View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

5.22 सुंदरकांड - द्वाविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ द्वाविंशस्सर्गः ।

सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः ।
प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम् ॥ 1 ॥

यथा यथा सांत्वयिता वश्यः स्त्रीणां तथा तथा ।
यथा यथा प्रियं वक्ता परिभूतस्तथा तथा ॥ 2 ॥

सन्नियच्छति मे क्रोधं त्वयि कामः समुत्थितः ।
द्रवतोऽमार्गमासाद्य हयानिव सुसारथिः ॥ 3 ॥

वामः कामो मनुष्याणां यस्मिन् किल निबध्यते ।
जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते ॥ 4 ॥

एतस्मात्कारणान्न त्वां घातयामि वरानने ।
वधार्हामवमानार्हां मिथ्याप्रव्रजिते रताम् ॥ 5 ॥

परुषाणीह वाक्यानि यानि यानि ब्रवीषि माम् ।
तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः ॥ 6 ॥

एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः ।
क्रोधसंरंभसंयुक्तः सीतामुत्तरमब्रवीत् ॥ 7 ॥

द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः ।
ततः शयनमारोह मम त्वं वरवर्णिनि ॥ 8 ॥

ऊर्ध्वं द्वाभ्यां तु मासाभ्यां भर्तारं मामनिच्छतीम् ।
मम त्वां प्रातराशार्थमालभंते महानसे ॥ 9 ॥

तां तर्ज्यमानां संप्रेक्ष्य राक्षसेंद्रेण जानकीम् ।
देवगंधर्वकन्यास्ता विषेदुर्विकृतेक्षणाः ॥ 10 ॥

ओष्ठप्रकारैरपरा वक्त्रनेत्रैस्तथापराः ।
सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा ॥ 11 ॥

ताभिराश्वासिता सीता रावणं राक्षसाधिपम् ।
उवाचात्महितं वाक्यं वृत्तशौंडीर्यगर्वितम् ॥ 12 ॥

नूनं न ते जनः कश्चिदस्ति निःश्रेयसे स्थितः ।
निवारयति यो न त्वां कर्मणोऽस्माद्विगर्हितात् ॥ 13 ॥

मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः ।
त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसापि कः ॥ 14 ॥

राक्षसाधम रामस्य भार्याममिततेजसः ।
उक्तवानसि यत्पापं क्व गतस्तस्य मोक्ष्यसे ॥ 15 ॥

यथा दृप्तश्च मातंगः शशश्च सद्दृशो युधि ।
तथा मातंगवद्रामस्त्वं नीचः शशवत् स्मृतः ॥ 16 ॥

स त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे ।
चक्षुषोर्विषयं तस्य न तावदुपगच्छसि ॥ 17 ॥

इमे ते नयने क्रूरे विरूपे कृष्णपिंगले ।
क्षितौ न पतिते कस्मान्मामनार्य निरीक्षितः ॥ 18 ॥

तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च ।
कथं व्याहरतो मां ते न जिह्वा व्यवशीर्यते ॥ 19 ॥

असंदेशात्तु रामस्य तपसश्चानुपालनात् ।
न त्वां कुर्मि दशग्रीव भस्म भर्मार्ह तेजसा ॥ 20 ॥

नापहर्तुमहं शक्या त्वया रामस्य धीमतः ।
विधिस्तव वधार्थाय विहितो नात्र संशयः ॥ 21 ॥

शूरेण धनदभ्रात्रा बलैः समुदितेन च ।
अपोह्य रामं कस्माद्धि दारचौर्यं त्वया कृतम् ॥ 22 ॥

सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः ।
विवृत्य नयने क्रूरे जानकीमन्ववैक्षत ॥ 23 ॥

नीलजीमूतसंकाशो महाभुजशिरोधरः ।
सिंहसत्त्वगतिः श्रीमान् दीप्त जिह्वाग्रलोचनः ॥ 24 ॥

चलाग्रमकुटप्रांशुश्चित्रमाल्यानुलेपनः ।
रक्तमाल्यांबरधर तत्संगदविभूषणः ॥ 25 ॥

श्रोणिसूत्रेण महता मेचकेन सुसंवृतः ।
अमृतोत्पादनद्धेन भुजगेनेव मंदरः ॥ 26 ॥

ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः ।
शुशुभेऽचलसंकाशः शृंगाभ्यामिव मंदरः ॥ 27 ॥

तरुणादित्यवर्णाभ्यां कुंडलाभ्यां विभूषितः ।
रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः ॥ 28 ॥

स कल्पवृक्षप्रतिमो वसंत इव मूर्तिमान् ।
श्मशानचैत्यप्रतिमो भूषितोऽपि भयंकरः ॥ 29 ॥

अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः ।
उवाच रावणः सीतां भुजंग इव निःश्वसन् ॥ 30 ॥

अनयेनाभिसंपन्नमर्थहीनमनुव्रते ।
नाशयाम्यहमद्य त्वां सूर्यः संध्यामिवौजसा ॥ 31 ॥

इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः ।
संदिदेश ततः सर्वा राक्षसीर्घोरदर्शनाः ॥ 32 ॥

एकाक्षीमेककर्णां च कर्णप्रावरणां तथा ।
गोकर्णीं हस्तिकर्णीं च लंबकर्णीमकर्णिकाम् ॥ 33 ॥

हस्तिपाद्यश्वपाद्यौ च गोपादीं पादचूलिकाम् ।
एकाक्षीमेकपादीं च पृथुपादीमपादिकाम् ॥ 34 ॥

अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम् ।
अतिमात्रास्यनेत्रां च दीर्घजिह्वामजिह्विकाम् ॥ 35 ॥

अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम् ।
यथा मद्वशगा सीता क्षिप्रं भवति जानकी ॥ 36 ॥

तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च ।
प्रतिलोमानुलोमैश्च सामदानादिभेदनैः ॥ 37 ॥

आवर्जयत वैदेहीं दंडस्योद्यमनेन च ।
इति प्रतिसमादिश्य राक्षसेंद्रः पुनः पुनः ॥ 38 ॥

काममन्युपरीतात्मा जानकीं पर्यतर्जयत् ।
उपगम्य ततः शीघ्रं राक्षसी धान्यमालिनी ॥ 39 ॥

परिष्वज्य दशग्रीवमिदं वचनमब्रवीत् ।
मया क्रीड महाराज सीतया किं तवानया ॥ 40 ॥

विवर्णया कृपणया मानुष्या राक्षसेश्वर ।
नूनमस्या महाराज न दिव्यान् भोगसत्तमान् ॥ 41 ॥

विदधात्यमरश्रेष्ठस्तव बाहुबलार्जितान् ।
अकामां कामयानस्य शरीरमुपतप्यते ॥ 42 ॥

इच्छंतीं कामयानस्य प्रीतिर्भवति शोभना ।
एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली ॥ 43 ॥

प्रहसन्मेघसंकाशो राक्षसः स न्यवर्तत ।
प्रस्थितः स दशग्रीवः कंपयन्निव मेदिनीम् ॥ 44 ॥

ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम् ।
देवगंधर्वकन्याश्च नागकन्याश्च सर्वतः ॥ 45 ॥

परिवार्य दशग्रीवं विविशुस्तं गृहोत्तमम् ।
स मैथिलीं धर्मपरामवस्थितां प्रपेपमानां परिभर्त्स्य रावणः ।
विहाय सीतां मदनेन मोहितः स्वमेव वेश्म प्रविवेश भास्वरम् ॥ 46 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे द्वाविंशस्सर्गः ॥




Browse Related Categories: