View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

2.18 अयोध्याकांड - अष्टादश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ अष्टादशस्सर्गः ।

स ददर्शासने रामो निषण्णं पितरं शुभे ।
कैकेयीसहितं दीनं मुखेन परिशुष्यता ॥ 1 ॥

स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत् ।
ततो ववंदे चरणौ कैकेय्या स्सुसमाहितः ॥ 2 ॥

रामेत्युक्त्वा तु वचनं बाष्पपर्याकुलेक्षणः ।
शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम् ॥ 3 ॥

तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम् ।
रामोऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम् ॥ 4 ॥

इंद्रियैरप्रहृष्टैस्तं शोकसंतापकर्शितम् ।
निश्श्वसंतं महाराजं व्यथिताकुलचेतसम् ॥ 5 ॥

ऊर्मिमालिनमक्षोभ्यं क्षुभ्यंतमिव सागरम् ।
उपप्लुतमिवादित्यमुक्तानृतमृषिं यथा ॥ 6 ॥

अचिंत्यकल्पं हि पितुस्तं शोकमुपधारयन् ।
बभूव संरब्धतर स्समुद्र इव पर्वणि ॥ 7 ॥

चिंतयामास च तदा रामः पितृहिते रतः ।
किं स्विदद्यैव नृपतिर्न मां प्रत्यभिनंदति ॥ 8 ॥

अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति ।
तस्य मामद्य संप्रेक्ष्य किमायासः प्रवर्तते ॥ 9 ॥

स दीन इव शोकार्तो विषण्णवदनद्युतिः ।
कैकेयीमभिवाद्यैव रामो वचनमब्रवीत् ॥ 10 ॥

कच्चिन्मया नापराद्धमज्ञानाद्येन मे पिता ।
कुपितस्तन्ममाचक्ष्व त्वं चैवैनं प्रसादय ॥ 11 ॥

अप्रसन्नमनाः किन्नु सदा मां प्रति वत्सलः ।
विवर्णवदनो दीनो न हि मामभिभाषते ॥ 12 ॥

शरीरो मानसो वापि कच्चिदेनं न बाधते ।
संतापोवाऽभितापो वा दुर्लभं हि सदा सुखम् ॥ 13 ॥

कच्चिन्न किंचिद्भरते कुमारे प्रियदर्शने ।
शत्रुघ्ने वा महासत्त्वे मात्रूणां वा ममाशुभम् ॥ 14 ॥

अतोषयन्महाराजमकुर्वन्वा पितुर्वचः ।
मुहूर्तमपि नेच्छेयं जीवितुं कुपिते नृपे ॥ 15 ॥

यतोमूलं नरः पश्येत्प्रादुर्भावमिहात्मनः ।
कथं तस्मिन्नवर्तेत प्रत्यक्षे सति दैवते ॥ 16 ॥

कच्चित्ते परुषं किंचिदभिमानात्पतिता मम ।
उक्तो भवत्या कोपेन यत्रास्य लुलितं मनः ॥ 17 ॥

एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छतः ।
किं निमित्तमपूर्वोयं विकारो मनुजाधिपे ॥ 18 ॥

एवमुक्ता तु कैकेयी राघवेण महात्मना ।
उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः ॥ 19 ॥

न राजा कुपितो राम व्यसनं नास्य किंचन ।
किंचिन्मनोगतंत्वस्य त्वद्भयान्नाभिभाषते ॥ 20 ॥

प्रियं त्वामप्रियं वक्तुं वाणी नास्योपवर्तते ।
तदवश्यं त्वया कार्यं यदनेनाश्रुतं मम ॥ 21 ॥

एष मह्यं वरं दत्त्वा पुरा मामभिपूज्य च ।
स पश्चात्तप्यते राजा यथाऽन्यः प्राकृतस्तथा ॥ 22 ॥

अतिसृज्य ददानीति वरं मम विशांपतिः ।
स निरर्थं गतजले सेतुं बंधितुमिच्छति ॥ 23 ॥

धर्ममूलमिदं राम विदितं च सतामपि ।
तत्सत्यं न त्यजेद्राजा कुपितस्त्वत्कृते यथा ॥ 24 ॥

यदि तद्वक्ष्यते राजा शुभं वा यदि वाऽशुभम् ।
करिष्यसि ततस्सर्वमाख्यास्यामि पुनस्त्वहम् ॥ 25 ॥

यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते ।
ततोऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति ॥ 26 ॥

एतत्तु वचनं श्रुत्वा कैकेय्या समुदाहृतम् ।
उवाच व्यथितो रामस्तां देवीं नृपसन्निधौ ॥ 27 ॥

अहो धिङ्नार्हसे देवि वक्तुं मामीदृशं वचः ।
अहं हि वचनाद्राज्ञः पतेयमपि पावके ॥ 28 ॥

भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चार्णवे ।
नियुक्तो गुरुणा पित्रा नृपेण च हितेन च ॥ 29 ॥

तद्ब्रूहि वचनं देवि राज्ञो यदभिकांक्षितम् ।
करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते ॥ 30 ॥

तमार्जवसमायुक्तमनार्या सत्यवादिनम् ।
उवाच रामं कैकेयी वचनं भृशदारुणम् ॥ 31 ॥

पुरा दैवासुरे युद्धे पित्रा ते मम राघव ।
रक्षितेन वरौ दत्तौ सशल्येन महारणे ॥ 32 ॥

तत्र मे याचितो राजा भरतस्याभिषेचनम् ।
गमनं दंडकारण्ये तव चाद्यैव राघव ॥ 33 ॥

यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुमिच्छसि ।
आत्मानं च नरश्रेष्ठ मम वाक्यमिदं शृणु ॥ 34 ॥

सन्निदेशे पितुस्तिष्ठ यथा तेन प्रतिश्रुतम् ।
त्वयाऽरण्यं प्रवेष्टव्यं नव वर्षाणि पंच च ॥ 35 ॥

भरतस्त्वभिषिच्येत यदेतदभिषेचनम् ।
त्वदर्थे विहितं राज्ञा तेन सर्वेण राघव ॥ 36 ॥

सप्त सप्त च वर्षाणि दंडकारण्यमाश्रितः ।
अभिषेकमिमं त्यक्त्वा जटाजिनधरो वस ॥ 37 ॥

भरतः कोसलपुरे प्रशास्तु वसुधामिमाम् ।
नानारत्न समाकीर्णां सवाजिरथकुंजराम् ॥ 38 ॥

एतेन त्वां नरेंद्रोऽयं कारुण्येन समाप्लुतः ।
शोकसंक्लिष्ट वदनो न शक्नोति निरीक्षितुम् ॥ 39 ॥

एतत्कुरु नरेंद्रस्य वचनं रघुनंदन ।
सत्येन महता राम तारयस्व नरेश्वरम् ॥ 40 ॥

इतीव तस्यां परुषं वदंत्यां न चैव रामः प्रविवेश शोकम् ।
प्रविव्यथे चापि महानुभावो राजा तु पुत्रव्यसनाभितप्तः ॥ 41 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे अष्टादशस्सर्गः ॥




Browse Related Categories: