View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

6.112 युद्धकांड - द्वादशाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ द्वादशाधिकशततमस्सर्गः ।

भ्रातरंनिहतंदृष्टवाशयानंनिर्जितंरणे ।
शोकवेगपरीतात्माविललापविभीषणः ॥ 1 ॥

वीर विक्रांत विख्यात प्रवीण नयकोविद ।
महार्हाशयनोपेतकिंशेषेनिहतोभुवि ॥ 2 ॥

विक्षिप्यदीर्घौनिश्चेष्टौभुजावंगभूषितौ ।
मुकुटेनापवृत्तेनभास्कराकारवर्चसा ॥ 3 ॥

दंवीरसंप्राप्तंयन्मयापूर्वमीरितम् ।
काममोहपरीतस्ययत्तन्नरुचितंतव ॥ 4 ॥

यन्नदर्पात्प्रहस्तोवानेंद्रजिन्नापरेजनाः ।
न कुंबकर्णोऽतिरथोनातिकायोनरांतकः ॥ 5 ॥

न स्वयंत्वममन्येथास्तस्योदर्कोऽयमागतः ।
गतस्सेतुस्सुनीतीनांगतोधर्मस्यविग्रहः ॥ 6 ॥

गतस्सत्त्वस्यसंक्षेपःप्रस्तावानांगतिर्गता ।
आदित्यःपतितोभूमौमग्नस्तमसिचंद्रमाः ॥ 7 ॥

चित्रभानुःप्रशांतार्चिर्व्यवसायोनिरुद्यमः ।
अस्मिन्निपतितेवीरे भूमौशस्त्रभृतांवरे ॥ 8 ॥

सौमित्रिं सत्त्वसंपन्नं लक्ष्मणं शुभलक्षणम् ।
विभीषणमिमं सौम्य लंकायामभिषेचय ॥ 9 ॥

धृतिप्रवालःप्रसह्याग्य्रपुष्पस्तपोबलश्शौर्यनिबद्धमूलः ।
रणेमहान्राक्षसराजवृक्षःसम्मर्दितोराघवमारुतेन ॥ 10 ॥

तेजोविषाणःकुलवंशवंशःकोपप्रसादापरगात्रहस्तः ।
इक्ष्वाकुसिंहावगृहीतदेहःसुप्तःक्षितौरावणगंधहस्ती ॥ 11 ॥

पराक्रमोत्साहविजृंभितार्चिर्निःश्वासधूमस्स्वबलप्रतापः ।
प्रतापवान्सम्यतिराक्षसाग्निर्विर्वापितोरामपयोधरेण ॥ 12 ॥

सिंहरक्षलांगूलककुद्विषाणःपराभिजिद्गंधनगंधहस्ती ।
रक्षोवृषश्चापलकर्णचक्षुःक्षितीश्वरव्याघ्रहतोऽवसन्नः ॥ 13 ॥

वदंतंहेतुमद्वाक्यंपरिदृष्टार्थनिश्चयम् ।
रामःशोकसमाविष्टमित्युवाचविभीषणम् ॥ 14 ॥

नायंविनष्टोनिश्चेष्टस्समरेचंडविक्रमः ।
अत्युन्नतमहोत्साहःपतितोऽयमशंकितः ॥ 15 ॥

नैवंविनष्टाःशोच्यंतेक्षत्रधर्मव्यवस्थिताः ।
वृधदिमाशंसमानायेनिपतंतिरणाजिरे ॥ 16 ॥

येनसेंद्रास्त्रयोलोकास्त्रासितायुधिधीमता ।
तस्मिन्कालसमायुक्ते न कालःपरिशोचितुम् ॥ 17 ॥

नैकांतविजयोयुद्धेभूतपूर्वःकदाचन ।
परैराहन्यतेवीरःपरान्वाहंतिसंयुगे ॥ 18 ॥

स तद्राज्यं महत्प्राप्य रामदत्तं विभीषणः ।
प्रकृतीः सांत्ययित्वा च ततो राममुपागमत् ॥ 19 ॥

तदेवंनिश्चयंदृष्टवातत्त्वमास्थायविज्वरः ।
यदिहानंतरंकार्यंकल्प्यंतदनुचिंतय ॥ 20 ॥

मुक्तवाक्यंविक्रांतंराजपुत्रंविभीषणः ।
उवाचशोकसंतप्तोभ्रातुर्हितमनंतरम् ॥ 21 ॥

योऽयंविमर्देष्वविभग्नपूर्वःसुरैस्समस्थेरपिवासवेन ।
भवंतमासाद्यरणेविभग्नोवेलामिवासाद्ययथासमुद्रः ॥ 22 ॥

अनेनदत्तानिवनीपकेषुभुक्ताश्चभोगानिभृताश्चभृत्याः ।
धनानिमित्रेषुसमर्पितानिवैराण्यमित्रेषुनिपातितानि ॥ 23 ॥

एषोहिताग्निश्चःमहातपाश्चवेदांतगःकर्मसुचाग्य्रशूरः ।
एतस्ययत्प्रेतगतस्यकृत्यंतत्कर्तुमिच्छामितवप्रसादात् ॥ 24 ॥

मरणांतानिवैराणिनिर्वृत्तंवःप्रयोजनम् ।
क्रियतामस्यसंस्कारोममाप्येषयथातव ॥ 25 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे द्वादशाधिकशततमस्सर्गः ॥




Browse Related Categories: