View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

2.67 अयोध्याकांड - सप्तषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ सप्तषष्टितमस्सर्गः ।

आक्रंदितनिरानंदा सास्रकंठजनाकुला ।
अयोध्यायामवतता सा व्यतीयाय शर्वरी ॥ 1 ॥

व्यतीतायां तु शर्वर्यामादित्यस्योदये ततः ।
समेत्य राजकर्तारः सभामीयुर्द्विजातयः ॥ 2 ॥

मार्कंडेयोऽथ मौद्गल्यो वामदेवश्च काश्यपः ।
कात्यायनो गौतमश्च जाबालिश्च महायशाः ॥ 3 ॥

एते द्विजा स्सहामात्यैः पृथग्वा च मुदीरयन् ।
वसिष्ठमेवाभिमुखाः श्रेष्ठं राजपुरोहितम् ॥ 4 ॥

अतीता शर्वरी दुःखं या नो वर्षशतोपमा ।
अस्मिन्पंचत्वमापन्ने पुत्रशोकेन पार्थिवे ॥ 5 ॥

स्वर्गतश्च महाराजो रामश्चारण्यमाश्रितः ।
लक्ष्मणश्चापि तेजस्वी रामेणैव गतस्सह ॥ 6 ॥

उभौ भरतशत्रुघ्नौ केकयेषु परंतपौ ।
पुरे राजगृहे रम्ये मातामहनिवेशने ॥ 7 ॥

इक्ष्वाकूणामिहाद्यैव कश्चिद्राजा विधीयताम् ।
अराजकं हि नो राष्ट्रं विनाशं समवाप्नुयात् ॥ 8 ॥

नाराजके जनपदे विद्युन्माली महास्वनः ।
अभिवर्षति पर्जन्यो महीं दिव्येन वारिणा ॥ 9 ॥

नाराजके जनपदे बीजमुष्टिः प्रकीर्यते ।
नाराजके पितुः पुत्रो भार्या वा वर्तते वशे ॥ 10 ॥

नाराजके धनं चास्ति नास्ति भार्या प्यराजके ।
इद मत्याहितं चान्यत्कुतस्सत्य मराजके ॥ 11 ॥

नाराजके जनपदे कारयंति सभां नराः ।
उद्यानानि च रम्याणि हृष्टाः पुण्यगृहाणि च ॥ 12 ॥

नाराजके जनपदे यज्ञशीला द्विजातयः ।
सत्राण्यन्वासते दांता ब्राह्मणा स्संशितव्रताः ॥ 13 ॥

नाराजके जनपदे महायज्ञेषु यज्वनः ।
ब्राह्मणा वसुसंपन्ना विसृजंत्याप्तदक्षिणाः ॥ 14 ॥

नाराजके जनपदे प्रभूतनटनर्तकाः ।
उत्सवाश्च समाजाश्च वर्धंते राष्ट्रवर्धनाः ॥ 15 ॥

नाराजके जनपदे सिद्धार्था व्यवहारिणः ।
कथाभिरनुरज्यंते कथाशीलाः कथाप्रियैः ॥ 16 ॥

नाराजके जनपदे उद्यानानि समागताः ।
सायाह्ने क्रीडितुं यांति कुमार्यो हेमभूषिताः ॥ 17 ॥

नाराजके जनपदे वाहनै शशीघ्रगामिभिः ।
नरा निर्यांत्यरण्यानि नारीभिस्सह कामिनः ॥ 18 ॥

नाराजके जनपदे धनवंतस्सुरक्षिताः ।
शेरते विवृतद्वाराः कृषिगोरक्षजीविनः ॥ 19 ॥

नाराजके जनपदे बद्धघंटाविषाणिनः ।
अटंति राजमार्गेषु कुंजरा षष्टिहायनाः ॥ 20 ॥

नाराजके जनपदे शरान्संततमस्यताम् ।
श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने ॥ 21 ॥

नाराजके जनपदे वणिजो दूरगामिनः ।
गच्छंति क्षेममध्वानं बहुपण्यसमाचिताः ॥ 22 ॥

नाराजके जनपदे चरत्येकचरो वशी ।
भावयन्नात्मनाऽत्मानं यत्र सायंगृहो मुनिः ॥ 23 ॥

नाराजके जनपदे योगक्षेमं प्रवर्तते ।
नचाप्यराजके सेना शत्रून्विषहते युधि ॥ 24 ॥

नाराजके जनपदे हृष्टैः परमवाजिभिः ।
नरास्संयांति सहसा रथैश्च परिमंडिताः ॥ 25 ॥

नाराजके जनपदे नराश्शास्त्रविशारदाः ।
संवदंतोऽवतिष्ठंते वनेषूपवनेषु च ॥ 26 ॥

नाराजके जनपदे माल्यमोदकदक्षिणाः ।
देवताभ्यर्चनार्थाय कल्प्यंते नियतैर्जनैः ॥ 27 ॥

नाराजके जनपदे चंदनागरुरूषिताः ।
राजपुत्रा विराजंते वसंत इव शाखिनः ॥ 28 ॥

यथा ह्यनुदका नद्यः यथा वाऽप्यतृणं वनम् ।
अगोपाला यथा गावस्तथा राष्ट्रमराजकम् ॥ 29 ॥

नाराजके जनपदे स्वकं भवति कस्यचित् ।
मत्स्या इव नरा नित्यं भक्षयंति परस्परम् ॥ 30 ॥

ये हि संभिन्नमर्यादा नास्तिकाश्छिन्नसंशयाः ।
तेऽपि भावाय कल्पंते राजदंडनिपीडिताः ॥ 31 ॥

यथा दृष्टि श्शरीरस्य नित्यमेव प्रवर्तते ।
तथा नरेंद्रो राष्ट्रस्य प्रभवस्सत्यधर्मयोः ॥ 32 ॥

राजा सत्यं च धर्मश्च राजा कुलवतां कुलम् ।
राजा माता पिता चैव राजा हितकरो नृणाम् ॥ 33 ॥

यमो वैश्रवण श्शक्रः वरुणश्च महाबलः ।
विशेष्यंते नरेंद्रेण वृत्तेन महता ततः ॥ 34 ॥

अहो तम इवेदं स्यान्नप्रज्ञायेत किंचन ।
राजा चे न्न भवे ल्लोके विभज साध्वसाधुनी ॥ 35 ॥

जीवत्यपि महाराजे तवैव वचनं वयम् ।
नातिक्रमामहे सर्वे वेलां प्राप्येव सागरः ॥ 36 ॥

स न स्समीक्ष्य द्विजवर्य वृत्तं नृपं विना राज्यमरण्यभूतम् ।
कुमारमिक्ष्वाकुसुतं वदान्यं त्वमेव राजानमिहाभिषिंच ॥ 37 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे सप्तषष्टितमस्सर्गः ॥




Browse Related Categories: