श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ सप्तपंचाशस्सर्गः ।
अकंपनवधंश्रुत्वाक्रुद्धोवैराक्षसेश्वरः ।
किंचिददीनमुखश्चापिसचिवांस्तानुदैक्षत ॥ 1 ॥
सतुध्यात्वामुहूर्तंतुमंत्रिभिस्संविचार्यच ।
ततस्तुरावणःपूर्वदिवसेराक्षसाधिपः ॥ 2 ॥
पुरींपरिययौलंकांसर्वगुल्मानवेक्षितुम् ।
तांराक्षसगणैर्गुप्तांगुल्मैर्बहुभिरावृताम् ॥ 3 ॥
ददर्शनगरींलंकांपताकाध्वजमालिनीम् ।
रुद्धांतुनगरींदृष्टवारावणोराक्षसेश्वरः ॥ 4 ॥
उवाचात्महितंकालेप्रहस्तंयुद्धकोविदम् ।
पुरस्योपनिविष्टस्यसहसापीडितस्यवा ॥ 5 ॥
नान्यंयुद्धात्प्रपश्यामिमोक्षंयुद्धविशारद ।
अहंवाकुंभकर्णोवात्वंवासेनापतिर्मम ॥ 6 ॥
इंद्रजिद्वानिकुंभोवावहेयुर्भारमीदृशम् ।
सत्वंबलमतश्शीघ्रमादायपरिगृह्यच ॥ 7 ॥
विजयायाभिनिर्याहियत्रसर्वेवनौकसः ।
निर्याणायादेवतेनूनंचपलाहरिवाहिनी ॥ 8 ॥
नर्दतांराक्षसेंद्राणांश्रुत्वानादंद्रविष्यति ।
चपलाह्यविनीताश्चचलचित्ताश्चवानराः ॥ 9 ॥
नसहिष्यंतितेनादंसिंहनादमिवद्विपाः ।
विद्रुतेचबलेतस्मिन् रामःसौमित्रिणासह ॥ 10 ॥
अवशस्तेनिरालंबःप्रहस्तवशमेष्यति ।
आपत्संशयिताश्रेयोनात्रनिस्संशयीकृता ॥ 11 ॥
प्रतिलोमानुलोमंवायद्वानोमन्यसेहितम् ।
रावणेनैवमुक्तस्तुप्रहस्तोवाहिनीपतिः ॥ 12 ॥
राक्षसेंद्रमुवाचेदमसुरेंद्रमिवोशना ।
राजन्मंत्रितपूर्वंनःकुशलैस्सहमंत्रिभिः ॥ 13 ॥
विवादश्चापिनोवृत्तस्समवेक्ष्यपरस्परम् ।
प्रदानेनतुसीतायाःश्रेयोव्यवसितंमया ॥ 14 ॥
अप्रदानेपुनर्युद्धंदृष्टमेत्तथैवनः ।
सोऽहंदानैश्चमानैश्चसततंपूजितस्त्वया ॥ 15 ॥
सांत्वैश्चविविधैःकालेकिंनकुर्यांहितंतव ।
नहिमेजीवितंरक्ष्यंपुत्रदारधनानिच ॥ 16 ॥
त्वंपश्यमांजुहूषंतंत्वदर्थेजीवितंयुधि ।
एवमुक्त्वातुभर्तारंरावणंवाहिनीपतिः ॥ 17 ॥
उवाचेदंबलाध्यक्षान्प्रहस्तःपुरतःस्थितान् ।
मेशीघ्रंराक्षसानांमहाद्बलम् ॥ 18 ॥
मद्भाणाब्दावेगेनहतानांशनिचरणाजिरे ।
अद्यहृष्यंतुमांसादाःपक्षिणःकाननौकसाम् ॥ 19 ॥
इत्युक्तास्तेप्रहस्तेनबलाध्यक्षाः कृतत्वराः ।
बलमुद्योजयामासुस्तस्मिन्राक्षसमंदिरे ॥ 20 ॥
साबभूवमुहूर्तेननिग्मर्नानाविधायुधैः ।
लंकाराक्षसवीरैस्तैर्गजैरिवसमाकुला ॥ 21 ॥
हुताशनंतर्पयतांब्राह्मणांश्चनमस्यताम् ।
आज्यगंधप्रतिवहःसुरभिर्मारुतोववौ ॥ 22 ॥
स्रजश्चविविधाकाराजगृहुस्त्वभिमंत्रिताः ।
संग्रामसज्जाःसम्हृष्टाधरायन्राक्षसास्तदा ॥ 23 ॥
सधनुष्काःकवचिनोवेगादाप्लुत्यराक्षसाः ।
रावणंप्रेक्ष्यराजानंप्रहस्तंपर्यवारयन् ॥ 24 ॥
अथामंत्ऱ्यतुराजानंभेरीमाहत्यभैरवाम् ।
आरुरोहरथंयुक्तःप्रहस्तस्सज्जकल्पितम् ॥ 25 ॥
हयैर्महाजवैर्युक्तंसम्यक्सूतसुसंयतम् ।
महाजलदनिर्घोषंसाक्षाच्चंद्रार्कभास्वरम् ॥ 26 ॥
उरगध्वजदुर्धर्षंसुवरूथंस्ववस्करम् ।
सुवर्णजालसंयुक्तंप्रहसंतमिवश्रिया ॥ 27 ॥
ततस्तंरथमास्थायरावणार्पितशासनः ।
लंकायानिर्ययौतूर्णंबलेनमहतावृतः ॥ 28 ॥
ततोदुंधुभिनिर्घोषःपर्जन्यनिनदोपमः ।
वादित्राणांचनिनदःपूरयन्निवमेदिनीम् ॥ 29 ॥
शुश्रुवेशंखशब्दश्चप्रयातेवाहिनीपतौ ।
निनदंतस्स्वरान्घोरान्राक्षसाजग्मुरग्रतः ॥ 30 ॥
भीमरूपामहाकायाःप्रहस्तस्यपुरस्सराः ।
नरांतकःकुंभहनुर्महानादस्समुन्नतः ॥ 31 ॥
प्रहस्तसचिवाह्येतेनिर्ययुःपरिवार्यतम् ।
व्यूढेनेवसुघोरेणपूर्वद्वारात्सनिर्ययौ ॥ 32 ॥
गजयूथनिकाशेनबलेनमहतावृतः ।
सागरप्रतिमौघेनवृतस्तेनबलेनसः ॥ 33 ॥
प्रहस्तोनिर्ययौक्रुद्धःकालांतकयमोपमः ।
तस्यनिर्याणघोषेणराक्षसानांचनर्दताम् ॥ 34 ॥
लंकायांसर्वभूतानिविनेदुर्विकृतैस्स्वरैः ।
व्यभ्रमाकाशमाविश्यमांसशोणितभोजनाः ॥ 35 ॥
मंडलान्यपसव्यानिखगाश्चक्रूरथंप्रति ।
सम्नत्यःपावकज्वालाःशिवाघोराववाशिरे ॥ 36 ॥
अंतरिक्षात्पपातोल्कावायुश्चपरुषंवनौ ।
अन्योन्यमभिसंरब्धाग्रहाश्चनचकाशिरे ॥ 37 ॥
मेघाश्चखरनिर्घोषारथस्योपरिरक्षसः ।
ववृषंरुधिरंचास्यसिषिचुश्चपुरस्सरान् ॥ 38 ॥
केतुर्मूर्धनिगृध्रोऽस्यनिलीनोदक्षिणामुखः ।
तुदन्नुभयतःपार्श्वंसमग्रामहरत्प्रभाम् ॥ 39 ॥
सारथेर्भहुशश्चास्यसंग्राममवगाहतः ।
प्रतोदोन्यपतद्धस्तात्सूतस्यहयसादिनः ॥ 40 ॥
निर्याणश्रीश्चयाऽस्यासीद्भास्वरावसुदुर्लभाः ।
साननाशमुहूर्तेनसमेचस्खलिताहयाः ॥ 41 ॥
प्रहस्तंत्वभिनिर्यांतंप्रख्यातबलपौरुषम् ।
युधिनानाप्रहरणाकपिसेनाऽभ्यवर्तत ॥ 42 ॥
अथघोषस्सुतुमुलोहरीणांसमजायत ।
वृक्षानारुजतांचैवगुर्वीरागृह्णतांशिलाः ॥ 43 ॥
नदतांराक्षसानांचवानराणांचगर्जताम् ।
उभेप्रमुदितेसैन्येरक्षोगणवनौकसाम् ॥ 44 ॥
वेगितानांसमर्थानामन्योन्यवधकाङ् क्षिणाम् ।
परस्परंचाह्वयतांनिनाद्शूयतेमहान् ॥ 45 ॥
ततःप्रहस्तःकपिराजवाहिनीमभिप्रतस्थेविजयायदुर्मतिः ।
विवृद्धवेगंश्चविवेशतांचमूंयथामुमूर्षुश्शलभोविभावसुम् ॥ 46 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे सप्तपंचाशस्सर्गः ॥