श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ पंचसप्ततितमस्सर्गः ।
ततोऽब्रवीन्महातेजास्सुग्रीवोवानराधिपः ।
अर्थ्यंविज्ञापयंश्चापिहनूमंतमिदंवचः ॥ 1 ॥
यतोहतःकुंभकर्णःकुमाराश्चनिषूदिताः ।
नेदानीमुपनिर्हारंरावणोदातुमर्हति ॥ 2 ॥
येयेमहाबलास्संतिलघवश्चप्लवंगमाः ।
लंकामभ्युतंत्याशुगृह्योल्काःप्लवगर्षभाः ॥ 3 ॥
हरयोहरिसंकाशाःप्रदग्धुंरावणालयम् ।
तोस्तंगतआदित्येरौद्रेतस्मिन्निशामुखे ॥ 4 ॥
लंकामभिमुखास्सोल्काजग्मुस्तेप्लवगर्षभाः ।
उल्काहस्सैर्हरिगणैस्सर्वतस्समभिद्रुताः ॥ 5 ॥
आरक्षस्थाविरूपाक्षास्सहसाविप्रदद्रुवुः ।
गोपुराट्टप्रतोलीषुचर्यासुविविधासु च ॥ 6 ॥
प्रासादेषु च सम्हृष्टास्ससृजुस्तेहुताशनम् ।
तेषांगृहसहस्राणिददाहहुतभुक्तदा ॥ 7 ॥
प्रासादाःपर्वताकाराःपतंतिधरणीतले ।
अगुरुर्दह्यतेतत्रवरं च हरिचंदनम् ॥ 8 ॥
मौक्तिकामणयस्स्निग्धावज्रंचापिप्रवालकम् ।
क्षौमं च दह्यतेतत्रकौशेयंचापिशोभनम् ॥ 9 ॥
आविकंविविधंचौर्णंकांचनंभांडमायुधम् ।
नानाविकृतसंस्थानंवाजिभांडपरिच्छदौ ॥ 10 ॥
गजग्रैवेयकक्ष्याश्चरथभांडाश्चसम्स्कृताः ।
नुत्राणि च योधानांहस्त्यश्वानां व चर्म च ॥ 11 ॥
खडगाधनूंषिज्वाबाणास्तोमरांकुशशक्तयः ।
रोमजंवालजंचर्मव्याघ्रजंचंडजंबहु ॥ 12 ॥
मुक्तामणिविचित्रांश्चप्रासादांश्चसमंततः ।
विविधानस्त्रसंयोगानग्निर्दहतितत्रवै ॥ 13 ॥
नानाविधान्गृहच्छंदांधदाहहुतभुक्तदा ।
आवासान्राक्षसानां च सर्वेषांगृहगर्थिनाम् ॥ 14 ॥
हेमचित्रतनुत्राणस्रग्दामांभरधारिणाम् ।
शीधुपानचलाक्षाणांमद्विह्वलगामिनाम् ॥ 15 ॥
कांतालंबितवस्त्राणांशत्रुसंजातमन्युनाम् ।
गदाशूलासिहस्तानांखादतांपिबतामपि ॥ 16 ॥
शयनेषुमहार्हेषुप्रसुप्तानांप्रियैस्सह ।
त्रस्तानांगच्छतांतूर्णंपुत्रानादायसर्वतः ॥ 17 ॥
तेषांशतसहस्राणितदालंकानिवासिनाम् ।
अदहत्पावकस्तत्रजज्वाल च पुनःपुनः ॥ 18 ॥
सारवंतिमहार्हाणिगंभीरगुणवंति च ।
हेमचंद्रार्धचंद्राणिचंद्रशालोनतानि च ॥ 19 ॥
तत्रचित्रगवाक्षाणिसाधिष्ठानानिसर्वशः ।
मणिविद्रुमचित्राणिस्पृशंतीवदिवाकरम् ॥ 20 ॥
क्रौंचबर्हिबवीणानांभूषणानां च निस्स्वनैः ।
नादितान्यचलाभानिवेश्मान्यग्निर्ददाह स ॥ 21 ॥
ज्वलनेनपरीतानितोरणानिचकाशिरे ।
विद्युद्भिरिवनद्धानिमेघजालानिघर्मगे ॥ 22 ॥
ज्वलनेनपरीतानिनिपेतुर्भवनान्वथ ।
वज्रिवज्रहतानीवशिखराणिमहागिरेः ॥ 23 ॥
विमानेषुप्रसुस्ताश्चदह्यमानावरांगनाः ।
