View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

4.5 किष्किंधाकांड - पंचम सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ पंचमस्सर्गः ।

ऋश्यमूकात्तु हनुमान्गत्वा तु मलयं गिरिम् ।
आचचक्षे तदा वीरौ कपिराजाय राघवौ ॥ 1 ॥

अयं रामो महाप्राज्ञ स्संप्राप्तो दृढविक्रमः ।
लक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः ॥ 2 ॥

इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः ।
धर्मे निगदितश्चैव पितुर्निर्देशपारगः ॥ 3 ॥

तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः ।
रावणेन हृता भार्या स त्वां शरणमागतः ॥ 4 ॥

राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितः ।
दक्षिणाश्च तथोत्सृष्टा गावश्शतसहस्रशः ॥ 5 ॥

तपसा सत्यवाक्येन वसुधा येन पालिता ।
स्त्री हेतोस्तस्य पुत्रोऽयं रामस्त्वां शरणं गतः ॥ 6 ॥

भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ ।
प्रतिगृह्यार्चयस्वैतौ पूजनीयतमावुभौ ॥ 7 ॥

श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः ।
भयं चराघवाद्घोरं प्रजहौ विगतज्वरः ॥ 8 ॥

सकृत्वा मानुषं रूपं सुग्रीवः प्लवगर्षभः ।
दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम् ॥ 9 ॥

भवांधर्मविनीतश्च विक्रांतस्सर्ववत्सलः ।
आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः ॥ 10 ॥

तन्ममैवैष सत्कारो लाभश्चैवोत्तमः प्रभो ।
यत्त्वमिच्छसि सौहार्दं वानरेण मया सह ॥ 11 ॥

रोचते यदि वा सख्यं बाहुरेष प्रसारितः ।
गृह्यतां पाणिना पाणिर्मर्यादा बध्यतां ध्रुवा ॥ 12 ॥

एतत्तु वचनं श्रुत्वा सुग्रीवेण सुभाषितम् ।
संप्रहृष्टमना हस्तं पीडयामास पाणिना ॥ 13 ॥

हृद्यं सौहृदमालंब्यपर्यष्वजत पीडितम् ।
ततो हनूमान्संत्यज्य भिक्षुरूपमरिंदमः ॥ 14 ॥

काष्ठयोस्स्वेन रूपेण जनयामास पावकम् ।
दीप्यमानं ततो वह्निं ह्निं पुष्पैरभ्यर्च्य सत्कृतम् ॥ 15 ॥

तयोर्मध्येऽथ सुप्रीतो निदधे सुसमाहितः ।
ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम् ॥ 16 ॥

सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ ।
ततस्सुप्रीतमनसौ तावुभौ हरिराघवौ ॥ 17 ॥

अन्योन्यमभिवीक्षंतौ न तृप्तिमुपजग्मतुः ।
त्वं वयस्योऽसि मे हृद्यो ह्येकं दुःखं सुखं च नौ ॥ 18 ॥

सुग्रीवो राघवं वाक्यमित्युवाच प्रहृष्टवत् ।
ततस्सुपर्णबहुलां छित्वा शाखां सुपुष्पिताम् ॥ 19 ॥

सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः ।
लक्ष्मणायाथ संहृष्टो हनूमान् प्लवगर्षभः ॥ 20 ॥

शाखां चंदनवृक्षस्य ददौ परमपुष्पिताम् ।
ततः प्रहृष्टस्सुग्रीवः श्लक्ष्णं मधुरया गिरा ॥ 21 ॥

प्रत्युवाच तदा रामं हर्षव्याकुललोचनः ।
अहं विनिकृतो राम चरामीह भयार्दितः ॥ 22 ॥

हृतभार्यो वने त्रस्तो दुर्गमेतदुपाश्रितः ।
सोऽहं त्रस्तो वने भीतो वसाम्युद्भ्रांतचेतनः ॥ 23 ॥

वालिना निकृतो भ्रात्रा कृतवैरश्च राघव ।
वालिनो मे महाभाग भयार्तस्याभयं कुरु ॥ 24 ॥

कर्तुमर्हसि काकुत्स्थ भयं मे न भवेद्यथा ।
एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः ॥ 25 ॥

प्रत्यभाषत काकुत्स्थः सुग्रीवं प्रहसन्निव ।
उपकारफलं मित्रं विदितं मे महाकपे ॥ 26 ॥

वालिनं तं वधिष्यामि तव भार्यापहारिणम् ।
अमोघास्सूर्यसंकाशा ममैते निशिताश्शराः ॥ 27 ॥

तस्मिन्वालिनि दुर्वृत्ते निपतिष्यंति वेगिताः ।
कंकपत्रप्रतिच्छन्ना महेंद्राशनिसन्निभाः ॥ 28 ॥

तीक्ष्णाग्रा ऋजुपर्वाणस्सरोषा भुजगा इव ।
तमद्य वालिनं पश्य तीक्ष्णैराशीविषोपमैः ॥ 29 ॥

शरैर्विनिहतं भूमौ विकीर्णमिव पर्वतम् ।
स तु तद्वचनं श्रुत्वा राघवस्यात्मनो हितम् ॥ 30 ॥

सुग्रीवः परमप्रीतस्सुमहद्वाक्यमब्रवीत् ।
तव प्रसादेन नृसिंह राघव प्रियां च राज्यं च समाप्नुयामहम् ।
तथा कुरु त्वं नरदेव वैरिणं यथा निहंस्यद्य रिपुंममाग्रजम् ॥ 31 ॥

सीता कपींद्रक्षणदाचराणां राजीवहेमज्वलनोपमानि ।
सुग्रीवरामप्रणयप्रसंगे वामानि नेत्राणि समं स्फुरंति ॥ 32 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे पंचमस्सर्गः ॥




Browse Related Categories: