श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ चतुश्चत्वारिंशस्सर्गः ।
विलपंती तथा तां तु कौसल्यां प्रमदोत्तमाम् ।
इदं धर्मे स्थिता धर्म्यं सुमित्रा वाक्यमब्रवीत् ॥ 1 ॥
तवार्ये सद्गुणैर्युक्तः पुत्र स्स पुरुषोत्तमः ।
किं ते विलपितेनैवं कृपणं रुदितेन वा ॥ 2 ॥
यस्तवार्ये गतः पुत्रस्त्यक्त्वा राज्यं महाबलः ।
साधु कुर्वन् महात्मानं पितरं सत्यवादिनम् ॥ 3 ॥
शिष्टैराचरिते सम्यक्छश्वत्प्रेत्यफलोदये ।
रामो धर्मे स्थित श्रेष्ठो न स शोच्यः कदाचन ॥ 4 ॥
वर्तते चोत्तमां वृत्तिं लक्ष्मणोऽस्मिन् सदानघः ।
दयावान् सर्वभूतेषु लाभस्तस्य महात्मनः ॥ 5 ॥
अरण्यवासे यद्दुःखं जानती वै सुखोचिता ।
अनुगच्छति वैदेही धर्मात्मानं तवात्मजम् ॥ 6 ॥
कीर्तिभूतां पताकां यो लोके भ्रमयति प्रभुः ।
धर्मसत्यव्रतधनः किं न प्राप्तस्तवात्मजः ॥ 7 ॥
व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यमुत्तमम् ।
न गात्रमंशुभि स्सूर्य स्संतापयितुमर्हति ॥ 8 ॥
शिवस्सर्वेषु कालेषु काननेभ्यो विनिस्सृतः ।
राघवं युक्तशीतोष्णस्सेविष्यति सुखोऽनिलः ॥ 9 ॥
शयानमनघं रात्रौ पितेवाभिपरिष्वजन् ।
रश्मिभि स्संस्पृशन् शीतैश्चंद्रमाह्लादयिष्यति ॥ 10 ॥
ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे ।
दानवेंद्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे ॥ 11 ॥
स शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः ।
असंत्रस्तोऽप्यरणस्थो वेश्मनीव निवत्स्यति ॥ 12 ॥
यस्येषुपथमासाद्य विनाशं यांति शत्रवः ।
कथं न पृथिवी तस्य शासने स्थातुमर्हति ॥ 13 ॥
या श्री श्शौर्यं च रामस्य या च कल्याणसत्वता ।
निवृत्तारण्यवास स्स क्षिप्रं राज्यमवाप्स्यति ॥ 14 ॥
सूर्यस्यापि भवेत्सूर्यो ह्यग्नेरग्नि प्रभोः प्रभुः ।
श्रियः श्रीश्च भवेदग्र्या कीर्तिः कीर्त्याः क्षमाक्षमा ॥ 15 ॥
दैवतं दैवतानां च भूतानां भूतसत्तमः ।
तस्य के ह्यगुणा देवि वने वाप्यथवा पुरे ॥ 16 ॥
पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः ।
क्षिप्रं तिसृभिरेताभि स्सह रामोऽभिषेक्ष्यते ॥ 17 ॥
दुःखजं विसृजंत्यस्रं निष्क्रामंतमुदीक्ष्य यम् ।
अयोध्यायां जनास्सर्वे शोकवेगसमाहताः ॥ 18 ॥
कुशचीरधरं देवं गच्छंतमपराजितम् ।
सीतेवानुगता लक्ष्मी स्तस्य किं नाम दुर्लभम् ॥ 19 ॥
धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत्स्वयम् ।
लक्ष्मणो व्रजति ह्यग्रे तस्य किं नाम दुर्लभम् ॥ 20 ॥
निवृत्तवनवासं तं द्रष्टासि पुनरागतम् ।
जहिशोकं च मोहं च देवि सत्यं ब्रवीमि ते ॥ 21 ॥
शिरसा चरणावेतौ वंदमानमनिंदिते पुनर्द्रक्ष्यसि कल्याणि पुत्रं चंद्रमिवोदितम् ॥ 22 ॥
पुनः प्रविष्टं दृष्ट्वा तमभिषिक्तं महाश्रियम् ।
समुत्स्रक्ष्यसि नेत्राभ्यां क्षिप्रमानंदजं पयः ॥ 23 ॥
मा शोको देवि दुःखं वा न रामे दृश्यतेऽशिवम् ।
क्षिप्रं द्रक्ष्यसि पुत्रं त्वं ससीतं सहलक्ष्मणम् ॥ 24 ॥
त्वया शेषो जनश्चैव समाश्वास्यो यदाऽनघे ।
किमिदानीमिदं देवि करोषि हृदि विक्लबम् ॥ 25 ॥
नार्हा त्वं शोचितुं देवि यस्यास्ते राघवस्सुतः ।
न हि रामात्परो लोके विद्यते सत्पथे स्थितः ॥ 26 ॥
अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम् ।
मुदाऽश्रृ मोक्ष्यसे क्षिप्रं मेघलेखेव वार्षिकी ॥ 27 ॥
पुत्रस्ते वरदः क्षिप्रमयोध्यां पुनरागतः ।
पाणिभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति ॥ 28 ॥
अभिवाद्य नमस्यंतं शूरं ससुहृदं सुतम् ।
मुदाऽस्रैः प्रोक्ष्यसि पुनर्मेघराजिरिवाचलम् ॥ 29 ॥
आश्वासयंती विविधैश्च वाक्यै र्वाक्योपचारे कुशलाऽनवद्या ।
रामस्य तां मातरमेवमुक्त्वा देवी सुमित्रा विरराम रामा ॥ 30 ॥
निशम्य तल्लक्ष्मणमातृवाक्यं रामस्य मातुर्नरदेवपत्न्याः ।
सद्यश्शरीरे विननाश शोकः शरद्गतो मेघ इवाल्पतोयः ॥ 31 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे चतुश्चत्वारिंशस्सर्गः ॥