View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

6.117 युद्धकांड - सप्तदशाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ सप्तदशाधिकशततमस्सर्गः ।

स उवाचमहाप्रामस्सोऽभिवाद्यप्लवंगमः ।
रामंवचनमर्थज्ञोवरंसर्वधनुष्मताम् ॥ 1 ॥

यन्निमित्तोऽयमारंबःकर्मणांयःफलोदयः ।
तांदेवींशोकसंतप्तांद्रष्टुमर्हसिमैथिलीम् ॥ 2 ॥

साहिशोकसमाविष्टाबाष्पपर्याकुलेक्षणा ।
मैथिलीविजयंश्रुत्वाद्रष्टुंत्वामभिकांक्षति ॥ 3 ॥

पूर्वकात्प्रत्ययाच्चाहमुक्तोविश्वस्तयातया ।
भर्तारंद्रष्टुमिच्छामिकृतार्थंसहलक्ष्मणम् ॥ 4 ॥

एवमुक्तोहनुमतारामोधर्मभृतांवरः ।
आगच्छत्सहसाध्यानमीषद्भाष्पपरिप्लुतः ॥ 5 ॥

दीर्घमुष्णंविनिःश्वस्यजगतीमवलोकयन् ।
उवाचमेघसंकाशंविभीषणमुपस्थितम् ॥ 6 ॥

दिव्यांगरागांवैदेहींदिव्याभरणभूषिताम् ।
इहसीतांशिरःस्नातामुपस्थापयमाचिरम् ॥ 7 ॥

एवमुक्तस्तुरामेणत्वरमाणोविभीषणः ।
प्रविश्यांतःपुरंसीतांस्त्रीभिस्स्वाभिरोचदयत् ॥ 8 ॥

ततस्सीतांमहाभागांदृष्टवोवाचविभीषणः ।
मूर्ध्निबद्धांजलिश्रीमान्विनीतोराक्षसेश्वरः ॥ 9 ॥

दिव्यांगरागावैदेहीदिव्याभरणभूषिता ।
यानमारोहभद्रंतेभर्तात्वांद्रष्टुमिच्छति ॥ 10 ॥

एवमुक्तातुवैदेहीप्रत्युवाचविभीषणम् ।
अस्नात्वाद्रष्टुमिच्छामिभर्तारंराक्षसेश्वर ॥ 11 ॥

तस्यास्तद्वचनंश्रुत्वाप्रत्युवाचविभीषणः ।
यथाहरामोभहर्तातेतत्तथाकर्तुमार्हसिमार्हसि ॥ 12 ॥

तस्यतद्वचनंश्रुत्वामैथिलीपतिदेवता ।
भर्तृभक्त्यावृतासाध्वीतथेतिप्रत्यभाषत ॥ 13 ॥

ततस्सीतांशिरःस्नातांसंयुक्तांप्रतिकर्मणा ।
महार्हाभरणोपेतांमहार्हांबरधारिणीम् ॥ 14 ॥

आरोप्यशिबिकांदीप्तांपरार्घ्यांबरसम्वृताम् ।
राक्षसैर्भहुभिर्गुप्तामाजहारविभीषणः ॥ 15 ॥

सोऽभिगम्यमहात्मानंज्ञातावपिध्यानमास्थितम् ।
प्रणतश्चप्रहृष्टश्चप्राप्तांसीतांन्यवेदयत् ॥ 16 ॥

तामागतामुपश्रुत्यरक्षोगृहचिरोषिताम् ।
हर्षोदैन्यंच रोषश्चत्रयंराघवमाविशत् ॥ 17 ॥

ततःपार्श्वगतंदृष्टवासविमर्शंविचारयन् ।
विभीषणमिदंवाक्यमहृष्टोराघवोऽब्रवीत् ॥ 18 ॥

राक्षसाधिपतेसौम्यनित्यंमद्विजयेरत ।
वैदेहीसंनिकर्षंमेशीघ्रंसमुपगच्छतु ॥ 19 ॥

तस्यतद्वचनंश्रुत्वाराघवस्यविभीषणः ।
तूर्णमुत्सारणंतत्रकारयामासधर्मवित् ॥ 20 ॥

कंचुकोष्णीषिणस्तत्रवेत्रजर्जरपाणयः ।
उत्सारयंतस्तान्योधान्समंतात् परिचक्रमुः ॥ 21 ॥

ऋक्षाणांवानराणां च राक्षसानां च सर्वशः ।
वृंदान्युत्सार्यमाणानिदूरमुत्तस्थुरंततः ॥ 22 ॥

तेषामुत्सार्यमाणानांनिःस्वनःसुमहानभूत् ।
वायुनोद्धूयामानस्यसागरस्येवनिःस्वनः ॥ 23 ॥

उत्सार्यमाणान् दृष्टवाथजगत्यांजातसंभ्रमान् ।
दाक्षिण्यात्तदमर्षाच्चवारयामासराघवः ॥ 24 ॥

संरंबश्चाब्रवीद्रामश्चक्षुषाप्रदहन्निव ।
विभीषणंमहाप्राज्ञंसोपालंबमिदंवचः ॥ 25 ॥

किमर्थंमामनादृत्यक्लिश्यतेऽयंत्वयाजनः ।
निवर्तयैनमुद्योगंजनोऽयंस्वजनोमम ॥ 26 ॥

न गृहाणि न वस्त्राणि न प्राकारास्तिरस्क्रिया ।
नेदृशाराजसत्कारावृत्तमावरणंस्त्रियाः ॥ 27 ॥

व्यसनेषु न कृच्छ्रेषु न युद्धेषुस्वयंवरे ।
न क्रतौनोविवाहेवादर्शनंदूष्यतेस्त्रियाः ॥ 28 ॥

सैषाविपद्गताचैवकृच्छ्रेव च महतिस्थिता ।
दर्शनेनास्तिदोषोऽस्यामत्समीपेविशेषतः ॥ 29 ॥

विसृज्यशिबिकांतस्मात्पद्भ्यामेवोपसर्पतु ।
समीपेममवैदेहींपश्यंत्वेतेवनौकसः ॥ 30 ॥

एवमुक्तस्तुरामेणसविमर्शोविभीषणम् ।
रामस्योपानयसतीतांसन्निकर्षंविनीतवत् ॥ 31 ॥

ततोलक्ष्मणसुग्रीवौहनूमांश्चप्लवंगमः ।
निशम्यवाक्यंरामस्यबभूवुर्व्यथिताभृशम् ॥ 32 ॥

इममार्षं स्तवं दिव्यमितिहासं पुरातनम् ॥ 33 ॥

लज्जयात्ववलीयंतीस्वेषुगात्रेषुमैथिली ।
विभीषणेनानुगताभर्तारंसाभ्यवर्तत ॥ 34 ॥

विस्मयाच्छप्रहर्षाच्चस्नेहाच्चपतिदेवता ।
उदैक्षतमुखंभर्तुःसौम्यंसौम्यतरानना ॥ 35 ॥

अथसमपनुदन्मनःक्लमंसासुचिरमदृष्टमुदीक्ष्यवैप्रियस्य ।
वदनमुदितचंद्रपूर्णकांतंविमलशशांकनिभाननातदानीम् ॥ 36 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे सप्तदशाधिकशततमस्सर्गः ॥




Browse Related Categories: