View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

2.104 अयोध्याकांड - चतुरधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ चतुरधिकशततमस्सर्गः ।

तं तु राम स्समाश्वास्य भ्रातरं गुरवत्सलम् ।
लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे ॥ 1 ॥

किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया ।
यस्मात्त्वमागतो देशमिमं चीरजटाजिनः ॥ 2 ॥

यन्निमित्तमिमं देशं कृष्णाजिनजटाधरः ।
हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि ॥ 3 ॥

इत्युक्तः कैकयीपुत्रः काकुत्स्थेन महात्मना ।
प्रगृह्य बलवद्भूयः प्रांजलिर्वाक्यमब्रवीत् ॥ 4 ॥

आर्यं तातः परित्यज्य कृत्वा कर्म सुदुष्करम् ।
गतः स्वर्ग महाबाहुः पुत्रशोकाभिपीडितः ॥ 5 ॥

स्त्रिया नियुक्तः कैकेय्या मम मात्रा परंतप ।
चकार सा महत्पापमिदमात्मयशोहरम् ॥ 6 ॥

सा राज्यफलमप्राप्य विधवा शोककर्शिता ।
पतिष्यति महाघोरे निरये जननी मम ॥ 7 ॥

तस्य मे दासभूतस्य प्रसादं कर्तुमर्हसि ।
अभिषिंचस्व चाद्येव राज्येन मघवानिव ॥ 8 ॥

इमाः प्रकृतय स्सर्वा विधवा मातरश्च याः ।
त्वत्सकाशमनुप्राप्ता प्रसादं कर्तुमर्हसि ॥ 9 ॥

तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद ।
राज्यं प्राप्नुहि धर्मेण सकामान्सुहृदः कुरु ॥ 10 ॥

भवत्वविधवा भूमि स्समग्रा पतिना त्वया ।
शशिना विमलेनेव शारदी रजनी यथा ॥ 11 ॥

एभिश्च सचिवैस्सार्धं शिरसा याचितो मया ।
भ्रातु शिष्यस्य दासस्य प्रसादं कर्तुमर्हसि ॥ 12 ॥

तदिदं शाश्वतं पित्र्यं सर्वं प्रकृतिमंडलम् ।
पूजितं पुरुषव्याघ्र नातिक्रमितुमर्हसि ॥ 13 ॥

एवमुक्त्वा महाबाहु स्सबाष्पः कैकयीसुतः ।
रामस्य शिरसा पादौ जग्राह भरतः पुनः ॥ 14 ॥

तं मत्तमिव मातंगं निःश्वसंतं पुन पुनः ।
भ्रातरं भरतं रामः परिष्वज्येदमब्रवीत् ॥ 15 ॥

कुलीनःसत्त्वसंपन्नस्तेजस्वी चरितव्रतः ।
राज्यहेतोः कथं पापमाचरेत्त्वद्विधो जनः ॥ 16 ॥

न दोषं त्वयि पश्यामि सूक्ष्ममप्यरिसूदन ।
न चापि जननीं बाल्यात्त्वं विगर्हितुमर्हसि ॥ 17 ॥

कामकारो महाप्राज्ञ गुरूणां सर्वदाऽनघ ।
उपपन्नेषु दारेषु पुत्रेषु च विधीयते ॥ 18 ॥

वयमस्य यथा लोके संख्याताः सौम्य साधुभिः ।
भार्याः पुत्राश्च शिष्याश्च त्वमनुज्ञातुमर्हसि ॥ 19 ॥

वने वा चीरवसनं सौम्य कृष्णाजिनांबरम् ।
राज्ये वाऽपि महाराजो मां वासयितुमीश्वरः ॥ 20 ॥

यावत पितरि धर्मज्ञे गौरवं लोकसत्कृतम् ।
तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम् ॥ 21 ॥

एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव ।
मातापितृभ्यामुक्तोऽहं कथमन्यत्समाचरे ॥ 22 ॥

त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम् ।
वस्तव्यं दंडकारण्ये मया वल्कलवाससा ॥ 23 ॥

एवं कृत्वा महाराजो विभागं लोकसन्निधौ ।
व्यादिश्य च महातेजा दिवं दशरथो गतः ॥ 24 ॥

स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव ।
पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि ॥ 25 ॥

चतुर्दश समास्सौम्य दंडकारण्यमाश्रितः ।
उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना ॥ 26 ॥

यदब्रवीन्मां नरलोकसत्कृतः पिता महात्मा विबुधाधिपोपमः ।
तदेव मन्ये परमात्मनो हितं न सर्वलोकेश्वर भावमप्ययम् ॥ 27 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे चतुरधिकशततमस्सर्गः ॥




Browse Related Categories: