श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ द्वाविंशस्सर्गः ।
तथा वसिष्ठे ब्रुवति राजा दशरथस्सुतम प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम् ॥ 1 ॥
कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च ।
पुरोधसा वसिष्ठेन मंगलैरभिमंत्रितम् ॥ 2 ॥
स पुत्रं मूर्ध्न्युपाघ्राय राजा दशरथः प्रियम् ।
ददौ कुशिकपुत्राय सुप्रीतेनांतरात्मना ॥ 3 ॥
ततो वायुस्सुखस्पर्शो नीरजस्को ववौ तदा ।
विश्वामित्रगतं दृष्ट्वा रामं राजीवलोचनम् ॥ 4 ॥
पुष्पवृष्टिर्महत्यासीद्देवदुंदुभिनिस्वनैः ।
शंखदुंदुभिनिर्घोषः प्रयाते तु महात्मनि ॥ 5 ॥
विश्वामित्रो ययावग्रे ततो रामो धनुर्धरः ।
काकपक्षधरो धन्वी तं च सौमित्रिरन्वगात् ॥ 6 ॥
कलापिनौ धनुष्पाणी शोभमानौ दिशो दश ।
विश्वामित्रं महात्मानं त्रिशीर्षाविव पन्नगौ ॥ 7 ॥
अनुजग्मतुरक्षुद्रौ पितामहमिवाश्विनौ ।
तदा कुशिकपुत्रं तु धनुष्पाणी स्वलंकृतौ ॥ 8 ॥
बद्धगोधांगुलित्राणौ खड्गवंतौ महाद्युती ।
कुमारौ चारुवपुषौ भ्रातरौ रामलक्ष्मणौ ॥ 9 ॥
अनुयातौ श्रिया दीप्तौ शोभयेतामनिंदितौ ।
स्थाणुं देवमिवाचिंत्यं कुमाराविव पावकी ॥ 10 ॥
अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे ।
रामेति मधुरां वाणीं विश्वामित्रोऽभ्यभाषत ॥ 11 ॥
गृहाण वत्स सलिलं मा भूत्कालस्य पर्ययः ।
मंत्रग्रामं गृहाण त्वं बलामतिबलां तथा ॥ 12 ॥
न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः ।
न च सुप्तं प्रमत्तं वा धर्षयिष्यंति नैरृताः ॥ 13 ॥
न बाह्वोस्सदृशो वीर्ये पृथिव्यामस्ति कश्चन ।
त्रिषु लोकेषु वै राम न भवेत्सदृशस्तव ॥ 14 ॥
न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये ।
नोत्तरे प्रतिवक्तव्ये समो लोके तवाऽनघ ॥ 15 ॥
एतद्विद्याद्वये लब्धे भविता नास्ति ते समः ।
बलात्वतिबला चैव सर्वज्ञानस्य मातरौ ॥ 16 ॥
क्षुत्पिपासे न ते राम भविष्येते नरोत्तम ।
बलामतिबलां चैव पठतः पथि राघव ॥ 17 ॥
विद्याद्वयमधीयाने यशश्चाप्यतुलं त्वयि ।
पितामहसुते ह्येते विद्ये तेजस्समन्विते ॥ 18 ॥
प्रदातुं तव काकुत्स्थ सदृशस्त्वं हि धार्मिक ।
कामं बहुगुणास्सर्वे त्वय्येते नात्र संशयः ।
तपसा संभृते चैते बहुरूपे भविष्यतः ॥ 19 ॥
ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनश्शुचिः ।
प्रतिजग्राह ते विद्ये महर्षेर्भावितात्मनः ॥ 20 ॥
विद्यासमुदितो रामश्शुशुभे भूरिविक्रमः ।
सहस्ररश्मिर्भगवान् शरदीव दिवाकरः ॥ 21 ॥
गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे ।
ऊषुस्तां रजनीं तत्र सरय्वां सुसुखं त्रयः ॥ 22 ॥
दशरथनृपसूनुसत्तमाभ्यां तृणशयनेऽनुचिते सहोषिताभ्याम् ।
कुशिकसुतवचोऽनुलालिताभ्यां सुखमिव सा विबभौ विभावरी च ॥ 23 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे द्वाविंशस्सर्गः ॥