View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

2.2 अयोध्याकांड - द्वितीय सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ द्वितीयस्सर्गः ।

ततः परिषदं सर्वामामंत्र्य वसुधाधिपः ।
हितमुद्धर्षणं चैवमुवाच प्रथितं वचः ॥ 1 ॥

दुंदुभिस्वनकल्पेन गंभीरेणानुनादिना ।
स्वरेण महता राजा जीमूत इव नादयन् ॥ 2 ॥

राजलक्षणयुक्तेन कांतेनानुपमेन च ।
उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान् ॥ 3 ॥

विदितं भवतामेतद्यथा मे राज्यमुत्तमम् ।
पूर्वकैर्मम राजेंद्रैस्सुतवत्परिपालितम् ॥ 4 ॥

सोऽहमिक्ष्वाकुभि स्सर्वैर्नरेंद्रैः परिपालितम् ।
श्रेयसा योक्तुकामोऽस्मि सुखार्हमखिलं जगत् ॥ 5 ॥

मयाप्याचरितं पूर्वैः पंथानमनुगच्छता ।
प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः ॥ 6 ॥

इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम् ।
पांडुरस्याऽतपत्रस्यच्छायायां जरितं मया ॥ 7 ॥

प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवतः ।
जीर्णस्यास्य शरीरस्य विश्रांतिमभिरोचये ॥ 8 ॥

राजप्रभावजुष्टां हि दुर्वहामजितेंद्रियैः ।
परिश्रांतोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन् ॥ 9 ॥

सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते ।
सन्निकृष्टानिमान्सर्वाननुमान्य द्विजर्षभान् ॥ 10 ॥

अनुजातो हि मां सर्वैर्गुणैर्ज्येष्ठो ममात्मजः ।
पुरंदरसमो वीर्ये रामः परपुरंजयः ॥ 11 ॥

तं चंद्रमिव पुष्येण युक्तं धर्मभृतां वरम् ।
यौवराज्ये नियोक्ताऽस्मि प्रीतः पुरुषपुंगवम् ॥ 12 ॥

अनुरूपस्स वै नाथो लक्ष्मीवान् लक्ष्मणाग्रजः ।
त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् ॥ 13 ॥

अनेन श्रेयसा सद्यस्संयोज्यैवमिमां महीम् ।
गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै ॥ 14 ॥

यदिदं मेऽनुरूपार्थं मया साधु सुमंत्रितम् ।
भवंतो मेऽनुमन्यंतां कथं वा करवाण्यहम् ॥ 15 ॥

यद्यप्येषा मम प्रीतिर्हितमन्यद्विचिंत्यताम् ।
अन्या मध्यस्थचिंता हि विमर्दाभ्यधिकोदया ॥ 16 ॥

इति ब्रुवंतं मुदिताः प्रत्यनंदन्नृपा नृपम् ।
वृष्टिमंतं महामेघं नर्दंत इव बर्हिणः ॥ 17 ॥

स्निग्धोऽनुनादी संजज्ञे तत्र हर्षसमीरितः ।
जनौघोद्घुष्टसन्नादो विमानं कंपयन्निव ॥ 18 ॥

तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः ।
ब्राह्मणा जनमुख्याश्च पौरजानपदै स्सह ॥ 19 ॥

समेत्य मंत्रयित्वा तु समतागतबुद्धयः ।
ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम् ॥ 20 ॥

अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव ।
स रामं युवराजानमभिषिंचिस्व पार्थिवम् ॥ 21 ॥

इच्छामो हि महाबाहुं रघुवीरं महाबलम् ।
गजेन महताऽयांतं रामं छत्रावृताननम् ॥ 22 ॥

इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम् ।
अजानन्निव जिज्ञासुरिदं वचनमब्रवीत् ॥ 23 ॥

श्रुत्वैव वचनं यन्मे राघवं पतिमिच्छथ ।
राजान स्संशयोऽयं मे किमिदं ब्रूत तत्त्वतः ॥ 24 ॥

कथं नु मयि धर्मेण पृथिवीमनुशासति ।
भवंतो द्रष्टुमिच्छंति युवराजं ममात्मजम् ॥ 25 ॥

ते तमूचुर्महात्मानं पौरजानपदैस्सह ।
बहवो नृप कल्याणा गुणाः पुत्रस्य संति ते ॥ 26 ॥

गुणान् गुणवतो देव देवकल्पस्य धीमतः ।
प्रियानानंदनान्कृत्स्नान्प्रवक्ष्यामोऽद्य तान् शृणु ॥ 27 ॥

दिव्यैर्गुणैश्शक्रसमो रामस्सत्यपराक्रमः ।
इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशांपते ॥ 28 ॥

राम स्सत्पुरुषो लोके सत्यधर्मपरायणः ।
साक्षाद्रामाद्विनिर्वृत्तो धर्मश्चापि श्रिया सह ॥ 29 ॥

प्रजासुखत्त्वे चंद्रस्य वसुधायाः क्षमागुणैः ।
बुद्ध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः ॥ 30 ॥

धर्मज्ञः सत्यसंधश्च शीलवाननसूयकः ।
क्षांतः सांत्वयिता श्लक्ष्णः कृतज्ञो विजितेंद्रियः ॥ 31 ॥

मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः ।
प्रियवादी च भूतानां सत्यवादी च राघवः ॥ 32 ॥

बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता ।
तेनास्येहाऽतुला कीर्तिर्यशस्तेजश्च वर्धते ॥ 33 ॥

देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः ।
सम्यग्विद्याव्रतस्नातो यथावत्सांगवेदवित् ॥ 34 ॥

गांधर्वे च भुवि श्रेष्ठो बभूव भरताग्रजः ।
कल्याणाभिजन स्साधुरदीनात्मा महामतिः ॥ 35 ॥

द्विजैरभिविनीतश्च श्रेष्ठैर्धर्मार्थनैपुणैः ।
यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा ॥ 36 ॥

गत्वा सौमित्रिसहितो नाऽविजित्य निवर्तते ।
संग्रामात्पुनरागम्य कुंजरेण रथेन वा ॥ 37 ॥

पौरान् स्वजनवन्नित्यं कुशलं परिपृच्छति ।
पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च ॥ 38 ॥

निखिलेनानुपूर्व्याच्च पितापुत्रानिवौरसान् ।
शुश्रूषंते च व श्शिष्याः कच्चित्कर्मसु दंशिताः ॥ 39 ॥

इति नः पुरुषव्याघ्र स्सदा रामोऽभिभाषते ।
व्यसनेषु मनुष्याणां भृशं भवति दुःखितः ॥ 40 ॥

उत्सवेषु च सर्वेषु पितेव परितुष्यति ।
सत्यवादी महेष्वासो वृद्धसेवी जितेंद्रियः ॥ 41 ॥

स्मितपूर्वाभिभाषी च धर्मं सर्वात्मना श्रितः ।
सम्यग्योक्ता श्रेयसां च न विगृह्य कथारुचिः ॥ 42 ॥

उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ।
सुभ्रूः आयतताम्राक्षः साक्षाद्विष्णुरिव स्वयम् ॥ 43 ॥

रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः ।
प्रजापालनतत्त्वज्ञो न रागोपहतेंद्रियः ॥ 44 ॥

शक्तस्त्रैलोक्यमप्येको भोक्तुं किन्नु महीमिमाम् ।
नास्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन ॥ 45 ॥

हंत्येव नियमाद्वध्यानवध्ये न च कुप्यति ।
युनक्त्यर्थैः प्रहृष्टश्च तमसौ यत्र तुष्यति ॥ 46 ॥

शांतै स्सर्वप्रजाकांतैः प्रीतिसंजननैर्नृणाम् ।
गुणैर्विरुरुचे रामो दीप्त स्सूर्य इवांशुभिः ॥ 47 ॥

तमेवंगुणसंपन्नं रामं सत्यपराक्रमम् ।
लोकपालोपमं नाथमकामयत मेदिनी ॥ 48 ॥

वत्सश्श्रेयसि जातस्ते दिष्ट्याऽसौ तव राघव ।
दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव काश्यपः ॥ 49 ॥

बलमारोग्यमायुश्च रामस्य विदितात्मनः ।
देवासुरमनुष्येषु सगंधर्वोरगेषु च ॥ 50 ॥

आशंसते जनस्सर्वो राष्ट्रे पुरवरे तथा ।
आभ्यंतरश्च बाह्यश्च पौरजानपदो जनः ॥ 51 ॥

स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातस्समाहिताः ।
सर्वान् देवान् नमस्यंति रामस्यार्थे यशस्विनः ॥ 52 ॥

तेषामायाचितं देव त्वत्प्रसादात्समृद्ध्यताम् ।
राममिंदीवरश्यामं सर्वशत्रुनिबर्हणम् ॥ 53 ॥

पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम् ।
तं देव देवोपममात्मजं ते सर्वस्य लोकस्य हिते निविष्टम् ।
हिताय नः क्षिप्रमुदारजुष्टं मुदाऽभषेक्तुं वरद त्वमर्हसि ॥ 54 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे द्वितीयस्सर्गः ॥




Browse Related Categories: