View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

3.33 अरण्यकांड - त्रयस्त्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ त्रयस्त्रिंशस्सर्गः ।

ततः शूर्पणखा दीना रावणं लोकरावणम् ।
अमात्यमध्ये संक्रुद्धा परुषं वाक्यमब्रवीत् ॥ 1 ॥

प्रमत्तः कामभोगेषु स्वैरवृत्तो निरंकुशः ।
समुत्पन्नं भयं घोरं बोद्धव्यं नावबुध्यसे ॥ 2 ॥

सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम् ।
लुब्धं न बहुमन्यंते श्मशानाग्निमिव प्रजाः ॥ 3 ॥

स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः ।
स तु वै सह राज्येन तैश्च कार्यैर्विनश्यति ॥ 4 ॥

अयुक्तचारं दुर्दर्शमस्वाधीनं नराधिपम् ।
वर्जयंति नरा दूरान्नदीपंकामिव द्विपाः ॥ 5 ॥

ये न रक्षंति विषयमस्वाधीना नराधिपाः ।
ते न वृद्ध्या प्रकाशंते गिरयस्सागरे यथा ॥ 6 ॥

आत्मवद्भिर्विगृह्य त्वं देवगंधर्वदानवैः ।
अयुक्तचारश्चपलः कथं राजा भविष्यसि ॥ 7 ॥

त्वंतु बालस्वभावश्च बुद्धिहीनश्च राक्षस ।
ज्ञातव्यंतु न जानीषे कथं राजा भविष्यसि ॥ 8 ॥

येषां चारश्च कोशश्च नयश्च जयतां वर ।
अस्वाधीना नरेंद्राणां प्राकृतैस्ते जनैस्समाः ॥ 9 ॥

यस्मात्पश्यंति दूरस्थान् सर्वानर्थान्नराधिपाः ।
चारेण तस्मादुच्यंते राजानो दीर्घचक्षुषः ॥ 10 ॥

अयुक्तचारं मन्ये त्वां प्राकृतैस्सचिवैर्वृतम् ।
स्वजनं तु जनस्थाने हतं यो नावबुद्ध्यसे ॥ 11 ॥

चतुर्दश सहस्राणि रक्षसां क्रूरकर्मणाम् ।
हतान्येकेन रामेण खरश्च सहदूषणः ॥ 12 ॥

ऋषीणामभयं दत्तं कृतक्षेमाश्च दंडकाः ।
धर्षितं च जनस्थानं रामेणाक्लिष्टकर्मणा ॥ 13 ॥

त्वंतु लुब्दः प्रमत्तश्च पराधीनश्च रावण ।
विषये स्वे समुत्पन्नं भयं यो नावबुध्यसे ॥ 14 ॥

तीक्ष्णमल्पप्रदातारं प्रमत्तं गर्वितं शठम् ।
व्यसने सर्वभूतानि नाभिधावंति पार्थिवम् ॥ 15 ॥

अतिमानिनमग्राह्यमात्मसंभावितं नरम् ।
क्रोधिनं व्यसने हंति स्वजनोऽपि महीपतिम् ॥ 16 ॥

नानुतिष्ठति कार्याणि भयेषु न बिभेति च ।
क्षिप्रं राज्याच्युतो दीनस्तृणैस्तुल्यो भविष्यति ॥ 17 ॥

शुष्कैः काष्ठैर्भवेत्कार्यं लोष्टैरपि च पांसुभिः ।
न तु स्थानात्परिभ्रष्टैः कार्यं स्याद्वसुधाधिपैः ॥ 18 ॥

अपभुक्तं यथा वासस्स्रजो वा मृदिता यथा ।
एवं राज्यात्परिभ्रष्टस्समर्थोऽपि निरर्थकः ॥ 19 ॥

अप्रमत्तश्च यो राजा सर्वज्ञो विजितेंद्रियः ।
कृतज्ञो धर्मशीलश्च स राजा तिष्ठते चिरम् ॥ 20 ॥

नयनाभ्यां प्रसुप्तोऽपि जागर्ति नयचक्षुषा ।
त्यक्तक्रोधप्रमादश्च स राजा पूज्यते जनैः ॥ 21 ॥

त्वं तु रावण दुर्बुद्धिर्गुणैरेतैर्विवर्जितः ।
यस्य तेऽविदितश्चारै रक्षसां सुमहान्वधः ॥ 22 ॥

परावमंता विषयेषु संगतो न देशकालप्रविभागतत्ववित् ।
अयुक्तबुद्धिर्गुणदोषनिश्चये विपन्नराज्यो नचिराद्विपत्स्यसे ॥ 23 ॥

इति स्वदोषान् परिकीर्तितांस्तया समीक्ष्य बुद्ध्या क्षणदाचरेश्वरः ।
धनेन दर्पेण बलेन चान्वितो विचिंतयामास चिरं स रावणः ॥ 24 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे त्रयस्त्रिंशस्सर्गः ॥




Browse Related Categories: