंत्रिप्रोक्तांविभीषणः ।
एवमुक्त्वामहाबाहूराक्षसांस्तानदर्शयत् ॥ 19 ॥
लंकायांसचिवैस्सर्वंरामायप्रत्यवेदयत् ।
रामंकमलपत्राक्षमिदमुत्तरमब्रवीत् ॥ 20 ॥
रावणावरजःश्रीमान् रामप्रियचिकीर्षया ।
कुबेरंतुयदाराम रावणःप्रत्ययुध्यत ॥ 21 ॥
षष्टिश्शतसहस्राणितदानिर्यांतिरक्षसाः ।
राक्रमेणवीर्येणतेजसासत्त्वगौरवात् ॥ 22 ॥
सदृशाय्येऽत्रदर्पेणरावणस्यदुरात्मनः ।
अत्रमन्युर्नकर्तव्योरोषयेत्वांनभीषये ॥ 23 ॥
समर्थोह्यसिवीर्येणसुराणामपिनिग्रहे ।
तद्भवांश्चतुरंगेणबलेनमहातावृतः ॥ 24 ॥
व्यूह्येदंवानरानीकंनिर्मथिष्यतिरावणम् ।
रावणावरजेवाक्यमेवंब्रुवतिराघवः ॥ 25 ॥
शत्रूणांप्रतिघातार्थमिदंवचनमब्रवीत् ।
पूर्वद्वारेतुलंकायानीलोवानरपुंगवः ॥ 26 ॥
प्रहस्तप्रतियोद्धास्याद्वानरैर्बहुभिर्वृतः ।
अंगदोवालिपुत्रस्तुबलेनमहतावृतः ॥ 27 ॥
दक्षिणेबाधतांद्वारेमहापार्श्वमहोदरौ ।
हनुमान्पश्चिमद्वारंनिपीड्यपवनात्मजः ॥ 28 ॥
प्रविशत्वप्रमेयात्माबहुभिःकपिभिर्वृतः ।
दैत्यदावनसंघानामृषीणांचमहात्मनाम् ॥ 29 ॥
विप्रकारप्रियःक्षुद्रोवरदानबलान्वितः ।
परिक्रमतियःसर्वान्लोकान्संतापयन्प्रजाः ॥ 30 ॥
तस्याहंराक्षसेंद्रस्यस्वयमेववधेधृतः ।
उत्तरंनगरद्वारमहंसौमित्रिणासह ॥ 31 ॥
निपीड्याभिप्रवेक्ष्यामिसबलोयत्ररावणः ।
वानरेंद्रश्चबलवानृक्षराजश्चवीर्यवान् ॥ 32 ॥
राक्षसेंद्रानुजश्चैवगुलोभवतुमध्यमः ।
नचैवमानुषंरूपंकार्यंहरिभिराहवे ॥ 33 ॥
एषाभवतुसंङञान् युद्धेऽस्मिन् वानरेबले ।
वानराएवनश्चिह्नंस्वजनेऽस्मिन् भविष्यति ॥ 34 ॥
वयंतुमानुषेणैवसप्तयोत्प्यामहेपरान् ।
अहमेषममभ्रात्रालक्ष्मणेनमहौजसौ ॥ 35 ॥
आत्मनापंचमश्चायंसखाममविभीषणः ।
सरामःकृत्यसिध्यर्थएवमुक्त्वाविभीषणम् ॥ 36 ॥
सुवेलारोहणेबुद्धिश्चकारमतिमान्मतिम् ।
रमणीयतरंदृष्टवासुवेलस्यगिरेस्तटम् ॥ 37 ॥
ततस्तुरामोमहताबलेनप्रच्छाद्यसर्वांपृथिवींमहात्मा ।
प्रहृष्टरूपोऽभिजगामलंकांकृत्वामतिंसोऽरिवधेमहात्मा ॥ 38 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे सप्तत्रिंशस्सर्गः ॥