श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ पंचपंचाशस्सर्गः ।
लंकां समस्तां संदीप्य लांगूलाग्निं महाबलः ।
निर्वापयामास तदा समुद्रे हरिसत्तमः ।
संदीप्यमानां विध्वस्तां त्रस्तरक्षोगणां पुरीम् ।
आवेक्ष्य हनुमान् लंकां चिंतयामास वानरः ॥ 1 ॥
तस्याभूत्सुमहांस्त्रासः कुत्सा चात्मन्यजायत ।
लंकां प्रदहता कर्म किंस्वित्कृतमिदं मया ॥ 2 ॥
धन्यास्ते पुरुषश्रेष्ठा ये बुद्ध्या कोपमुत्थितम् ।
निरुंधंति महात्मानो दीप्तमग्निमिवांभसा ॥ 3 ॥
क्रुद्धः पापं न कुर्यात्कः क्रुद्धो हन्याद्गुरूनपि ।
क्रुद्धः परुषया वाचा नरस्साधूनधिक्षिपेत् ॥ 4 ॥
वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचित् ।
नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित् ॥ 5 ॥
यस्समुत्पतितं क्रोधं क्षमयैव निरस्यति ।
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥ 6 ॥
धिगस्तु मां सुदुर्बुद्धिं निर्लज्जं पापकृत्तमम् ।
अचिंतयित्वा तां सीतामग्निदं स्वामिघातुकम् ॥ 7 ॥
यदि दग्धा त्वियं लंका नूनमार्याऽपि जानकी ।
दग्धा तेन मया भर्तुर्हितं कार्यमजानता ॥ 8 ॥
यदर्थमयमारंभस्तत्कार्यमवसादितम् ।
मया हि दहता लंकां न सीता परिरक्षिता ॥ 9 ॥
ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः ।
तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः ॥ 10 ॥
विनष्टा जानकी नूनं न ह्यदग्धः प्रदृश्यते ।
लंकायां कश्चिदुद्धेशस्सर्वा भस्मीकृता पुरी ॥ 11 ॥
यदि तद्विहतं कार्यं मम प्रज्ञाविपर्ययात् ।
इहैव प्राणसंन्यासो ममापि ह्यद्य रोचते ॥ 12 ॥
किमग्नौ निपताम्यद्य आहोस्विद्बडबामुखे ।
शरीरमाहो सत्त्वानां दद्मि सागरवासिनाम् ॥ 13 ॥
कथं हि जीवता शक्यो मया द्रष्टुं हरीश्वरः ।
तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना ॥ 14 ॥
मया खलु तदेवेदं रोषदोषात्प्रदर्शितम् ।
प्रथितं त्रिषु लोकेषु कपित्वमनवस्थितम् ॥ 15 ॥
धिगस्तु राजसं भावमनीशमनवस्थितम् ।
ईश्वरेणापि यद्रागान्मया सीता न रक्षिता ॥ 16 ॥
विनष्टायां तु सीतायां तावुभौ विनशिष्यतः ।
तयोर्विनाशे सुग्रीवः सबंधुर्विनशिष्यति ॥ 17 ॥
एतदेव वचश्श्रुत्वा भरतो भ्रातृवत्सलः ।
धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम् ॥ 18 ॥
इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमसंशयम् ।
भविष्यंति प्रजास्सर्वाश्शोकसंतापपीडिताः ॥ 19 ॥
तदहं भाग्यरहितो लुप्तधर्मार्थसंग्रहः ॥ 20 ॥
रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः ।
इति चिंतयतस्तस्य निमित्तान्युपपेदिरे ।
पूर्वमप्युपलब्धानि साक्षात्पुनरचिंतयत् ॥ 21 ॥
अथवा चारुसर्वांगी रक्षिता स्वेन तेजसा ।
न नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते ॥ 22 ॥
न हि धर्मात्मनस्तस्य भार्याममिततेजसः ।
स्वचारित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः ॥ 23 ॥
नूनं रामप्रभावेण वैदेह्यास्सुकृतेन च ।
यन्मां दहनकर्मायं नादहद्धव्यवाहनः ॥ 24 ॥
त्रयाणां भरतादीनां भ्रात्रूणां देवता च या ।
रामस्य च मनः कांता सा कथं विनशिष्यति ॥ 25 ॥
यद्वा दहनकर्मायं सर्वत्र प्रभुरव्ययः ।
न मे दहति लांगूलं कथमार्यां प्रधक्ष्यति ॥ 26 ॥
पुनश्चाचिंतयत्तत्र हनुमान्विस्मितस्तदा ।
हिरण्यनाभस्य गिरेर्जलमध्ये प्रदर्शनम् ॥ 27 ॥
तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि ।
अपि सा निर्दहेदग्निं न तामग्निः प्रधक्ष्यति ॥ 28 ॥
स तथा चिंतयंस्तत्र देव्या धर्मपरिग्रहम् ।
शुश्राव हनुमान्वाक्यं चारणानां महात्मनाम् ॥ 29 ॥
अहो खलु कृतं कर्म दुष्करं हि हनूमता ।
अग्निं विसृजताऽभीक्ष्णं भीमं राक्षसवेश्मनि ॥ 30 ॥
प्रपलायितरक्षः स्त्रीबालवृद्धसमाकुला ।
जनकोलाहलाध्माता क्रंदंतीवाद्रिकंदरैः ॥ 31 ॥
दग्धेयं नगरी सर्वा साट्टप्राकारतोरणा ।
जानकी न च दग्धेति विस्मयोऽद्भुत एव नः ॥ 32 ॥
स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः ।
ऋषिवाक्यैश्च हनुमानभवत्प्रीतमानसः ॥ 33 ॥
ततः कपिः प्राप्तमनोरथार्थस्तामक्षतां राजसुतां विदित्वा ।
प्रत्यक्षतस्तां पुनरेव दृष्टवा प्रतिप्रयाणाय मतिं चकार ॥ 34 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे पंचपंचाशस्सर्गः ॥