श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ त्रयोविंशस्सर्गः ।
ततस्समुपजिघ्रंती कपिराजस्य तन्मुखम् ।
पतिं लोकाच्च्युतं तारा मृतं वचनमब्रवीत् ॥ 1 ॥
शेषे त्वं विषमे दुःखमकृत्वा वचनं मम ।
उपलोपचिते वीर सुदुःखे वसुधातले ॥ 2 ॥
मत्तः प्रियतरा नूनं वानरेंद्र मही तव ।
शेषे हि तां परिष्वज्य मां च न प्रतिभाषसे ॥ 3 ॥
सुग्रीवस्य वशं प्राप्तो विधिरेषभवत्यहो ।
सुग्रीव एव विक्रांतो वीर साहसिकप्रिय ॥ 4 ॥
ऋक्षवानरमुख्यास्त्वां बलिनः पर्युपासते ।
एषां विलपितं कृच्छ्रमंगदस्य च शोचतः ॥ 5 ॥
मम चेमा गिरः श्रुत्वा किं त्वं न प्रतिबुध्यसे ।
इदं तच्छूरशयनं यत्र शेषे हतो युधि ।
शायिता निहता यत्र त्वयैव रिपवः पुरा ॥ 6 ॥
विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रिय ।
मामनाथां विहायैकां गतस्त्वमसि मानद ॥ 7 ॥
शूराय न प्रदातव्या कन्या खलु विपश्चिता ।
शूरभार्यां हतां पश्य सद्यो मां विधवां कृताम् ॥ 8 ॥
अवभग्नश्च मे मानो भग्ना मे शाश्वती गतिः ॥ 9 ॥
अगाधे च निमग्नाऽस्मि विपुले शोकसागरे ।
अश्मसारमयं नूनमिदं मे हृदयं दृढम् ॥ 10 ॥
भर्तारं निहतं दृष्ट्वा यन्नाद्य शतधा कृतम् ।
सुहृच्चैव हि भर्ता च प्रकृत्या मम च प्रियः ।
आहवे च पराक्रांतश्शूरः पंचत्वमागतः ॥ 11 ॥
पतिहीना तु या नारी कामं भवतु पुत्रिणी ।
धनधान्यैस्सुपूर्णाऽपि विधवेत्युच्यते बुधैः ॥ 12 ॥
स्वगात्रप्रभवे वीर शेषे रुधिरमंडले ।
क्रिमिरागपरिस्तोमे त्वमात्मशयने यथा ॥ 13 ॥
रेणुशोणितसंवीतं गात्रं तव समंततः ।
परिरब्धुं न शक्नोमि भुजाभ्यां प्लवगर्षभ ॥ 14 ॥
कृतकृत्योऽद्य सुग्रीवो वैरेऽस्मिन्नतिदारुणे ।
यस्य रामविमुक्तेन हृतमेकेषुणा भयम् ॥ 15 ॥
शरेण हृदि लग्नेन गात्रसंस्पर्शने तव ।
वार्यामि त्वां निरीक्षंती त्वयि पंचत्वमागते ॥ 16 ॥
उद्ववर्ह शरं नीलस्तस्य गात्रगतं तदा ।
गिरिगह्वरसंलीनं दीप्तमाशीविषं यथा ॥ 17 ॥
तस्य निष्कृष्यमाणस्य बाणस्य च बभौ द्युतिः ।
अस्तमस्तकसंरुद्धो रश्मिर्दिनकरादिव ॥ 18 ॥
पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः ।
ताम्रगैरिकसंपृक्ता धारा इव धराधरात् ॥ 19 ॥
अवकीर्णं विमार्जंती भर्तारं रणरेणुना ।
अस्रैर्नयनजैश्शूरं सिषेचास्त्रसमाहतम् ॥ 20 ॥
रुधिरोक्षितसर्वांगं दृष्ट्वा विनिहतं पतिम् ।
उवाच तारा पिंगाक्षं पुत्रमंगदमंगना ॥ 21 ॥
अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम् ।
संप्रसक्तस्य वैरस्य गतोऽंतः पापकर्मणा ॥ 22 ॥
बालसूर्योदयतनुं प्रयांतं यमसदनम् ।
अभिवादय राजानं पितरं पुत्र मानदम् ॥ 23 ॥
एवमुक्तस्समुत्थाय जग्राह चरणौ पितुः ।
भुजाभ्यां पीनवृत्ताभ्यामंगदोऽहमिति ब्रुवन् ॥ 24 ॥
अभिवादयमानं त्वामंगदं त्वं यथा पुरा ।
दीर्घायुर्भव पुत्रेति किमर्थं नाभिभाषसे ॥ 25 ॥
अहं पुत्रसहाया त्वामुपासे गतचेतसम् ।
सिंहेन निहतं सद्यो गौस्सवत्सेव गोवृषम् ॥ 26 ॥
इष्ट्वा संग्रामयज्ञेन रामप्रहरणांभसि ।
अस्मिन्नवभृथे स्नातः कथं पत्न्या मया विना ॥ 27 ॥
या दत्ता देवराजेन तव तुष्टेन संयुगे ।
शातकुंभमयीं मालां तां ते पश्यामि नेह किम् ॥ 28 ॥
राज्यश्रीर्न जहाति त्वां गतासुमपि मानद ।
सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा ॥ 29 ॥
न मे वचः पथ्यमिदं त्वया कृतं न चास्मि शक्ता हि निवारणे तव ।
हता सपुत्राऽस्मि हतेन संयुगे सह त्वया श्रीर्विजहाति मामिह ॥ 30 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे त्रयोविंशस्सर्गः ॥