View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

4.33 किष्किंधाकांड - त्रयस्त्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ त्रयस्त्रिंशस्सर्गः ।

अथ प्रतिसमादिष्टो लक्ष्मणः परवीरहा ।
प्रविवेश गुहां घोरां किष्किंधां रामशासनात् ॥ 1 ॥

द्वारस्था हरयस्तत्र महाकाया महाबलाः ।
बभूवुर्लक्ष्मणं दृष्ट्वा सर्वे प्रांजलय स्थिताः ॥ 2 ॥

निश्वसंतं तु तं दृष्ट्वा क्रुद्धं दशरथात्मजम् ।
बभूवुर्हरयस्त्रस्ता न चैनं पर्यवारयन् ॥ 3 ॥

स तां रत्नमयीं श्रीमांदिव्यां पुष्पितकाननाम् ।
रम्यां रत्नसमाकीर्णां ददर्श महतीं गुहाम् ॥ 4 ॥

हर्म्यप्रासादसंबाधां नानापण्योपशोभिताम् ।
सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभिताम् ॥ 5 ॥

देवगंधर्वपुत्रैश्च वानरैः कामरूपिभिः ।
दिव्यमाल्यांबरधरै श्शोभितां प्रियदर्शनैः ॥ 6 ॥

चंदनागरुपद्मानां गंधैस्सुरभिगंधिनाम् ।
मैरेयाणां मधूनां च सम्मोदितमहापथाम् ॥ 7 ॥

विंध्यमेरुगिरिप्रख्यैः प्रासादैर्नैकभूमिभिः ।
ददर्श गिरिनद्यश्च विमलास्तत्र राघवः ॥ 8 ॥

अंगदस्य गृहं रम्यं मैंदस्य द्विविधस्य च ।
गवयस्य गवाक्षस्य गजस्य शरभस्य च ॥ 9 ॥

विद्युन्मालेश्च संपाते स्सूर्याक्षस्य हनूमतः ।
वीरबाहो स्सुबाहोश्च नलस्य च महात्मनः ॥ 10 ॥

कुमुदस्य सुषेणस्य तारजांबवतोस्तथा ।
दधिवक्त्रस्य नीलस्य सुपाटलसुनेत्रयोः ॥ 11 ॥

एतेषां कपिमुख्यानां राजमार्गे महात्मनाम् ।
ददर्श गृहमुख्यानि महासाराणि लक्ष्मणः ॥ 12 ॥

पांडुराभ्रप्रकाशानि दिव्यमाल्ययुतानि च ।
प्रभूतधनधान्यानि स्त्रीरत्नै श्शोभितानि च ॥ 13 ॥

पांडुरेण तु सालेन परिक्षिप्तं दुरासदम् ।
वानरेंद्रगृहं रम्यं महेंद्रसदनोपमम् ॥ 14 ॥

शुक्लैः प्रासादशिखरैः कैलासशिखरोपमैः ।
सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभितम् ॥ 15 ॥

महेंद्रदत्तैश्श्रीमद्भिर्नीलजीमूतसन्निभैः ।
दिव्यपुष्पफलैर्वृक्षैशीतच्छायैर्मनोरमैः ॥ 16 ॥

हरिभिस्संवृतद्वारं बलिभिश्शस्त्रपाणिभिः ।
दिव्यमाल्यावृतं शुभ्रं तप्तकांचनतोरणम् ॥ 17 ॥

सुग्रीवस्य गृहं रम्यं प्रविवेश महाबलः ।
अवार्यमाणस्सौमित्रिर्महाभ्रमिव भास्करः ॥ 18 ॥

स सप्त कक्ष्या धर्मात्मा नानाजनसमाकुलाः ।
प्रविश्य सुमहद्गगुप्तं ददर्शांतःपुरं महत् ॥ 19 ॥

हैमराजतपर्यंकैर्बहुभिश्च वरासनैः ।
महार्हास्तरणोपेतैस्तत्र तत्रोपशोभितम् ॥ 20 ॥

प्रविशन्नेव सततं शुश्राव मधुरस्वरम् ।
तंत्रीगीतसमाकीर्णं समगीतपदाक्षरम् ॥ 21 ॥

बह्वीश्च विविधाकारा रूपयौवनगर्विताः ।
स्त्रियस्सुग्रीवभवने ददर्श सुमहाबलः ॥ 22 ॥

दृष्ट्वाऽभिजनसंपन्नाश्चित्रमाल्यकृतस्रजः ।
फलमाल्यकृतव्यग्रा भूषणोत्तमभूषिताः ॥ 23 ॥

नातृप्तान्नापि चाव्यग्रान्नानुदात्तपरिच्छदान् ।
सुग्रीवानुचरांश्चापि लक्षयामास लक्ष्मणः ॥ 24 ॥

कूजितं नूपुराणां च कांचीनां निनदं तथा ।
सन्निशम्य तत श्रीमान्सौमित्रिर्लज्जितोऽभवत् ॥ 25 ॥

रोषवेगप्रकुपितशश्रुत्वा चाभरणस्वनम् ।
चकार ज्यास्वनं वीरो दिशश्शब्देन पूरयन् ॥ 26 ॥

चारित्रेण महाबाहुरपकृष्ट स्सलक्ष्मणः ।
तस्थावेकांतमाश्रित्य रामकोपसमन्वितः ॥ 27 ॥

तेन चापस्वनेनाथ सुग्रीवः प्लवगाधिपः ।
विज्ञायाऽगमनं त्रस्त स्संचचाल वरासनात् ॥ 28 ॥

अंगदेन यथा मह्यं पुरस्तात्प्रतिवेदितम् ।
सुव्यक्तमेष संप्राप्त स्सौमित्रिर्भ्रातृवत्सलः ॥ 29 ॥

अंगदेन समाख्यातं ज्यास्वनेन च वानरः ।
बुबुधे लक्ष्मणं प्राप्तं मुखं चास्यव्यशुष्यत ॥ 30 ॥

ततस्तारां हरिश्रेष्ठस्सुग्रीवः प्रियदर्शनाम् ।
उवाच हितमव्यग्रस्त्रास संभ्रांतमानसः ॥ 31 ॥

किन्नु तत्कारणं सुभ्रु प्रकृत्या मृदुमानसः ।
सरोष इव संप्राप्तो येनायं राघवानुजः ॥ 32 ॥

किं पश्यसि कुमारस्य रोषस्थानमनिंदिते ।
न खल्वकारणे कोपमाहरेन्नरसत्तमः ॥ 33 ॥

यदस्य कृतमस्माभिर्बुध्यसे किंचिदप्रियम् ।
तदबुद्ध्या संप्रधार्याशु क्षिप्रमर्हसि भाषितुम् ॥ 34 ॥

अथवा स्वयमेवैनं द्रष्टुमर्हसि भामिनि ।
वचनै स्सांत्वयुक्तैश्च प्रसादयितुमर्हसि ॥ 35 ॥

त्वद्दर्शन विशुद्धात्मा न स कोपं करिष्यति ।
न हि स्त्रीषु महात्मानः क्वचित्कुर्वंति दारुणम् ॥ 36 ॥

त्वया सांत्वैरुपक्रांतं प्रसन्नेंद्रियमानसम् ।
ततः कमलपत्राक्षं द्रक्ष्याम्यहमरिंदमम् ॥ 37 ॥

सा प्रस्खलंती मदविह्वलाक्षी प्रलंबकांचीगुण हेमसूत्रा ।
सलक्षणा लक्ष्मणसन्निधानं जगाम तारा नमितांगयष्टिः ॥ 38 ॥

स तां समीक्ष्यैव हरीशपंतीं तस्थावुदासीनतया महात्मा ।
अवाङ्मुखोऽभून्मनुजेंद्रपुत्रः स्त्रीसन्निकर्षाद्विनिवृत्तकोपः ॥ 39 ॥

सा पानयोगाद्विनिवृत्तलज्जा दृष्टिप्रसादाच्च नरेंद्रसूनोः ।
उवाच तारा प्रणयप्रगल्भं वाक्यं महार्थं परिसांत्वपूर्वम् ॥ 40 ॥

किं कोपमूलं मनुजेंद्रपुत्र कस्ते न संतिष्ठति वाङ्निदेशे ।
क श्शुष्कवृक्षं वनमापतंतं दवाग्निमासीदति निर्विशंकः ॥ 41 ॥

स तस्या वचनं श्रुत्वा सांत्वपूर्वमशंकितम् ।
भूयः प्रणयदृष्टार्थं लक्ष्मणो वाक्यमब्रवीत् ॥ 42 ॥

किमयं कामवृत्तस्ते लुप्तधर्मार्थसंग्रहः ।
भर्ता भर्तृहिते युक्ते न चैनमवबुद्ध्यसे ॥ 43 ॥

न चिंतयति राज्यार्थं नास्मान् शोकपरायणान् ।
सामात्यपरिषत्तारे पानमेवोपसेवते ॥ 44 ॥

स मासांश्चतुरः कृत्वा प्रमाणं प्लवगेश्वरः ।
व्यतीतां स्तान्मदव्यग्रो विहरन्नावबुध्यते ॥ 45 ॥

न हि धर्मार्थसिद्ध्यर्थं पानमेवं प्रशस्यते ।
पानादर्थश्च धर्मश्च कामश्च परिहीयते ॥ 46 ॥

धर्मलोपो महांस्तावत्कृते ह्यप्रतिकुर्वतः ।
अर्थलोपश्च मित्रस्य नाशे गुणवतो महान् ॥ 47 ॥

मित्रं ह्यर्थगुणश्रेष्ठं सत्यधर्मपरायणम् ।
तद्द्वयं तु परित्यक्तं न तु धर्मे व्यवस्थितम् ॥ 48 ॥

तदेवं प्रस्तुते कार्ये कार्यमस्माभिरुत्तरम् ।
यत्कार्यं कार्यतत्त्वज्ञे तदुदाहर्तुमर्हसि ॥ 49 ॥

सा तस्य धर्मार्थसमाधियुक्तं निशम्य वाक्यं मधुरस्वभावम् ।
तारा गतार्थे मनुजेंद्रकार्ये विश्वासयुक्तं तमुवाच भूयः ॥ 50 ॥

न कोपकालः क्षितिपालपुत्र न चाति कोप स्स्वजने विधेयः ।
त्वदर्थकामस्य जनस्य तस्य प्रमादमप्यर्हसि वीर सोढुम् ॥ 51 ॥

कोपं कथं नाम गुणप्रकृष्टः कुमार कुर्यादपकृष्टसत्त्वे ।
कस्त्वद्विधः कोपवशं हि गच्छे त्सत्त्वावरुद्धस्तपसः प्रसूतिः ॥ 52 ॥

जानामि रोषं हरिवीरबंधो र्जानामि कार्यस्य च कालसंगम् ।
जानामि कार्यं त्वयि यत्कृतं न स्तच्चापि जानामि यदत्र कार्यम् ॥ 53 ॥

तच्चापि जानामि यथविषह्यं बलं नरश्रेष्ठ शरीरजस्य ।
जानामि यस्मिंश्च जनेऽवबद्धं कामेन सुग्रीवमसक्तमद्य ॥ 54 ॥

न कामतंत्रे तव बुद्धिरस्ति त्वं वै यथा मन्युवशं प्रपन्नः ।
न देशकालौ हि न चार्थधर्मा ववेक्षते कामरतिर्मनुष्यः ॥ 55 ॥

तं कामवृत्तं मम सन्निकृष्टं कामाभियोगाच्च निवृत्तलज्जम् ।
क्षमस्व तावत्परवीरहंत स्त्वद्भ्रातरं वानरवंशनाथम् ॥ 56 ॥

महर्षयो धर्मतपोऽभिकामाः कामानुकामाः प्रतिबद्धमोहाः ।
अयं प्रकृत्या चपलः कपिस्तु कथं न सज्जेत सुखेषु राजा ॥ 57 ॥

इत्येवमुक्त्वा वचनं महार्थं सा वानरी लक्ष्मणमप्रमेयम् ।
पुन स्सखेदं मदविह्वलंच भर्तुर्हितं वाक्यमिदं बभाषे ॥ 58 ॥

उद्योगस्तु चिराज्ञप्त स्सुग्रीवेण नरोत्तम ।
कामस्यापि विधेयेन तवार्थप्रतिसाधने ॥ 59 ॥

आगता हि महावीर्या हरयः कामरूपिणः ।
कोटीशतसहस्राणि नानानगनिवासिनः ॥ 60 ॥

तदागच्छ महाबाहो चारित्रं रक्षितं त्वया ।
अच्छलं मित्रभावेन सतां दारावलोकनम् ॥ 61 ॥

तारया चाभ्यनुज्ञातस्त्वरया चापि चोदितः ।
प्रविवेश महाबाहुरभ्यंतरमरिंदमः ॥ 62 ॥

तत स्सुग्रीवमासीनं कांचने परमासने ।
महार्हास्तरणोपेते ददर्शादित्यसन्निभम् ॥ 63 ॥

दिव्याभणचित्रांगं दिव्यरूपं यशस्विनम् ।
दिव्यमाल्यांबरधरं महेंद्रमिव दुर्जयम् ॥ 64 ॥

दिव्याभरणमालाभिः प्रमदाभि स्समावृतम् ।
संरब्धतररक्ताक्षो बभूवांतकसन्निभः ॥ 65 ॥

रुमां तु वीर परिरभ्य गाढं वरासनस्थो वरहेमवर्णः ।
ददर्श सौमित्रिमदीनसत्त्वं विशालनेत्रस्सुविशालनेत्रम् ॥ 66 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे त्रयस्त्रिंशस्सर्गः ॥




Browse Related Categories: