श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ अष्टनवतितमस्सर्गः ।
हन्यमानेबलेतूर्णमन्योन्यंतेमहामृथे ।
सरसीवमहाघर्मेसोपक्षीणेबभूवतुः ॥ 1 ॥
स्वबलस्यविघातेनविरूपाक्ष्वधेन च ।
बभूवद्विगुणंक्रुद्धोरावणोराक्षसाधिपः ॥ 2 ॥
प्रक्षीणंतुबलंदृष्टवावध्यमानंवलीमुखैः ।
बभूवास्यव्यथायुद्धेप्रेक्ष्यदैवविपर्ययम् ॥ 3 ॥
उवाच च समीपस्थंमहोदरमरिंदमम् ।
अस्मिन्कालेमहाबाहोजयाशात्वयिमेस्थिता ॥ 4 ॥
जहिशत्रुचमूंवीरदर्शयाद्यपराक्रमम् ।
भर्तृपिंडस्यकालोऽऽयंनिर्देष्टुंसाधुयुध्यताम् ॥ 5 ॥
वेगन् चक्रे महाबाहुः समुद्र इव पर्वणि ।
आयसं परिघन् गृह्य सूर्यरश्मिसमप्रभम् ॥ 6 ॥
ततस्सकदनंचक्रेवानराणांमहाबलः ।
भर्तृवाक्येनतेजस्वीस्वेनवीर्येणचोदितः ॥ 7 ॥
वानराश्चमहासत्त्वाःप्रगृह्वःविपुलाशशिलाः ।
प्रविश्यारिबलंभीमंजघ्नुस्तेरजनीचरान् ॥ 8 ॥
महोदरस्तुसंकृद्धश्शरैःकांचनभूषणैः ।
चिच्छेदपाणिपादोरुन्वानराणांमहाहवे ॥ 9 ॥
ततस्तेवानरास्सर्वेराक्षसैरर्दिताभृशम् ।
दिशोदशद्रुताःकेचित्केचित्सुग्रीवमाश्रिताः ॥ 10 ॥
प्रभग्नांसमरेदृष्टवावानराणांमहाचमूम् ।
अभिदुद्रावसुग्रीवोमहोदरमनंतरम् ॥ 11 ॥
प्रगृह्यविपुलांघोरांमहीधरसमांशिलाम् ।
चिक्षेप स महातेजास्तद्वधायहरीश्वरः ॥ 12 ॥
तामापततनींसहसाशिलांदृष्टवामहोदरः ।
असंभ्रांतस्ततोबाणैर्निर्बिभेददुरासदाम् ॥ 13 ॥
रक्षसातेनबाणौघैर्निकृत्तासासहस्रधा ।
निपपातशिलाभूमौगृध्रचक्रमिवाकुलम् ॥ 14 ॥
तांतुभिन्नांशिलांदृष्टवासुग्रीवःक्रोधमूर्छितः ।
सालमुत्पाट्यचिक्षेपराक्षसेरणमूर्थनि ॥ 15 ॥
शरैश्चविददारैनंशूरःपरपुरंजयः ।
स ददर्शततःक्रुद्धःपरिघंपतितंभुवि ॥ 16 ॥
आविध्यतु स तंदीप्तंपरिघंतस्यदर्शयन् ।
परिघाग्रेणवेगेनजघानास्यहयोत्तमान् ॥ 17 ॥
तस्माद्धतहयावदीरःसोऽऽवप्लुत्यमहारथात् ।
गदांजग्राहसंक्रुद्धोराक्षसोऽऽथमहोदरः ॥ 18 ॥
गदापरिघहस्तौतौयुधिवीरौसमीयतुः ।
नर्दंतौगोवृषप्रख्यौघनाविवसविद्युतौ ॥ 19 ॥
ततःक्रुद्धोगदांतस्यैचिक्षेपरजनीचरः ।
ज्वलतनींभास्कराभासांसुग्रीवायमहोदरः ॥ 20 ॥
गदांतांसुमहाघोरामापततनींमहाबलः ।
सुग्रीवोरोषताम्राक्षस्समुद्यम्यमहाहवे ॥ 21 ॥
आजघानगदांतस्यपरिघेणहरीश्वर ।
पपात स गदोद्भिन्नःपरिघस्तस्यभूतले ॥ 22 ॥
ततोजग्राहतेजस्वीसुग्रीवोवसुधातलात् ।
आयसंमुसलंघोरंसर्वतोहेमभूषितम् ॥ 23 ॥
स तमुद्यम्यचिक्षेपसोऽऽप्यन्यांव्याक्षिपद्गदाम् ।
भिन्नावन्योन्यमासाद्यपेततुद्दरणीतले ॥ 24 ॥
ततोग्नप्रहरणौमुष्टिभ्यांतौसमीयतुः ।
तेजोबलसमाविष्टौदीप्ताविवहुताशनौ ॥ 25 ॥
जघ्नतुस्तौतदान्योन्यंवेदतुश्चपुनःपुनः ।
तलैश्चान्योन्यमहत्यपेततुश्चमहीतले ॥ 26 ॥
उत्पेततुस्ततस्तूर्णंजघ्नतुश्चपरस्परम् ।
भुजैश्चिक्षिपतुर्वीरावन्योन्यमपराजितौ ॥ 27 ॥
जग्मतुस्तौश्रमंवीरौबाहुयुधेपरंतपौ ।
अजहारतदाखडगमदूरपरिवर्तिनम् ॥ 28 ॥
राक्षसश्चर्मणासार्धंमहावेगोमहोदरः ।
थैव च महाखडगंचर्मणापतितंसह ॥ 29 ॥
जग्राहवानरश्रेष्ठस्सुग्रीवोवेगवत्तरः ।
तौतुरोषपरीतांगौनर्दंतावभ्यधावताम् ॥ 30 ॥
उद्यतासीरणेहृष्टावुभौशस्त्रविशारदौ ।
दक्षिणंमंडलंचोभौसुतूर्णंसंपरीयतुः ॥ 31 ॥
अन्योन्यमभिसंकृद्धौ जये प्रणिहितावुभौ ।
तुशूरोमहावेगोवीर्यश्लाघीमहोदरः ॥ 32 ॥
महाचर्मणितंखडगंपातयामासदुर्मतिः ।
लग्नमुत्कर्षतःखडगंखडगेनकपिकुंजरः ॥ 33 ॥
जहारसशिरस्त्राणंकुंडलोपहितंशिरः ।
निकृत्तशिरसस्तस्यपतितस्यमहीतले ॥ 34 ॥
तद्बलंराक्षसेंद्रस्यदृष्टवातत्र न तिष्टते ।
हत्वांतंवानरैस्सार्धंननादमुदितोहरिः ॥ 35 ॥
चुक्रोध च दशग्रीवोबभौहृष्टश्चराघवः ।
विषण्णवदनास्सर्वेराक्षसादीनचेतसः ॥ 36 ॥
विद्रवंतिततस्सर्वेभयवित्रस्तचेतसः ।
महोदरंतंन्वीपात्यभूमौमहागिरेःकीर्णमिवैकदेशम् ।
सूर्यात्मजस्तत्ररराजलक्ष्म्यसूर्यस्स्वतेजोभिरिवाप्रधृष्यः ॥ 37 ॥
अथविजयमवाप्यवानरेंद्रस्समरमुखेसुरसिद्धयक्षसंघै ।
अन्वितलगतैश्चभूतसंघैर्हर्षरुषसमाकुलितैस्तुतोमहात्मा ॥ 38 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे अष्टनवतितमस्सर्गः ॥