त्यक्ताभरणसर्वांगाहाहेत्युच्चैर्विचुक्रुशुः ॥ 24 ॥
तत्रचाग्निपरीतानिनिपेतुर्भवनान्यपि ।
वज्रिवज्रहतानीवशिखराणिमहागिरेः ॥ 25 ॥
तानिनिर्दह्यमानानिदूरतःप्रचकाशिरे ।
हिमवच्छिखराणीवदीप्तौषदिवनानिच ॥ 26 ॥
हर्म्याग्रैर्दह्यमानैश्चज्वालाप्रज्वलितैरपि ।
रात्रौसादृश्यतेलंकापुष्पितैरिवकिंशुकैः ॥ 27 ॥
हस्त्यध्यक्षैर्गजैर्मुकैर्मुकैश्च तुरगैरपि ।
बभूव लंका लोकांते भ्रांतग्राह इवार्णवः ॥ 28 ॥
अश्वंमुक्तंगजोदृष्टवाक्वचिद्भीतोऽपसर्पति ।
भीतोभीतंगजंदृष्टवाक्वचिदश्वोनिवर्तते ॥ 29 ॥
लंकायां दह्यमानायां शुशुभे च महोदधिः ।
चायासंसक्तसलिलो लोहितोद इवार्णवः ॥ 30 ॥
साबभूवमुहूर्तेनहरिभिर्दीपितापुरी ।
लोकस्यास्यक्ष्येघोरेप्रदीप्तेववसुंदरा ॥ 31 ॥
नारीजनस्यधूमेनव्याप्तस्योच्चैर्विनेदुषः ।
स्वनोज्वलनतप्तस्यशुश्रुवेशतयोजनम् ॥ 32 ॥
प्रदग्धकायानपरान् राक्षसान्निर्गतान् बहिः ।
सहसाभ्युत्पतंतिस्महरयोऽथयुयुत्सवः ॥ 33 ॥
उद्घुष्टंवानराणां च राक्षसानां च निस्स्वनः ।
दिशोदशसमुद्रं च पृथिवींचान्वनादयत् ॥ 34 ॥
विशल्यौतुमहात्मानौतावुभौरामलक्ष्मणौ ।
असंभ्रांतौजगृहतुस्तदोभौधनुषीवरे ॥ 35 ॥
ततोविस्फारयानस्यरामस्यधनुरुत्तमम् ।
बभूवतुमुलश्शब्दोराक्षसानांभयावहः ॥ 36 ॥
अशोभततदारामोधनुर्विष्फारयन् महत् ।
भगवानिवसंकृद्धोभवोवेदमयंधनुः ॥ 37 ॥
उद्घुष्टंवानराणां च राक्षसानां च निस्स्वनम् ।
ज्याशब्दस्तावुभौशब्दावतिरामस्यशुश्रुवे ॥ 38 ॥
वानरोद्घुष्टघोषश्चराक्षसानां च निस्स्वनः ।
ज्याशब्दश्चापिरामस्यत्रयंव्याप्यदिशोदश ॥ 39 ॥
तस्यकार्मुकमुक्सैश्चशरैस्तत्पुरगोपुरम् ।
कैलासशृंगप्रतिमंविशीर्णमपतद्भुवि ॥ 40 ॥
ततोरामशरान् दृष्टवाविमानेषुगृहेषु च ।
सन्नाहोराक्षसेंद्राणांतुमुलस्समपद्यत ॥ 41 ॥
तेषांसन्नह्यमानानांसिंहनादं च कुर्वताम् ।
शर्वरीराक्षसेंद्राणांरौद्रीवसमपद्यत ॥ 42 ॥
आदिष्टावानरेंद्रास्तेसुग्रीवेणमहात्मना ।
आसन्नद्वारमासाद्ययुध्यध्वंप्लवगर्षभाः ॥ 43 ॥
यश्चवोवितथंकुर्वात्तत्रतत्रव्यवस्थितः ।
स हंतव्योहिसंफ्लुत्यराजशासनदूषकः ॥ 44 ॥
तेषुवानरमुखेषुदीप्तोल्कोज्ज्वलपाणिषु ।
स्थितेषुद्वारमासाद्यरावणंमन्युराविशत् ॥ 45 ॥
तस्यजृंभितविक्षेपाद्व्यामिश्रावैदिशोदश ।
रूपवानिवरुद्रस्यमन्युर्गात्रेष्वदृश्यत ॥ 46 ॥
स निकुंभं च कुंभं च कुंभकर्णात्मजावुभौ ।
प्रेषयामाससंकृद्धोराक्षससैर्बहुभिस्सह ॥ 47 ॥
यूपाक्षश्शोणिताक्षश्चप्रजंघःकंपनस्तथा ।
निर्ययुःकौंभकर्णिभ्यांसहरावणशासनात् ॥ 48 ॥
शशासचैवतान् सर्वान्राक्षसान् सुमहाबलान् ।
राक्षसागच्छताद्यैवसिंहनादं च नादयन् ॥ 49 ॥
ततस्तुचोदितास्तेनराक्षसाज्वलितायुधाः ।
लंकायानिर्ययुर्वीराःप्रणदंतःपुनःपुनः ॥ 50 ॥
रक्षसांभूषणस्थाभिर्भाभिस्स्वाभिश्चसर्वशः ।
चक्रुस्तेसप्रभंव्योमहरयश्चाग्निभिस्सह ॥ 51 ॥
तत्रताराधिपस्याभाताराणां च तथैव च ।
तयोराभरणासा च बलयोर्द्यामभासयन् ॥ 52 ॥
चंद्राभाभूषणाभा च गृहाणांसागरःपुनः ।
हरिराक्षससैन्यानिभ्राजयामाससर्वतः ॥ 53 ॥
तत्रचोर्ध्वंप्रदीप्तानांगृहाणांसागरःपुनः ।
भाभिस्संसक्तसलिलश्चलोर्मिश्शुशुभेऽधिकम् ॥ 54 ॥
पताकाध्वजसंसक्तमुत्तमासिपरश्वधम् ।
भीमाश्वरथमातंगंनानापततिसमाकुलम् ॥ 55 ॥
दीप्तशूलगदाखडगप्रासतोमरकार्मुकम् ।
तद्राक्षसबलंघोरभीमंविक्रमपौरुषम् ॥ 56 ॥
ददृशेज्वलितप्रासंकिंकिणीशतनादितम् ।
हेमजालाचितभुजंव्यावेष्टितपरश्वथम् ॥ 57 ॥
व्याघूर्णितमहाशस्त्रंबाणसंसक्तकार्मुकम् ।
गंधमाल्यमधूत्सेकसम्मोदितमहानिलम् ॥ 58 ॥
घोरंशूरजनाकीर्णंमहांबुदरनिस्स्वनम् ।
तद्दृष्टवाबलमायातंराक्षसानांसुदारुणम् ॥ 59 ॥
संचचालप्लवंगानांबलमुच्चैर्ननाद च ।
जवेनाफ्लुत्य च पुनस्तद्बलंरक्षसांमहत् ॥ 60 ॥
अभ्ययात्प्रत्यरिबलंपतंगाइवपावकम् ।
तेषांभुजपरामर्शव्यामृष्टपरिघाशनि ॥ 61 ॥
राक्षसानांबलंश्रेष्ठंभूयस्तरमशोभत ।
तत्रोन्मत्ताइवोत्पेतुर्हरयोऽथयुयुत्सवः ॥ 62 ॥
तरुशैलैरभिघ्नंतोमुष्टिभिश्चनिशाचरान् ।
तथैवापततांतेषांकपीनामसिभिशशितैः ॥ 63 ॥
शिरांसिसहसाजह्रूराक्षसाभीमदर्शना ।
दशनैर्हतकर्णाश्चमुष्टिनिष्कीर्णमस्तकाः ॥ 64 ॥
शिलाप्रहारभग्नांगाविचेरुस्तत्रराक्षसाः ।
तथैवाप्यपरेतेषांकपीनामभिलक्षिता ॥ 65 ॥
प्रवीरानभितोजघ्नुर्घोररूपानिशाचराः ।
घ्नंतमन्यंजघानान्यःपातयंतमपातयत् ॥ 66 ॥
गर्हमाणंजगर्हेऽन्योदशंतमपरोऽदशत् ।
देहीत्यन्योददात्यन्योददामीत्यपरःपुनः ॥ 67 ॥
किंक्लेशयसितिष्ठेतितत्रान्योन्यंबभाषिरे ।
विप्रलंभितवस्त्रं च विमुक्तकवचायुधम् ॥ 68 ॥
समुद्यतमहाप्रासंयष्टिशूलासिसंकुलम् ।
प्रावर्ततमहारौद्रंयुद्धंवानररक्षसाम् ॥ 69 ॥
वानरांदशसप्तेतिराक्षसाजघ्नुराहवे ।
राक्षसांदशसप्तेतिवानराश्चाभ्यपातयन् ॥ 70 ॥
विस्रस्तकेशवसनंविध्वस्तकवचध्वजम् ।
बलंराक्षसमालंब्यवानराःपर्यवारयन् ॥ 71 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे पंचसप्ततितमस्सर्गः ॥