View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

1.53 बालकांड - त्रिपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ त्रिपंचाशस्सर्गः ।

एवमुक्ता वसिष्ठेन शबला शत्रुसूदन ।
विदधे कामधुक्कामान्यस्य यस्य यथेप्सितम् ॥ 1 ॥

इक्षून्मधूं स्तथा लाजान्मैरेयांश्च वरासनान् ।
पानानि च महार्हाणि भक्ष्यांश्चोच्चावचां स्तथा ॥ 2 ॥

उष्णाढ्यस्योदनस्यात्र राशयः पर्वतोपमाः ।
मृष्टान्नानि च सूपाश्च दधिकुल्यास्तथैव च ॥ 3 ॥

नानास्वादुरसानां च षाडबानां तथैव च ।
भाजनानि सुपूर्णानि गौडानि च सहस्रशः ॥ 4 ॥

सर्वमासीत्सुसंतुष्ठं हृष्टपुष्टजनायुतम् ।
विश्वामित्रबलं राम वसिष्ठेनाभितर्पितम् ॥ 5 ॥

विश्वामित्रोऽपि राजर्षिर्हृष्टः पुष्टस्तदाभवत् ।
सांतःपुरवरो राजा सब्राह्मणपुरोहितः ॥ 6 ॥

सामात्यो मंत्रिसहितस्सभृत्यः पूजितस्तदा ।
युक्तः परमहर्षेण वसिष्ठमिदमब्रवीत् ॥ 7 ॥

पूजितोऽहं त्वया ब्रह्मन् पूजार्हेण सुसत्कृतः ।
श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद ॥ 8 ॥

गवां शतसहस्रेण दीयतां शबला मम ।
रत्नं हि भगवन्नेतद्रत्नहारी च प्रार्थिवः ॥ 9 ॥

तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज ।
एवमुक्तस्तु भगवान्वसिष्ठो मुनिसत्तमः ।
विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम् ॥ 10 ॥

नाहं शतसहस्रेण नापि कोटिशतैर्गवाम् ।
राजन् दास्यामि शबलां राशिभी रजतस्य च ॥ 11 ॥

न परित्यागमर्हेयं मत्सकाशादरिंदम ।
शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा ॥ 12 ॥

अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च ।
आयत्तमग्निहोत्रं च बलिर्होमस्तथैव च ॥ 13 ॥

स्वाहाकारवषट्कारौ विद्याश्च विविधा स्तथा ।
आयत्तमत्र राजर्षे सर्वमेतन्न संशयः ॥ 14 ॥

सर्वस्वमेतत्सत्येन मम तुष्टिकरी सदा ।
कारणैर्बहुभी राजन्न दास्ये शबलां तव ॥ 15 ॥

वसिष्ठेनैवमुक्तस्तु विश्वामित्रोऽब्रवीत्ततः ।
संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः ॥ 16 ॥

हैरण्यकक्ष्याग्रैवेयान् सुवर्णांकुशभूषितान् ।
ददामि कुंजरांस्तेषां सहस्राणि चतुर्दश ॥ 17 ॥

हैरण्यानां रथानां च श्वेताश्वानां चतुर्युजाम् ।
ददामि ते शतान्यष्टौ किंकिणीकविभूषितान् ॥ 18 ॥

हयानां देशजातानां कुलजानां महौजसाम् ।
सहस्रमेकं दश च ददामि तव सुव्रत ॥ 19 ॥

नानावर्णविभक्तानां वयस्स्थानां तथैव च ।
ददाम्येकां गवां कोटिं शबला दीयतां मम ॥ 20 ॥

यावदिच्छसि रत्नं वा हिरण्यं वा द्विजोत्तम ।
तावद्ददामि तत्सर्वं शबला दीयतां मम ॥ 21 ॥

एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता ।
न दास्यामीति शबलां प्राह राजन् कथंचन ॥ 22 ॥

एतदेव हि मे रत्नमेतदेव हि मे धनम् ।
एतदेव हि सर्वस्वमेतदेव हि जीवितम् ॥ 23 ॥

दर्शश्च पूर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः ।
एतदेव हि मे राजन् विविधाश्च क्रियास्तथा ॥ 24 ॥

अदोमूलाः क्रियास्सर्वा मम राजन्न संशयः ।
बहुना किं प्रलापेन न दास्ये कामदोहिनीम् ॥ 25 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे त्रिपंचाशस्सर्गः ॥




Browse Related Categories: