View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

6.110 युद्धकांड - दशाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ दशाधिकशततमस्सर्गः ।

तौतथायुध्यमानौतुसमरेरामरावणौ ।
ददृशुस्सर्वभूतानिविस्मितेनांतरात्मना ॥ 1 ॥

अर्धयंतौतुसमरेतयोस्तौस्यंदनोत्तमौ ।
परस्परमभिक्रुद्धौपरस्परमभिद्रुतौ ॥ 2 ॥

परस्परवधेयुक्तौघोररूपौबभूवतुः ।
मंडलानि च वीधीश्चगतप्रत्यागतानि च ॥ 3 ॥

दर्शयंतौबहुविधांसूतसामर्थ्यजांगतिम् ।
अर्धयन्रावणंरामोराघवंचापिरावणः ॥ 4 ॥

गतिवेगंसमापन्नौप्रतिवेगप्रवर्तने ।
क्षिपतोश्शरजालानितयोस्तौस्यंदनोत्तमौ ॥ 5 ॥

चेरतुस्सम्युगमहीं सासारौ जलदाविव ।
दर्शयित्वातदातौतुगतिंबहुविधांरणे ॥ 6 ॥

परस्परस्याभिमुखौपुनरेव च तस्थतुः ।
धुरंधुरेणरथयोर्वक्त्रंवक्त्रेणवाजिनाम् ॥ 7 ॥

पताकाश्चपताकाभिस्समीयुस्स्थितयोस्तदा ।
रावणस्यततोरामोधनुर्मुस्तैश्शितैश्शरैः ॥ 8 ॥

चतुर्भिश्चतुरोदीप्तान्हयान्प्रत्यपसर्पयत् ।
सक्रोधवशमापन्नोहयानामपसर्पणे ॥ 9 ॥

मुमोचनिशितान्बाणान्राघवायदशाननः ।
सोतिविद्धोबलवतादशग्रीवेणराघवः ॥ 10 ॥

जगाम न विकारं च न चापिव्यथितोऽभवत् ।
चिक्षेप च पुनर्भाणान्वज्रपातसमस्वनान् ॥ 11 ॥

सारथिंवज्रहस्तस्यसमुद्दिश्यदशाननः ।
मातलेस्तुमहावेगाश्शरीरेपतिताश्शराः ॥ 12 ॥

न सूक्ष्ममपिसम्मोहंव्यथांवाप्रददुर्युधि ।
तयाधर्षणयाक्रुद्धोमातलेर्नतथात्मनः ॥ 13 ॥

चकारशरजालेनराघवोविमुखंरिपुम् ।
विंशतिंत्रिंशतिंषष्टिंशतशोऽथसहस्रशः ॥ 14 ॥

मुमोचराघवोवीरस्सायकान्स्यंदनेरिपोः ।
रावणोऽपिततःक्रुद्धोरथस्थराक्षसेश्वरः ॥ 15 ॥

गदामुसलवर्षेणरामंप्रत्यर्दयद्रणे ।
तत्प्रवृतंपुनर्युद्धंतुमुलंरोमहर्षणम् ॥ 16 ॥

गदानांमुसलानां च परिघाणांचनिस्स्वनैः ।
शराणांपुंखवातैश्चक्षुभितास्सप्तसागराः ॥ 17 ॥

क्षुब्दानांसागराणां च पातालतलवासिनः ।
व्यथितादानवाःसर्वेपन्नगाश्चसहस्रशः ॥ 18 ॥

चकंपेमेदिनीकृत्स्नासशैलवनकानना ।
भास्करोनिष्प्रभश्चासीन्नवनौचापिमारुतः ॥ 19 ॥

ततोदेवास्सगंधर्वास्सिद्धाश्चपरमर्षयः ।
चिंतामापेदिरेसर्वेसकिन्नरमहोरगाः ॥ 20 ॥

स्वस्तिगोब्राह्मणेभ्योऽस्तुलोकास्तिष्ठंतुशाश्वताः ।
जयतांराघयसंख्येरावणंराक्षसेश्वरम् ॥ 21 ॥

एवंजपंतोऽपश्यंस्तेदेवास्सर्षिगणास्तदा ।
रामरावणयोर्युद्धंसुघोरंरोमहर्षणम् ॥ 22 ॥

गंधर्वाप्सरसांसंघादृष्टवायुद्धमनूपमम् ।
गगनंगगनाकारंसागरस्सागरोपमः ॥ 23 ॥

रामरावणयोर्युद्धंरामरावणयोरिव ।
एवंब्रुवंतोददृशुस्तद्युद्धंरामरावणम् ॥ 24 ॥

ततःक्रोधान्महाबासूरघूणांकीर्तिवर्धनः ।
संधायधनुषारामश्शरमाशीविषोपमम् ॥ 25 ॥

रावणस्यशिरोऽच्छिंदच्छ्रीमज्ज्वलितकुंडलम् ।
तछचिरःपतितंभूमौदृष्टंइलोकैस्त्रिभिस्तदा ॥ 26 ॥

तस्यैवसदृशंचान्यद्रावणस्योत्थितंशिरः ।
तत्क्षिप्तंक्षिप्रहस्तेनरामेणक्षिप्रकारिणा ॥ 27 ॥

द्वितीयंरावणशिरश्छिन्नंसम्यतिसायकैः ।
छिन्नमात्रं च तच्चीर्षंपुनरेवप्रदृश्यते ॥ 28 ॥

तदप्यशनिसंकाशैश्छिन्नंरामस्यसायकैः ।
एवमेवशतंछिन्नंशिरसांतुल्यवर्चसाम् ॥ 29 ॥

न चैवरावणस्यांतोदृश्यतेजीवितक्षये ।
ततस्सर्वास्त्रविद्वीरःकौसल्यानंदवर्धनः ॥ 30 ॥

मार्गणैर्बहुभिर्युक्तश्चिंतयामासराघवः ।
मारीचोनिहतोयैस्तुखरोयैस्तुसदूषणः ॥ 31 ॥

क्रौंचावनेविराधस्तुकबंधोदंडकेवने ।
यैस्सालागिरयोभग्नावाली च क्षुभितोऽंबुधिः ॥ 32 ॥

त इमेसायकास्सर्वेयुद्धेप्रात्ययिकामम किनुतत्कारणंयेनरावणेमंदतेजसः ॥ 33 ॥

इतिचिंतापरश्चासीदप्रमत्तश्चसम्युगे ।
ववर्षशरवर्षाणीराघवोरावणोरसि ॥ 34 ॥

रावणोऽपिततःक्रुद्धोरथस्थोराक्षसेश्वरः ।
गदामुसलवर्षेणरामंप्रत्यर्दयद्रणे ॥ 35 ॥

तत्प्रवृत्तंमहद्युद्धंतुमुलंरोमहर्षणम् ।
अंतरिक्षे च भूमौ च पुनश्चगिरिमूर्धनि ॥ 36 ॥

देवदानवयक्षाणांपिशाचोरगरक्षसाम् ।
पश्यतांतन्महायुद्धंसप्तरात्रमवर्तत ॥ 37 ॥

नैव रात्रिं न दिवसंमुहूर्तं न च क्षणम् ।
रामरावणयोर्युद्धंविराममुपगच्छति ॥ 38 ॥

दशरथसुतराक्षसेंद्रयोर्जयमनवेक्ष्यरणे स राघवस्य ।
सुरवररथसारथिर्महात्मारणरतराममुवाचवाक्यमाशु ॥ 39 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे दशाधिकशततमस्सर्गः ॥




Browse Related Categories: