श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ एकोनपंचाशस्सर्गः ।
ततस्स कर्मणा तस्य विस्मितो भीमविक्रमः ।
हनुमान्रोषताम्राक्षो रक्षोधिपमवैक्षत ॥ 1 ॥
भ्राजमानं महार्हेण कांचनेन विराजता ।
मुक्ताजालावृतेनाथ मकुटेन महाद्युतिम् ॥ 2 ॥
वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः ।
हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः ॥ 3 ॥
महार्हक्षौमसंवीतं रक्तचंदनरूषितम् ।
स्वानुलिप्तं विचित्राभिर्विविधाभिश्च भक्तिभिः ॥ 4 ॥
विचित्रैर्दर्शनीयैश्च रक्ताक्षैर्भीमदर्शनैः ।
दीप्ततीक्ष्णमहादंष्ट्रैः प्रलंबदशनच्छदैः ॥ 5 ॥
शिरोभिर्दशभिर्वीरं भ्राजमानं महौजसम् ।
नानाव्यालसमाकीर्णैश्शिखरैरिव मंदरम् ॥ 6 ॥
नीलांजनचयप्रख्यं हारेणोरसि राजता ।
पूर्णचंद्राभवक्त्रेण सबलाकमिवांबुदम् ॥ 7 ॥
बाहुभिर्बद्धकेयूरैश्चंदनोत्तमरूषितैः ।
भ्राजमानांगदैः पीनैः पंचशीर्षैरिवोरगैः ॥ 8 ॥
महतिस्फाटिके चित्रे रत्नसंयोगसंस्कृते ।
उत्तमास्तरणास्तीर्णे सूपविष्टं वरासने ॥ 9 ॥
अलंकृताभिरत्यर्थं प्रमदाभिः समंततः ।
वालव्यजनहस्ताभिरारात्समुपसेवितम् ॥ 10 ॥
दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा ।
मंत्रिभिर्मंत्रतत्त्वज्ञैर्निकुंभेन च मंत्रिणा ॥ 11 ॥
सुखोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितैः ।
कृत्स्नं परिवृतं लोकं चतुर्भिरिव सागरैः ॥ 12 ॥
मंत्रिभिर्मंत्रतत्त्वज्ञैरन्यैश्च शुभबुद्धिभिः ।
अन्वास्यमानं रक्षोभिः सुरैरिव सुरेश्वरम् ॥ 13 ॥
अपश्यद्राक्षसपतिं हनुमानतितेजसम् ।
विष्ठितं मेरुशिखरे सतोयमिव तोयदम् ॥ 14 ॥
स तैस्संपीड्यमानोऽपि रक्षोभिर्भीमविक्रमैः ।
विस्मयं परमं गत्वा रक्षोधिपमवैक्षत ॥ 15 ॥
भ्राजमानं ततो दृष्ट्वा हनुमान्राक्षसेश्वरम् ।
मनसा चिंतयामास तेजसा तस्य मोहितः ॥ 16 ॥
अहो रूपमहो धैर्यमहो सत्त्वमहो द्युतिः ।
अहो राक्षसराजस्य सर्वलक्षणयुक्तता ॥ 17 ॥
यद्यधर्मो न बलवान् स्यादयं राक्षसेश्वरः ।
स्यादयं सुरलोकस्य सशक्रस्यापि रक्षिता ॥ 18 ॥
अस्य क्रूरैर्नृशंसैश्च कर्मभिर्लोककुत्सितैः ।
सर्वे बिभ्यति खल्वस्माल्लोकास्सामरदानवाः ॥ 19 ॥
अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत् ।
इति चिंतां बहुविधामकरोन्मतिमान् हरिः ॥ 20 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे एकोनपंचाशस्सर्गः ॥