View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

6.10 युद्धकांड - दशम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ दशमस्सर्गः ।

ततःप्रत्युषसिप्राप्तेप्राप्तधर्मार्थनिश्चयः ।
राक्षसाधिपतेर्वेश्मभीमकर्माविभीषणः ॥ 1 ॥

शैलाग्रचयसंकाशंशैलशृंगमिवोन्नतम् ।
सुविभक्तमहाकक्षंमहाजनपरिग्रहम् ॥ 2 ॥

मतिमद्भिर्महामात्रैरनुरक्तैरधिष्ठितम् ।
राक्षसैराप्तपर्याप्तैस्सर्वतःपरिरक्षितम् ॥ 3 ॥

मत्तमातंगनिश्श्वासैर्व्याकुलीकृतमारुतम् ।
शंखघोषमहाघोषंतूर्यनादानुनादितम् ॥ 4 ॥

प्रमदाजनसंबाधंप्रजल्पितमहापथम् ।
तप्तकांचननिर्यूहंभूषणोत्तमभूषितम् ॥ 5 ॥

गंधर्वाणामिवाऽवासमालयंमरुतामिव ।
रत्नसंचयसंबाधंभवनंभोगिनामिव ॥ 6 ॥

तंमहाभ्रमिवाऽदित्यस्तेजोविस्तृतरश्मिमान् ।
अग्रजस्यालयंवीरःप्रविवेशमहाद्युतिः ॥ 7 ॥

पुण्यान्पुण्याहघोषांश्चवेदविद्भिरुदाहृतान् ।
शुश्रावसुमहातेजाभ्रातुर्विजयसंश्रितान् ॥ 8 ॥

पूजितान् दधिपात्रैश्चसर्पिर्भिस्सुमनोक्षतैः ।
मंत्रवेदविदोविप्रांददर्शसमहाबलः ॥ 9 ॥

सपूज्यमानोरक्षोभिद्दीप्यमानस्स्वतेजसा ।
आसनस्थंमहाबाहुर्ववंदेधनदानुजम् ॥ 10 ॥

सराजदृष्टिसंपन्नमासनंहेमभूषितम् ।
जगामसमुदाचारंप्रयुज्याचारकोविदः ॥ 11 ॥

सरावणंमहात्मानंविजनेमंत्रिसन्निधौ ।
उवाचहितमत्यर्थंवचनंहेतुनिश्चितम् ॥ 12 ॥

प्रसाद्यभ्रातरंजेष्ठंसांत्वेनोपस्थितक्रमः ।
देशकालार्थसंवादिदृष्टलोकपरावरः ॥ 13 ॥

यदाप्रभृतिवैदेहीसंप्रास्तेमांपुरींतव ।
तदाप्रभृतिदृश्यंतेनिमित्तान्यशुभानिनः ॥ 14 ॥

सस्फुलिंगस्सधूमार्चिस्सधूमकलुषोदयः ।
मंत्रसंघहुतोऽप्यग्निर्नसम्यगभिवर्थते ॥ 15 ॥

अग्निष्ठेष्वग्निशलासुतथाब्रह्मस्थालीषुच ।
सरीसृपाणिदृश्यंतेहन्येषुचपिपीलिकाः ॥ 16 ॥

गवांसयांसिस्कन्नानिविमदावीरकुंजराः ।
दीनमश्वाःप्रहेषंतेनचग्रासाभिनंदिनः ॥ 17 ॥

खरोष्ट्राश्वतराराजभनभिन्नरोमास्स्रवंतिच ।
नस्वभावेऽवतिष्ठंतिविधानैरपिचिंतिताः ॥ 18 ॥

वायसाःसंघशःक्रूराव्याहरंतिसमंततः ।
समवेताश्चदृश्यंतेविमानाग्रेषुसंघशः ॥ 19 ॥

गृध्राश्चपरिलीयंतेपुरीमुपरिपिंडिताः ।
उपपन्नाश्चस्नध्येद्वेव्याहऱ्नत्यशिवंशिवाः ॥ 20 ॥

क्रव्यादानांमृगाणांचपुरीद्वारेषुसंघशः ।
श्रूयंतेविपुलाघोषास्सविस्फूर्जितनिस्स्वनाः ॥ 21 ॥

तदेवंप्रस्तुतेकार्येप्रायश्चित्तमिदंक्षमम् ।
रोचतेयदिवैदेहीराघवायप्रदीयताम् ॥ 22 ॥

इदंचयदिवामोहाल्लोभाद्वाव्याहृतंमया ।
तत्रापिचमहाराज नदोषंकर्तुमर्हसि ॥ 23 ॥

अयंहिदोषस्सर्वस्यजनस्यास्योपलक्ष्यते ।
रक्षसांराक्षसीनांचपुरस्यांतःपुरस्यच ॥ 24 ॥

श्रावणेचास्यमंत्रस्यनिवृत्तास्सर्वमंत्रिणः ।
अवश्यंचमयावाच्यंयद्दृष्टमपिवाश्रुतम् ॥ 25 ॥

हितंमहार्थंमृदुहेतुसंहितंव्यतीतकालायतिसंप्रतिक्षमम् ।
निशम्यतद्वाक्यमुपस्थितज्वरःप्रसंगवानुत्तरमेतदब्रवीत् ॥ 26 ॥

भयंनपश्यामिकुतश्चिदप्यहंनराघवःप्राप्स्यतिजातुमैथिलीम् ।
सुरैस्सहेंद्रैरपिसंगरेकथंममाग्रतस्स्थास्यतिलक्ष्मणाग्रजः ॥ 27 ॥

इत्येवमुक्त्वासुरसैन्यनाशनोमहाबलस्संयतिचंडविक्रमः ।
दशाननोभ्रातरमाप्तवादिनंविसर्जयामासतदाविभीषणम् ॥ 28 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे दशमस्सर्गः ॥




Browse Related Categories: