श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ एकत्रिंशस्सर्गः ।
स कामिनं दीनमदीनसत्त्वं शोकाभिपन्नं समुदीर्णकोपम् ।
नरेंद्रसूनुर्नरदेवपुत्रं रामानुजः पूर्वजमित्युवाच ॥ 1 ॥
न वानरः स्थास्यति साधुवृत्ते न मंस्यते कर्मफलानुषंगान् ।
न भोज्यते वानरराज्यलक्ष्मीं तथाहि नाभिक्रमतेऽस्य बुद्धिः ॥ 2 ॥
मतिक्षयाद्ग्राम्यसुखेषु सक्त स्तव प्रसादाप्रतिकारबुद्धिः ।
हतोऽग्रजं पश्यतु वीर तस्य न राज्यमेवं विगुणस्य देयम् ॥ 3 ॥
न धारये कोपमुदीर्णवेगं निहन्मि सुग्रीवमसत्यमद्य ।
हरिप्रवीरैस्सह वालिपुत्रो नरेंद्रपत्न्या विचयं करोतु ॥ 4 ॥
तमात्तबाणासनमुत्पतंतं निवेदितार्थं रणचंडकोपम् ।
उवाच रामः परवीरहंता स्ववेक्षितं सानुनयं च वाक्यम् ॥ 5 ॥
न हि वै त्वद्विधो लोके पापमेवं समाचरेत् ।
पापमार्येण यो हंति स वीरः पुरुषोत्तमः ॥ 6 ॥
नेदमत्र त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण ।
तां प्रीतिमनुवर्तस्व पूर्ववृत्तं च संगतम् ॥ 7 ॥
सामोपहितया वाचा रूक्षाणि परिवर्जयन् ।
वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये ॥ 8 ॥
सोऽग्रजेनानुशिष्टार्थो यथावत्पुरुषर्षभः ।
प्रविवेश पुरीं वीरो लक्ष्मणः परवीरहा ॥ 9 ॥
ततश्शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः ।
लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः ॥ 10 ॥
शक्रबाणासनप्रख्यं धनुः कालांतकोपमः ।
प्रगृह्य गिरिशृंगाभं मंदरः सानुमानिव ॥ 11 ॥
यथोक्तकारी वचनमुत्तरं चैव सोत्तरम् ।
बृहस्पतिसमो बुद्ध्या मत्वा रामानुजस्तदा ॥ 12 ॥
कामक्रोधसमुत्थेन भ्रातुः कोपाग्निना वृतः ।
प्रभंजन इवाप्रीतः प्रययौ लक्ष्मणस्तदा ॥ 13 ॥
सालतालाश्वकर्णांश्च तरसा पातयन्बहून् ।
पर्यस्यन्गिरिकूटानि द्रुमानन्यांश्च वेगतः ॥ 14 ॥
शिलाश्च शकलीकुर्वन्पद्भ्यां गज इवाशुगः ।
दूरामेकपदं त्यक्त्वा ययौ कार्यवशाद्द्रुतम् ॥ 15 ॥
तामपश्यद्बलाकीर्णां हरिराजमहापुरीम् ।
दुर्गामिक्ष्वाकुशार्दूलः किष्किंधां गिरिसंगटे ॥ 16 ॥
रोषात्प्रस्फुरमाणोष्ठ स्सुग्रीवं प्रति लक्ष्मणः ।
ददर्श वानरान्भीमाकनिष्किंधाया बहिश्चरान् ॥ 17 ॥
तं दृष्ट्वा वानरास्सर्वे लक्ष्मणं पुरुषर्षभम् ।
शैलशृंगाणि शतशः प्रवृद्धांश्च महीरुहान् ॥ 18 ॥
जगृहुः कुंजरप्रख्या वानराः पर्वतांतरे ।
तान्गृहीतप्रहरणान्सर्वांदृष्ट्वा तु लक्ष्मणः ॥ 19 ॥
बभूव द्विगुणं क्रुद्धो बह्विंधन इवानलः ।
तं ते भयपरीतांगाः क्रुद्धं दृष्ट्वा प्लवंगमाः ॥ 20 ॥
कालमृत्युयुगांताभं शतशो विद्रुता दिशः ।
ततस्सुग्रीवभवनं प्रविश्य हरिपुंगवाः ॥ 21 ॥
क्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन् ।
तारया सहितः कामी सक्तः कपिवृषो रहः ॥ 22 ॥
न तेषां कपिवीराणां शुश्राव वचनं तदा ।
ततस्सचिवसंदिष्टा हरयो रोमहर्षणाः ।
गिरिकुंजर मेघाभा नगर्या निर्ययुस्तदा ॥ 23 ॥
नखदंष्ट्रायुधा घोरास्सर्वे विकृतदर्शनाः ॥ 24 ॥
सर्वे शार्दूलदर्पाश्च सर्वे च विकृताननाः ।
दशनागबलाः केचित्केचिद्दशगुणोत्तराः ॥ 25 ॥
केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ।
कृत्स्नांहि कपिभिर्व्याप्तां द्रुमहस्सैर्महाबलैः ॥ 26 ॥
अपश्यल्लक्ष्मणः क्रुद्धः किष्किंधां तां दुरासदाम् ।
ततस्ते हरयस्सर्वे प्राकारपरिघांतरात् ॥ 27 ॥
निष्क्रम्योदग्रसत्त्वास्तु तस्थुराविष्कृतं तदा ।
सुग्रीवस्य प्रमादं च पूर्वजं चार्तमात्मवान् ॥ 28 ॥
बुद्ध्वा कोपवशं वीरः पुनरेव जगाम सः ।
स दीर्घोष्णमहोच्छवासः कोपसंरक्तलोचनः ॥ 29 ॥
बभूव नरशार्दूल स्सधूम इव पावकः ।
बाणशल्यस्फुरज्जिह्वस्सायकासनभोगवान् ॥ 30 ॥
स्वतेजोविषसंघातः पंचास्य इव पन्नगः ।
तं दीप्तमिव कालाग्निं नागेंद्रमिव कोपितम् ॥ 31 ॥
समासाद्यांगदस्त्रासाद्विषादमगमद्भृशम् ।
सोऽंगदं रोषताम्राक्षस्संदिदेश महायशाः ॥ 32 ॥
सुग्रीवः कथ्यतां वत्स ममागमनमित्युत ।
एष रामानुजः प्राप्तस्वत्सकाशमरिंदम ॥ 33 ॥
भ्रातुर्व्यसनसंतप्तो द्वारि तिष्ठति लक्ष्मणः ।
तस्य वाक्यं यदि रुचिः क्रियतां साधु वानर ॥ 34 ॥
इत्युक्त्वा शीघ्रमागच्छ वत्स वाक्यमरिंदम ।
लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोऽंगदोऽब्रवीत् ।
पितुस्समीपमागम्य सौमित्रिरयमागतः ॥ 35 ॥
अथांगदस्तस्य वचो निशम्य संभ्रांतभावः परिदीनवक्त्रः ।
निपत्य तूर्णं नृपतेस्तरस्वी ततः रुमायाश्चरणौ ववंदे ॥ 36 ॥
संंगृह्य पादौ पितुरग्र्यतेजाः जग्राह मातुः पुनरेव पादौ ।
पादौ रुमायाश्च निपीडयित्वा निवेदयामास ततस्तमर्थम् ॥ 37 ॥
स निद्रामदसंवीतो वानरो न विबुद्धवान् ।
बभूव मदमत्तश्च मदनेन च मोहितः ॥ 38 ॥
ततः किलकिलां चक्रुर्लक्ष्मणं प्रेक्ष्य वानराः ।
प्रसादयंतस्तं क्रुद्धं भयमोहितचेतसः ॥ 39 ॥
ते महौघनिभं दृष्ट्वा वज्राशनिसमस्वनम् ।
सिंहनादं समं चक्रुर्लक्ष्मणस्य समीपतः ॥ 40 ॥
तेन शब्देन महता प्रत्यबुध्यत वानरः ।
मदविह्वलताम्राक्षो व्याकुलस्रग्विभूषणः ॥ 41 ॥
अथांगदवचः श्रुत्वा तेनैव च समागतौ ।
मंत्रिणौ वानरेंद्रस्य सम्मतौ दारदर्शिनौ ॥ 42 ॥
प्लक्षश्चैव प्रभावश्च मंत्रिणावर्थधर्मयोः ।
वक्तुमुच्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः ॥ 43 ॥
प्रसादयित्वा सुग्रीवं वचनैस्सामनिश्चितैः ।
आसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम् ॥ 44 ॥
सत्यसंधौ महाभागौ भ्रातरौ रामलक्ष्मणौ ।
वयस्यभावं संप्राप्तौ राज्यार्हौ राज्यदायिनौ ॥ 45 ॥
तयोरेको धनुष्पाणिर्द्वारि तिष्ठति लक्ष्मणः ।
यस्य भीताः प्रवेपंतो नादान्मुंचंति वानराः ॥ 46 ॥
स एष राघवभ्राता लक्ष्मणो वाक्यसारथिः ।
व्यवसायरथः प्राप्तस्तस्य रामस्य शासनात् ॥ 47 ॥
अयं च दयितो राजंस्ताराया स्तनयोऽंगदः ।
लक्ष्मणेन सकाशं ते प्रेषितस्त्वरयाऽनघ ॥ 48 ॥
सोऽयं रोषपरीताक्षो द्वारि तिष्ठति वीर्यवान् ।
वानरान्वानरपते चक्षुषा प्रदहन्निव ॥ 49 ॥
तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रस्सहबंधुभिः ।
गच्छ शीघ्रं महाराज रोषो ह्यस्य निवर्त्यताम् ॥ 50 ॥
यदाह रामो धर्मात्मा तत्कुरुष्व समाहितः ।
राजं स्तिष्ठस्व समये भव सत्यप्रतिश्रवाः ॥ 51 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे एकत्रिंशस्सर्गः ॥