View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

2.53 अयोध्याकांड - त्रिपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ त्रिपंचाशस्सर्गः ।

स तं वृक्षं समासाद्य संध्यामन्वास्यपश्चिमाम् ।
रामो रमयतां श्रेष्ठ इति होवाच लक्ष्मणम् ॥ 1 ॥

अद्येयं प्रथमा रात्रिर्याता जनपदाद्बहिः ।
या सुमंत्रेण रहिता तां नोत्कंठितुमर्हसि ॥ 2 ॥

जागर्तव्यमतंद्रिभ्यामद्यप्रभृति रात्रिषु ।
योगक्षेमौ हि सीताया वर्तेते लक्ष्मणावयोः ॥ 3 ॥

रात्रिं कथंचिदेवेमां सौमित्रे वर्तयामहे ।
अपावर्तामहे भूमावास्तीर्य स्वयमार्जितैः ॥ 4 ॥

स तु संविश्य मेदिन्यां महार्हशयनोचितः ।
इमाः सौमित्रये रामो व्याजहार कथाः शुभाः ॥ 5 ॥

ध्रुवमद्य महाराजो दुःखं स्वपिति लक्ष्मण ।
कृतकामा तु कैकेयी तुष्टा भवितुमर्हति ॥ 6 ॥

सा हि देवी महाराजं कैकेयी राज्यकारणात् ।
अपि न च्यावयेत्प्राणान् दृष्ट्वा भरतमागतम् ॥ 7 ॥

अनाथश्च हि वृद्धश्च मया चैव विनाकृतः ।
किं करिष्यति कामात्मा कैकेयी वशमागतः ॥ 8 ॥

इदं व्यसनमालोक्य राज्ञश्च मतिविभ्रमम् ।
काम एवार्थधर्माभ्यां गरीयानिति मे मतिः ॥ 9 ॥

को ह्यविद्वानपि पुमान् प्रमदायाः कृते त्यजेत् ।
छंदानुवर्तिनं पुत्रं तातो मामिव लक्ष्मण ॥ 10 ॥

सुखी बत सभार्यश्च भरतः केकयीसुतः ।
मुदितान् कोसलानेको यो भोक्ष्यत्यधिराजवत् ॥ 11 ॥

स हि सर्वस्य राज्यस्य मुखमेकं भविष्यति ।
ताते च वयसाऽतीते मयि चारण्यमास्थिते ॥ 12 ॥

अर्थधर्मौ परित्यज्य य काममनुवर्तते ।
एवमापद्यते क्षिप्रं राजा दशरथो यथा ॥ 13 ॥

मन्ये दशरथांताय मम प्रव्राजनाय च ।
कैकेयी सौम्य संप्राप्ता राज्याय भरतस्य च ॥ 14 ॥

अपीदानीं तु कैकेयी सौभाग्यमदमोहिता ।
कौसल्यां च सुमित्रां च संप्रबाधेत मत्कृते ॥ 15 ॥

मा स्म मत्कारणाद्देवी सुमित्रा दुःखमावसेत् ।
अयोध्यामित एव त्वं काल्ये प्रविश लक्ष्मण ॥ 16 ॥

अहमेको गमिष्यामि सीतया सह दंडकान् ।
अनाथाया हि नाथस्त्वं कौशल्याया भविष्यसि ॥ 17 ॥

क्षुद्रकर्मा हि कैकेयी द्वेष्यमन्याय्यमाचरेत् ।
परिदद्याहि धर्मज्ञे भरते मम मातरम् ॥ 18 ॥

नूनं जात्यंतरे कस्मिन् स्त्रियः पुत्रैर्वियोजिताः ।
जनन्या मम सौमित्रे तस्मादेतदुपस्थितम् ॥ 19 ॥

मया हि चिरपुष्टेन दुखसंवर्धितेन च ।
विप्रयुज्यत कौशल्या फलकाले धिगस्तु माम् ॥ 20 ॥

मा स्म सीमंतिनी काचिज्जनयेत्पुत्रमीदृशम् ।
सौमित्रे योऽहमंबाया दद्मि शोकमनंतकम् ॥ 21 ॥

मन्ये प्रीतिविशिष्टा सा मत्तो लक्ष्मण शारिका ।
यस्यास्तच्छ्रूयते वाक्यं शुक पादमरेर्दश ॥ 22 ॥

शोचंत्या अल्पभाग्याया न किंचिदुपकुर्वता ।
पुत्रेण किमपुत्राया मया कार्यमरिंदम ॥ 23 ॥

अल्पभाग्या हि मे माता कौशल्या रहिता मया ।
शेते परमदुःखार्ता पतिता शोकसागरे ॥ 24 ॥

एको ह्यहमयोध्यां च पृथिवीं चापि लक्ष्मण ।
तरेयमिषुभिः क्रुद्धो ननु वीर्यमकारणम् ॥ 25 ॥

अधर्मभयभीतश्च परलोकस्य चानघ ।
तेन लक्ष्मण नाद्याह मात्मानमभिषेचये ॥ 26 ॥

एतदन्यश्च करुणं विलप्य विजने वने ।
अश्रुपूर्णमुखो रामो निशि तूष्णीमुपाविशत् ॥ 27 ॥

विलप्योपरतं रामं गतार्चिषमिवानलम् ।
समुद्रमिव निर्वेगमाश्वासयत लक्ष्मणः ॥ 28 ॥

ध्रुवमद्य पुरी राजन्नयोध्यायुधिनां वर ।
निष्प्रभा त्वयि निष्क्रांते गतचंद्रेव शर्वरी ॥ 29 ॥

नैतदौपयिकं राम यदिदं परितप्यते ।
विषादयसि सीतां च मां चैव पुरुषर्षभ ॥ 30 ॥

न च सीता त्वया हीना न चाहमपि राघव ।
मुहूर्तमपि जीवावो जलान्मत्स्याविनोद्धृतौ ॥ 31 ॥

नहि तातं न शत्रुघ्नं न सुमित्रां परंतप ।
द्रष्टुमिच्छेयमद्याहं स्वर्गं चापि त्वया विना ॥ 32 ॥

ततस्तत्र सुखासीनौ नातिदूरे निरीक्ष्य ताम् ।
न्यग्रोधे सुकृतां शय्यां भेजाते धर्मवत्सलौ ॥ 33 ॥

स लक्ष्मणस्योत्तमपुष्कलं वचो निशम्य चैवं वनवासमादरात् ।
समाः समस्ता विदधे परंतपः प्रपद्य धर्मं सुचिराय राघवः ॥ 34 ॥

ततस्तु तस्मिन् विजने वने तदा महाबलौ राघववंशवर्धनौ ।
न तौ भयं संभ्रममभ्युपेयतु र्यथैव सिंहौ गिरिसानुगोचरौ ॥ 35 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे त्रिपंचाशस्सर्गः ॥




Browse Related Categories: