View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

2.69 अयोध्याकांड - एकोनसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ एकोनसप्ततितमस्सर्गः ।

यामेव रात्रिं ते दूताः प्रविशंति स्म तां पुरीम् ।
भरतेनापि तां रात्रिं स्वप्नो दृष्टोऽयमप्रियः ॥ 1 ॥

व्युष्टामेव तु तां रात्रिं दृष्ट्वा तं स्वप्नमप्रियम् ।
पुत्रो राजाधिराजस्य सुभृशं पर्यतप्यत ॥ 2 ॥

तप्यमानं समाज्ञाय वयस्याः प्रियवादिनः ।
आयासं हि विनेष्यंत स्सभायां चक्रिरे कथाः ॥ 3 ॥

वादयंति तथा शांतिं लास यंत्यपि चापरे ।
नाटकान्यपरे प्राहुर्हास्यानि विविधानि च ॥ 4 ॥

स तैर्महात्मा भरतस्सखिभिः प्रियवादिभिः ।
गोष्ठीहास्यानि कुर्वद्भिर्न प्राहृष्यत राघवः ॥ 5 ॥

तमब्रवीत्प्रियसखो भरतं सखिभिर्वृतम् ।
सुहृद्भिः पर्युपासीनः किं सखे नानुमोदसे ॥ 6 ॥

एवं ब्रुवाणं सुहृदं भरतः प्रत्युवाच ह ।
श्रुणु त्वं यन्निमित्तं मे दैन्यमेतदुपागतम् ॥ 7 ॥

स्वप्ने पितरमद्राक्षं मलिनं मुक्त मूर्धजम् ।
पतंतमद्रिशिखरात्कलुषे गोमयह्रदे ॥ 8 ॥

प्लवमानश्च मे दृष्टस्स तस्मिन्गोमयह्रदे ।
पिबन्नंजलिना तैलं हसन्नपि मुहुर्मुहुः ॥ 9 ॥

ततस्तिलौदनं भुक्त्वा पुनः पुनरधश्शिराः ।
तैलेनाभ्यक्तसर्वांगः तैलमेवान्वगाहत ॥ 10 ॥

स्वप्नेऽपि सागरं शुष्कं चंद्रं च पतितं भवि ।
उपरुद्धां च जगतीं तमसेव समावृताम् ॥ 11 ॥

औपवाह्यस्य नागस्य विषाणं शकलीकृतम् ।
सहसाचापि संशांतं ज्वलितं जातवेदसम् ॥ 12 ॥

अवतीर्णां च पृथिवीं शुष्कां श्च विविधान् द्रुमान् ।
अहं पश्यामि विध्वस्तान् सधूमांश्चापि पर्वतान् ॥ 13 ॥

पीठे कार्ष्णायसे चैनं निषण्णं कृष्णवाससम् ।
प्रहसंति स्म राजानं प्रमदाः कृष्णपिंगलाः ॥ 14 ॥

त्वरमाणश्च धर्मात्मा रक्तमाल्यानुलेपनः ।
रथेन खरयुक्तेन प्रयातो दक्षिणामुखः ॥ 15 ॥

प्रहसंतीव राजानं प्रमदा रक्तवासिनी ।
प्रकर्षंती मया दृष्टा राक्षसी विकृतानना ॥ 16 ॥

एवमेतन्मया दृष्टमिमां रात्रिं भयावहम् ।
अहं रामोऽथवा राजा लक्ष्मणो वा मरिष्यति ॥ 17 ॥

नरो यानेन य स्स्वप्ने स्वरयुक्तेन याति हि ।
अचिरात्तस्य धूमाग्रं चितायां संप्रदृश्यते ॥ 18 ॥

एतन्निमित्तं दीनोऽहं तन्नवः प्रतिपूजये ।
शुष्यतीव च मे कंठः न स्वस्थमिव मे मनः ॥ 19 ॥

न पश्यामि भयस्थानं भयं चैवोपधारये भ्रष्टश्च स्वरयोगो मे छाया चोपहता मम ।
जुगुप्सन्निव चाऽत्मानं न पश्यमि च कारणम् ॥ 20 ॥

इमां च दुस्स्वप्नगतिं निशाम्यतामनेकरूपामवितर्कितां पुरा ।
भयं महत्तद्धृदयान्नयाति मे विचिंत्य राजानमचिंतदर्शनम् ॥ 21 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे एकोनसप्ततितमस्सर्गः ॥




Browse Related Categories: