View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

1.59 बालकांड - एकोनषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ एकोनषष्टितमस्सर्गः ।

उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः ।
अब्रवीन्मधुरं वाक्यं साक्षाच्चंडालरूपिणम् ॥ 1 ॥

ऐक्ष्वाक स्वागतं वत्स जानामि त्वां सुधार्मिकम् ।
शरणं ते भविष्यामि मा भैषीर्नृपपुंगव ॥ 2 ॥

अहमामंत्रये सर्वान्महर्षीन्पुण्यकर्मणः ।
यज्ञसाह्यकरान् राजन् ततो यक्ष्यसि निर्वृतः ॥ 3 ॥

गुरुशापकृतं रूपं यदिदं त्वयि वर्तते ।
अनेन सह रूपेण सशरीरो गमिष्यसि ॥ 4 ॥

हस्तप्राप्तमहं मन्ये स्वर्गं तव नराधिप ।
यस्त्वं कौशिकमागम्य शरण्यं शरणागतः ॥ 5 ॥

एवमुक्त्वा महातेजाः पुत्रान् परमधार्मिकान् ।
व्यादिदेश महाप्राज्ञान् यज्ञसंभारकारणात् ॥ 6 ॥

सर्वान् शिष्यान् समाहूय वाक्यमेतदुवाच ह ।
सर्वानृषिगणान्वत्सा आनयध्वं ममाज्ञया ।
सशिष्यसुहृदश्चैव सर्त्विज स्सबहुश्रुतान् ॥ 7 ॥

यदन्यो वचनं ब्रूयान्मद्वाक्यबलचोदितः ।
तत्सर्वमखिलेनोक्तं ममाख्येयमनादृतम् ॥ 8 ॥

तस्य तद्वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञया ।
आजग्मुरथ देशेभ्य स्सर्वेभ्यो ब्रह्मवादिनः ॥ 9 ॥

ते च शिष्याः समागम्य मुनिं ज्वलिततेजसम् ।
ऊचुश्चवचनं सर्वे सर्वेषां ब्रह्मवादिनाम् ॥ 10 ॥

श्रुत्वा ते वचनं सर्वे समायांति द्विजातयः ।
सर्वदेशेषु चागच्छन् वर्जयित्वा महोदयम् ॥ 11 ॥

वासिष्ठं तच्छतं सर्वं क्रोधपर्याकुलाक्षरम् ।
यदाह वचनं सर्वं शृणु त्वं मुनिपुंगव ॥ 12 ॥

क्षत्रियो याजको यस्य चंडालस्य विशेषतः ।
कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः ॥ 13 ॥

ब्राह्मणा वा महात्मानो भुक्त्वा चंडालभोजनम् ।
कथं स्वर्गं गमिष्यंति विश्वामित्रेण पालिताः ॥ 14 ॥

एतद्वचननैष्ठुर्यमूचु स्संरक्तलोचनाः ।
वासिष्ठा मुनिशार्दूल सर्वे ते समहोदयाः ॥ 15 ॥

तेषां तद्वचनं श्रुत्वा सर्वेषां मुनिपुंगवः ।
क्रोधसंरक्तनयन स्सरोषमिदमब्रवीत् ॥ 16 ॥

ये दूषयंत्यदुष्टं मां तप उग्रं समास्थितम् ।
भस्मीभूता दुरात्मानो भविष्यंति न संशयः ॥ 17 ॥

अद्य ते कालपाशेन नीता वैवस्वतक्षयम् ।
सप्तजातिशतान्येव मृतपस्संतु सर्वशः ॥ 18 ॥

श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः ।
विकृताश्च विरूपाश्च लोकाननुचरंत्विमान् ॥ 19 ॥

महोदयस्तु दुर्बुद्धिर्मामदूष्यं ह्यदूषयत् ।
दूषित स्सर्वलोकेषु निषादत्वं गमिष्यति ॥ 20 ॥

प्राणातिपातनिरतो निरनुक्रोशतां गतः ।
दीर्घकालं मम क्रोधाद्दुर्गतिं वर्तयिष्यति ॥ 21 ॥

एतावदुक्त्वा वचनं विश्वामित्रो महातपाः ।
विरराम महातेजा ऋषिमध्ये महामुनिः ॥ 22 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे एकोनषष्टितमस्सर्गः ॥




Browse Related Categories: