View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

1.16 बालकांड - षोडश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ षोडशस्सर्गः ।

ततो नारायणो देवो नियुक्तस्सुरसत्तमैः ।
जानन्नपि सुरानेवं श्लक्ष्णं वचनमब्रवीत् ॥ 1 ॥

उपायः को वधे तस्य रावणस्य दुरात्मनः ।
यमहं तं समास्थाय निहन्यामृषिकंटकम् ॥ 2 ॥

एवमुक्तास्सुरास्सर्वे प्रत्यूचुर्विष्णुमव्ययम् ।
मानुषीं तनुमास्थाय रावणं जहि संयुगे ॥ 3 ॥

स हि तेपे तपस्तीव्रं दीर्घकालमरिंदम ।
येन तुष्टोऽभवद्ब्रह्मा लोककृल्लोकपूर्वजः ॥ 4 ॥

संतुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः ।
04 नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात् ॥ 5 ॥

अवज्ञाताः पुरा तेन वरदाने हि मानवाः ।
105 एवं पितामहात्तस्माद्वरं प्राप्य स दर्पितः ॥ 6 ॥

उत्सादयति लोकांत्रीन् स्त्रियश्चाप्यपकर्षति ।
तस्मात्तस्य वधो दृष्टो मानुषेभ्यः परंतप ॥ 7 ॥

इत्येतद्वचनं श्रुत्वा सुराणां विष्णुरात्मवान् ।
पितरं रोचयामास तदा दशरथं नृपम् ॥ 8 ॥

स चाप्यपुत्रो नृपतिस्तस्मिन्काले महाद्युतिः ।
अयजत्पुत्रियामिष्टिं पुत्रेप्सुररिसूदनः ॥ 9 ॥

स कृत्वा निश्चयं विष्णुरामंत्र्य च पितामहम् ।
अंतर्धानं गतो देवैः पूज्यमानो महर्षिभिः ॥ 10 ॥

तो वै यजमानस्य पावकादतुलप्रभम् ।
प्रादुर्भूतं महद्भूतं महावीर्यं महाबलम् ॥ 11 ॥

कृष्णं रक्तांबरधरं रक्तास्यं दुंदुभिस्वनम् ।
स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम् ॥ 12 ॥

शुभलक्षणसंपन्नं दिव्याभरणभूषितम् ।
शैलशृंगसमुत्सेथं दृप्तशार्दूलविक्रमम् ॥ 13 ॥

दिवाकरसमाकारं दीप्तानलशिखोपमम् ।
तप्तजांबूनदमयीं राजतांतपरिच्छदाम् ॥ 14 ॥

दिव्यपायससंपूर्णां पात्रीं पत्नीमिव प्रियाम् ।
प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव ॥ 15 ॥

समवेक्ष्याब्रवीद्वाक्यमिदं दशरथं नृपम् ।
प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप ॥ 16 ॥

ततः परं तदा राजा प्रत्युवाच कृतांजलिः ।
भगवन् स्वागतं तेऽस्तु किमहं करवाणि ते ॥ 17 ॥

अथो पुनरिदं वाक्यं प्राजापत्यो नरोऽब्रवीत् ।
राजन्नर्चयता देवानद्य प्राप्तमिदं त्वया ॥ 18 ॥

इदं तु नृपशार्दूल पायसं देवनिर्मितम् ।
प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम् ॥ 19 ॥

भार्याणामनुरूपाणामश्नीतेति प्रयच्छ वै ।
तासु त्वं प्राप्स्यसे पुत्रान्यदर्थं यजसे नृप ॥ 20 ॥

तथेति नृपतिः प्रीतश्शिरसा प्रतिगृह्यताम् ।
पात्रीं देवान्नसंपूर्णां देवदत्तां हिरण्मयीम् ॥ 21 ॥

अभिवाद्य च तद्भूतमद्भुतं प्रियदर्शनम् ।
मुदा परमया युक्तश्चकाराभिप्रदक्षिणम् ॥ 22 ॥

ततो दशरथः प्राप्य पायसं देवनिर्मितम् ।
बभूव परमप्रीतः प्राप्य वित्तमिवाधनः ॥ 23 ॥

ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम् ।
संवर्तयित्वा तत्कर्म तत्रैवांतरधीयत ॥ 24 ॥

हर्षरश्मिभिरुद्योतं तस्यांतःपुरमाबभौ ।
शारदस्याभिरामस्य चंद्रस्येव नभोंऽशुभिः ॥ 25 ॥

सोऽंतःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत् ।
पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः ॥ 26 ॥

कौसल्यायै नरपतिः पायसार्धं ददौ तदा ।
अर्धादर्धं ददौ चापि सुमित्रायै नराधिपः ॥ 27 ॥

कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात् ।
प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम् ॥ 28 ॥

अनुचिंत्य सुमित्रायै पुनरेव महीपतिः ।
एवं तासां ददौ राजा भार्याणां पायसं पृथक् ॥ 29 ॥

तास्त्वेतत्पायसं प्राप्य नरेंद्रस्योत्तमास्स्त्रयः ।
सम्मानं मेनिरे सर्वांः प्रहर्षोदितचेतसः ॥ 30 ॥

ततस्तु ताः प्राश्य तदुत्तमास्त्रियो महीपतेरुत्तमपायसं पृथक् ।
हुताशनादित्यसमानतेजसो ऽचिरेण गर्भान्प्रतिपेदिरे तदा ॥ 31 ॥

ततस्तु राजा प्रसमीक्ष्य ताः स्त्रियः प्ररूढगर्भाः प्रतिलब्धमानसः ।
बभूव हृष्टस्त्रिदिवे यथा हरिः सुरेंद्रसिद्धर्षिगणाभिपूजितः ॥ 32 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे षोडशस्सर्गः ॥




Browse Related Categories: